________________
१०२
बृहत्कल्प-छेदसूत्रम् -३-३/११० हट्ठा वि लभंतेवं, तदभावे पच्छ जे पत्ता ।। वृ. अथ तत्र प्राशुका गोचरभूमिरुच्चारभूमिश्च विद्यते, वसतिश्च छन्ना प्राप्यते, अन्यत्र च तथाविधा नास्ति ततो हृष्टा अपि ‘एवम्' अनन्तरोक्तयुक्त्या लभन्ते । तदभावे' अनन्तरोक्तकारणाभावे ये पश्चात् प्राप्तास्त एव लभन्ते ।। गतं वजिकाद्वारम् । अथ सार्थद्वारमाह[भा.४८७१] जेनोग्गहिओ सत्थो, जेन य सत्थाहो समग दोण्हं पि।
जावइया पडिसत्था, पुव्वठिय साहारणंजंच॥ कृ'येन' साधुनासार्थः पूर्वमवगृहीतोयन वा सार्थवाहः पूर्वमनुज्ञापितस्तस्यावग्रह आभवति। अथ समकमनुज्ञापितस्ततो द्वयोरप्यवग्रहः । यावन्तश्च 'प्रतिसा' मौलसार्थाद् लघुतरास्तत्र समागत्य मिलन्ति तेषु ये साधवस्ते पूर्वस्थितानामुपसम्पन्ना भवन्ति । यत्र परस्परं निश्रया द्वौ सार्थी तिष्ठतस्तत्र साधारणं मन्तव्यमिति ॥ एतदेव स्पष्टयति[भा.४८७२] सत्ये अहप्पधाणा, एक्कनेकेन सत्यवाहोउ।
आपुच्छिया विदिन्ने, दोण्ह वि मिलिया व एगट्ठा॥ वृ-सार्थे ये केचिद् यथाप्रधानाः पुरुषास्ते एकेनानुज्ञापिताः, एकेन तु साधुना सार्थवाह आपृष्टः, ताभ्यां चोभयोरपि वितीर्णम्-अनुज्ञापितं ततो येन कृतं नातिक्रम्यते तेन यस्मै प्रदत्तं तस्यावग्रहः । अथ द्वावप्यनतिक्रमणीयौ ततो द्वयोरपि साधारणं क्षेत्रम् । अथ द्वावप्येकत्र मिलितावनुज्ञापितौ ततो येन पूर्वमनुज्ञापितस्तस्यावग्रह इति ॥ [भा.४८७३] इत्थं महल्लसत्थं, डहरागो पडिच्छए न ते पभुणो।
तुरियं वा आधावति, भएण एमेव अस्सामी ।। - महल्लं-बृहत्तरं कमपि सार्थमागच्छन्तं 'डहरकः' लघुतरः सार्थ प्रतीक्षते ततो ये लघुतरसार्थवासिनः साधवस्ते नावग्रहस्य प्रभवः । यो वा सार्थो भयेन त्वरितं बृहत्तरसार्थमिलनायाधावति तत्रापिये साधवस्ते एवमेव' अस्वामिनः, बृहत्तरसार्थवासिन एवावग्रहस्य स्वामिन इति भावः॥ [भा.४८७४] अडवीमज्झम्मि नदी, दुग्गंवा एत्थ दो वि वसिऊणं।
वोलेहामो पभाए, निस्सा साधारणं कुणइ ।। वृ-द्वौ सार्थावकत्र मिलितौ परस्परमित्थं निश्रां कुरुतः, यथा-यदिदमटवीमध्ये नदी दुर्गवा विद्यते अत्र द्वयेऽपि जना रात्रावुषित्वा प्रभाते 'वोलयिष्यामः' पुरतो गमिष्यामः इति परस्परसाधारणां निश्रां यत्र कुरुतस्तत्र सचित्तादिकं सर्वमपि साधारणम् ॥
गतं सार्थद्वारम् । अथ सेनाद्वारमाह[भा.४८७५] सेनाए जत्थ राया, अणोग्गहो जत्थ वा पविट्ठो सो।
सेसम्मि उग्गहो जो, गमो उ वइगाए सो इहई ।। वृ-'यत्र' यस्यां सेनायां राजा भवतितत्रावग्रहो न भवति । 'यत्र वा' ग्रामादौ क्षेत्रे 'सः' राजा प्रविष्टस्तत्र यद्यप्यन्ये साधवः पूर्वस्थिताः सन्ति तथापि यावन्तं कालं सतत्रास्ते तावन्नावग्रहः । शेषं नाम-यत्र ग्रामादौ राजा न प्रविष्टो या वा मुण्डसेना अराजका इत्यर्थ तत्रावग्रहो भवति परं तत्र यो व्रजिकायां गम उक्तः स इहापि मन्तव्यः ।। गतं सेनाद्वारम् । अथ संवर्तद्वारमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org