________________
उद्देशक : ३, मूलं- ११०, [ भा. ४८५४ ]
अथ किमर्थमेतेष्ववग्रहो न भवति ? इत्युच्यते
[ भा. ४८५५ ] बहुजनसमागमो तेसु होत्ति बहुगच्छसन्निवातो य । वा पुव्वं तु तदट्ठा, पेल्लेज अकोचिया खेत्तं ।।
९९
वृ- 'तेषु' इन्द्रकीलकादिषु बहोः प्रभूतस्य जनस्य समागतो भवति, अध्वशीर्षकादिषु च बहूनां गच्छानां सन्निपातः - मीलको भवति, अतः केचिदकोविदाः 'तदर्थं' 'क्षेत्रमिदमस्माकमेवाभाव्यं भवतु' इति कृत्वा 'पूर्वम्' अन्येभ्यः प्रथमं समागत्य मा क्षेत्रं प्रेरयेयुः इत्येतेषु नावग्रहोऽधिक्रियते ।। इदमेव भावयति
[भा.४८५६] सड्डा दलंता उवहिं निसिद्धा, सिडे रहस्सम्मि करेज्ज मन्नुं ।
पभावयंते य न मच्छरेणं, तित्यं सलद्धी दुहतो वि हानी ॥
वृ-तत्रेन्द्रकीलादौ श्राद्धाः केषाञ्चिदाचार्याणां 'उपधिम्' वस्त्राद्युपकरणं दातुं लग्नाः, तैश्च 'नवर्ततेऽस्माकमिदं ग्रहीतुम्' इति भणित्वा ते निषिद्धाः; ततः श्राद्धाः पृच्छेयुः एषमीयान्यप्यमूनि वस्त्राणि किमिति न कल्पन्ते ? ; ततो रहस्यम्- 'नास्माकममूनि आभवन्ति' इतिलक्षणं तेषां पुरतः कथयितव्यम्, तत्र च 'शिष्टे' कथिते सति ते श्राद्धाः 'मन्युम्' अप्रीतिकं कुर्वीरन् । ये च 'सलब्धयः' धर्मकथादिलब्धिसम्पन्नास्ते मत्सरेण 'वयं किमपि तावद् न लप्स्यामहे अतः किमर्थमेवमेव प्रयासं कुर्मः ?' इत्यनुशयेन तीर्थं धर्मकथादिना न प्रभावयन्ति । ततः “दुहतो वि हाणि "त्ति द्वयोरपि-सचित्ता-ऽचित्तलाभयोः परिहाणिर्भवति । तत्र सचित्तहानि कोऽपि देशविरतिं सर्वविरतिं वा न प्रतिपद्यते, अचित्तहानिराहार-वस्त्रादि तथाविधं न प्राप्यते । अत एतेषु नावग्रहो भवति । वसतिं प्रतीत्य पुनरेतेष्वपि भवति ।। कथम् ? इत्याह
[भा. ४८५७]
गालयट्ठियाणं, तु मग्गणा दूरे मग्गणा नत्थि । आसन्ने तु ठियाणं, तत्थ इमा मग्गणा होइ ॥
वृ- 'एकालये' एकस्यां वसतौ स्थितानामवग्रहस्य मार्गणा भवति । तत्र यः पूर्वं तस्यां वसतौ स्थितः तस्य सचित्तमचित्तं वा आभवति । अथ समकं द्वौ बहवो वा स्थितास्तदा साधारणा सा वसतिः । ये तु तस्या वसतेदूरे स्थिताः तेषासवग्रहस्य मार्गणा नास्ति । ये पुनरात्तने स्थितास्तेषामियमवग्रहस्य मार्गणा भवति ॥
[ भा. ४८५८ ] तज्झाय काल काइय, निल्लेवण अच्छणे असति जंतो । वसहिगमो पेल्लंते, वसही पुन जा समापुन्ना ॥
बृ- 'अन्तः' प्रतिश्रयस्याभ्यन्तरे यदि स्वाध्यभूमेः कायिकाभूमेः पात्रविर्लेपनभूमेः आसनम्ध्यानादिनिमित्तमुपवेशनं तद्भूमेश्चाभावस्ततो या बहि स्वाध्यायभूमिप्रभृतयस्ताः समकमनुज्ञापिताः साधारणाः । अथैके पूर्वं स्थिता अपरे च पश्चात् ततः पूर्वस्थितानामवग्रहः, पश्चादागतास्तु पूर्वस्थिताननुज्ञापयन्ति । यदि ते पूर्यमाणेऽवकाशे नानुजानन्ति इतरे वा तमपूर्यमाणं प्रेरयन्ति ततो वसतिविषयोऽपि स एव प्रायश्चित्तादिर्गमो भवति यः पूर्वं क्षेत्रं प्रेरयताम् उपलक्षणत्वाद् अननुज्ञापयतां चोक्तः । वसति पुनरिह या 'समापूर्णा' श्रमणैराकुला तस्याः प्रेरणे दोषा मन्तव्याः ।। उक्तमचल क्षेत्रम् । अथ चलमाह
[भा. ४८५९ ]
वइगा सत्थो सेना, संवट्टो चउविहं चलं खेत्तं !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org