________________
१०८
बृहत्कल्प-छेदसूत्रम् -१एस पुरिसाण भणिओ, इत्थि-नपुंसाण वी एवं ।। "चउगुरुगाजमलपदा' इति 'यमलपदानि' स्त्री-नपुंसकलक्षणानि चतुर्गुरुकानि वक्तव्यानि।तानि चैवम्-प्राकृतस्त्रीणामशीचवादिनीनामापातेचत्वारो गुरुकाः द्वाभ्यां लघवः, तद्यथातपसा कालेन च, तासामेव शोचवादिनीनां चत्वारो गुरुकाः कालगुरवः; कौटुम्बिकस्त्रणामशौचवादिनीनामापाते कालगुरवश्चत्वारो गुरुकाः, तासामेव शौचवादिनीनामापाते तपोगुरुकाश्चत्वारो गुरवः; एवमेव दण्डिकस्त्रीणामशौचवादिनीनामपि, शौचवादिनीनां च चत्वारो गुरुका द्वाभ्यां गुरुवस्तपसा कालेनच; एवमेव नपुंसकानामप्यापातेवक्तव्यम्। अत्रैव मतान्तरमाहअथवा स्त्रीणामापाते चतुर्गुरुका उक्तप्रकारेण तपसा कालेन च विशेषिताः। नपुंसकानामापाते षडलघवो यथोक्तक्रमेण तपः-कालविशेषिताः।। सम्प्रति तिर्यगापातमधिकृत्यार्धापक्रान्तिमाह[भा.४२८] तिरिएसु वि एवं चिय, अदुगुंछ-दुगुंछ-दित्त-ऽदित्तेसु ।
अमणुन्नेयर लहुगो, संजतिवग्गम्मेि चउगुरुगा।। वृ-'एवमेव' अनेनैवप्रकारेण तिर्यक्ष्वजुगुप्सित-जुगुप्सित-हप्ता-ऽध्लेष्वर्धापक्रान्तिरवसेया, तद्यथा-प्राकृतपुरुषगृहीतानामद्दप्तानां तिर्यक्पुरुषाणामापातेचत्वारो लघवोद्वाभ्यां लघुकास्तपसा कालेन च, तेषामेव च ध्तानां त एव चत्वारो लघवः कालगुरुकाः; कौटुम्बिकपरिगृहीतानामपि तिर्यक्पुरुषाणामध्प्तानामापाते च त एव कालगुरुकाश्चत्वारो लघवः, तेषामेव ६प्तानां तपोगुरुवश्चत्वारो लघुकाः; दण्डिकपरिगृहीतानां तिर्यक्पुरुषाणामध्तानामापाते त एव चत्वारो लघवस्तपोगुरुकाः, तेषामेव हप्तानामापाते चतुर्लघुका द्वाभ्यां गुरवस्तपसा कालेन च; तथा प्राकृतपरिगृहीतानां स्त्रीणां नपुंसकानां च तिरश्चामजुगुप्सितानामापाते चत्वारो गुरुका द्वाभ्यां लघवस्तपसा कालेन च, तेषामेव जुगुप्सितानामापाते चत्वारो गुरुकाः कालगुरवः; कोटुम्बिकपरिगृहीतानां तिर्यकस्त्री-नपुंसकानामापातेत एव कालगुरुकाश्चत्वारो गुरवः, तेषामेव जुगुप्सितानामापाते चत्वारो गुरुकास्तपोगुरवः; एत एव दण्डिकपरिगृहीतानामपि तिर्यकस्त्रीनपुंसकानामध्प्तानामापाते द्रष्टव्याः, तानामापाते चत्वारो गुरुका द्वाभ्यां गुरवः कालेन तपसा च । उक्ता तिर्यक्ष्वप्यद्धपक्रान्ति, सम्प्रति स्वपक्षापाते शोधिमाहअमनोज्ञानाम्-असाम्भोगिकानां संविग्नानाम् इतरेषां च-असंविग्नानामापाते प्रायश्चित्तं लघुको मासः । 'संयतीवर्गे समापतति' संयतीनामापाते चत्वारो गुरुकाः ।। सम्प्रति प्रागुक्तमेवार्थमुपदिदर्शयिषुराह[भा.४२९] भद्दतिरी पासंडे, मनुयाऽसोएहि दोहि लहु लहुगा।
कालगुरू तवगुरुगा, दोहि गरू अड्डोकंति दुगे॥ वृ-भद्रेषु-अध्प्तेषु तिर्यक्षु पुरुषेषु मनुष्येषु गृहस्थेषु पाषण्डिषु चाऽशौचवादिष्वापतत्सु चत्वारो लघुकाः द्वाभ्यां लघवः । मनुष्यस्त्र-नपुंसकानांशौचवादिनामापाते चत्वारो गुरुका द्वाभ्यां गुरवः, तद्यथा-तपोगुरुकाः कालगुरुकाश्च। शेषेषुतु तिर्यग्-मनुष्यभेदेषु 'द्विके' तपः-काललक्षणे 'अ पक्रान्ति' कचित्तपोगुरुका कचित् कालगुरुकेत्येवंरूपाऽवसातव्या ।सा चप्राक्प्रदर्शिता॥
गतं शोधिद्वारम् । इदानीमपायद्वारमाह[भा.४३०] अमणुन्नेयरगमणे, वितहायरणम्मि होइ अहिगरणं ।
पउरदवकरण दटुं, कुसील सेहादिगमनं च ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org