________________
उद्देशकः३, मूलं-११०, [भा. ४८७५]
१०३
[भा.४८७६] नागरगो संवट्टो, अनोग्गहो जत्थ वा पविठ्ठो सो।
सेसम्मि उग्गहो जो, गमो उ सत्थम्मि सो इहई।। वृ-'नागरकः' नगरसम्बन्धी संवत्तः अनवग्रहः' नतत्रावग्रहो भवति । 'यत्र वा' प्रामादौ स नागरकः संवतः प्रविष्टस्तत्रापि नावग्रहः । शेषः-ग्रामेयकसंवतस्तत्रावग्रहो भवति परं य एव सार्थे गम उक्तः स एवेह द्रष्टव्यः॥
चूर्णीवचोभिः फलकैः सुयोजितैर्गुरुप्रतिष्ठानयुतैः ससूत्रकैः । तृतीयकोद्देशकवारिधिं सतां, तरी तरीतुं विवृतिः कृता मया ॥
उद्देशकः-३ समाप्तः मुनि दीपरलसागरेण संशोधिता सम्पादिता वृहत्कल्पसूत्रे तृतीय उद्देशकस्य (भद्रबाहुस्वामिरचिता नियुक्तियुक्त) संघदास गणि विरचितं भाष्य एवं मल्यगिरि क्षेमकीर्ति आचार्याभ्यां विरचिता टीका परिसमाप्ता।
(उद्देशकः-४) व्याख्यातस्तृतीय उद्देशकः, सम्प्रति चतुर्थ आरभ्यते । तस्य चेदमादिसूत्रम्
मू.(१११) तओअनुग्घाइया पन्नत्ता, तंजहा-हत्यकम्मंकरेमाणे, मेहुणंपडिसेवमाणे, राईभोयणं भुंजमाणे॥
वृ-अथास्य सूत्रस्य कः सम्बन्धः? इति चिन्तायां सम्बन्धविधिमेव तावदुपदर्शयति[भा.४८७७] सुत्ते सुत्तं बज्झति, अंतिमपुप्फे व बज्झती तंतू।
इय सुत्तातो सुत्तं, गहंति अत्यातो सुत्तं वा ॥ वृ-इह सम्बन्धोऽनेकधा भवति-यथा पुष्पेषु ग्रथ्यमानेषु यदा 'सूत्रम्' तन्तुनिष्ठितो भवति तदा तत्रैव सूत्रेऽपरं सूत्रं बध्यते, अन्तिमपुष्पे वा तन्तुर्बध्यते, बद्धवा च पुष्पाणि ग्रथ्यन्ते; एवं यस्मिन्नन्तिमसूत्रे उद्देशको निष्ठितो भवति ततः सूत्रादपरस्योद्देशकस्य यद् आचं सूत्रं तद् यदि सहशाधिकारिकं भवति तदा सूत्रात् सूत्रं ग्रन्थन्तीत्युच्यते । कापि पुनरर्यादपरसूत्रं सम्बध्यते । वाशब्दोपादानात् क्वाप्यर्थादर्थस्य सम्बन्धः क्रियते॥तत्रार्थात् सूत्रसम्बन्धं तावद् दर्शयति[भा.४८७८] घोसो त्ति गोउलं ति य, एगटुं तत्थ संवसं कोई।
खीरादिविंधियतनू, मा कम्मं कुज आरंभो ॥ वृ-घोष इकतिगोकुलमिति चैकार्थम् । तत्रतृतीयोद्देशकान्त्यसूत्राभिहितचलक्षेत्रद्वारावसरायाते गोकुले संवसन कश्चित् साधुः क्षीरादिबृंहिततनुः प्रचुरदुग्ध-दध्याधुपचितशरीरो मोहोद्भवेन मा हस्तकर्म कुर्यात्, उपलक्षणमिदम्, तेनेमा वा मैथुनंप्रतिसेवेत, अतस्तद्वारणार्थमादिसूत्रस्यारम्भः क्रियते॥अथ सूत्रात् सूत्रसम्बन्धमाह[भा.४८७९] हेट्ठाऽनंतरसुत्ते, वुत्तमनुग्घाइयं तु पच्छित्तं ।
तेन व सह संबंधो, एसो संदट्ठओ नाम ।। वृ-तृतीयोद्देशके यदधस्तादन्त्यसूत्रं तस्य अन्तरसूत्रे' रोधकाख्ये यो बहिर्भिक्षाचर्या गतस्तां रजनीं तत्रैव बहिरावसति तस्यानुद्धातिकं प्रायश्चित्तं साक्षादेवोक्तम्, अत्रापि देवानुद्धातिकं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org