________________
१०९
ठिका - [भा. ४३०]
वृ-अमनोज्ञानाम्-असाम्भोगिकानां संविग्नानाम इतरेषांच-असंविग्नानांगमने-आपाते सति वितथाचरणे दृश्यमाने भवति परस्परमधिकरणम् । इयमत्र भावना-आचार्याणांपरस्परमन्यथा सामाचार्य, ततोऽसाम्भोगिकानां सामाचारीवितथाचरणदर्शने 'नैषा सामाचारी' इति परस्परमधिकरणंप्रवर्तते । इतरे कुशीलाः पार्श्वस्थादयस्तेप्रचुरेण वारिणा पुतप्रक्षालनं कुर्वन्ति, तस्तेषां कुशीलानां प्रचुरद्रवेण पुनर्निर्लेपकरणं दृष्ट्वा शैक्षकाणाम् आदिशब्दात् शौचवादिनां मन्दधर्मिणां च गमनं तेषां समीपे भवति॥ [भा.४३१] निग्गंथाणं पढम, सेसा खलु होति तेसि पडिकुट्ठा ।
दव अप्प कलुस असती, अवण्ण पुरिसेसुपडिसेहो ।। कृयतएवमापाते दोषास्तस्मानिर्ग्रन्थानांप्रथमस्थण्डिलम्-अनापातमसलोकमित्येवंरूपम्, शेषाणि त्रीणि खलु तेषां' निर्ग्रन्थानां प्रतिक्रुष्टानि प्रतिषिद्धानि । अथ परपक्षापातं तत्रापि पुरुषापातं व्रजति तदा नियमतो द्रवमकलुषं परिपूर्णं च नेतव्यम्, अन्यथा 'द्रवे' पानीये अल्पे कलुषे वा यदि वा 'असति' विना पानीयेन गतो भवेत् ततस्ते द्दष्टवा 'अवर्णम्' अश्लाघां कुर्युः, यथा-अशुचयोऽमी, न केवलमवर्णं कुर्युः किन्तु प्रतिषेधोऽपि तैः क्रियते, यथा-मा कोऽप्यमीषामशुचीनां भक्तं पानं वा दद्यात् । एष पुरुषेषु-पुरुषापाते दोषः।।
सम्प्रति स्त्री-नपुंसकापाते दोषानाह[भा.४३२] आय पर तदुभए वा, संकाईया हवंति दोसाओ।
पंडिस्थिसंगगहिते, उड्डाहो पडिगमनमादी । वृ-स्त्रीणां नपुंसकानां चापाते आत्मनि परे तदुभयस्मिन् वा शङ्कादयो दोषा भवन्ति । तत्रात्मनि साधुः शङ्काविषयीक्रियते, यथा-एष किमप्युद्भामयति?; परैःस्त्रनपुंसको वा शङ्कयते, यथा-एते पापकर्माण एनं साधु कामयन्ते इति; तदुभयस्मिन् यथा-द्वावप्येतौ परस्परमत्र मैथुनार्थमागतौतिदेवमुक्ता शङ्का । आदिशब्दादवर्णादिदोषपरिग्रहः । तथास्त्र्यापातेनपुंसकापाते वास साधुरात्म-परोभयसमुत्थेनदोषेणस्त्र्यापण्डकेन वासार्द्धसङ्गं मैथुनकुर्यात्, तत्र केनचिदगारेण दृष्ट्वा गृहीतः स्यात्ततः प्रवचनस्योड्डाहः। तथा सउड्डाहितइति कृत्वा प्रतिगमनादीनि कुर्यात्॥ अस्मिन्नेव चतुर्थे स्थण्डिले तिर्यगापाते दोषानाह[भा.४३३] आहननादी दित्ते, गरहियतिरिएसुसंकमादीया ।
एमेव य संलोए, तिरिए वज्जित्तु मनुएसु॥ वृ-दृप्ते' हप्ततिर्यगापाते आहननादयो दोषाः आहननं श्रङ्गादिभिस्ताडनम्, आदिशब्दाद् मूर्छागमन-मारणादिपरिग्रहः । 'गर्हितेषु तिर्यक्षु' गर्हिततिर्यकस्त्र-नपुंसकापाते शङ्का मैथुने,
आदिशब्दात् प्रतिसेवेतापीत्यादयो दोषाः । यथा आपाते दोषा उक्ता एवमेव संलोकेऽपि तिर्यग्योनिकान् वर्जयित्वा मनुष्येषु द्रष्टव्याः । किमुक्तं भवति ?-एषां संलोके नास्ति कश्चिदनन्तरोदितो दोषः, मनुष्याणांतुस्त्री-पुरुष-नपुंसकानांसंलोकेयेआपातेदोषास्ते देवितव्याः।। यद्यपि कदाचिदात्म-परोभयसमुत्था मैथुने दोषा न भवेयुस्तथाप्यमी सम्भाव्यन्ते[भा.४३४] जत्थऽम्हे पासामो, जत्थ य आयरइ नातिवग्गोणे।
परिभव कामेमाणो, संकेयगदिन्नको वा वि ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org