SearchBrowseAboutContactDonate
Page Preview
Page 1148
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ३, मूलं-११०, [भा. ४८४६] वृ-द्वित्रिप्रभृतिषु सम्बद्धेषु क्षेत्रेषु समकमनुज्ञाप्य स्थितानां काश्चिदन्तरपल्लिकाः क्षेत्रान्तः' क्षेत्रस्याभ्यन्तरे भवति, “दूरे"त्ति काश्चित्तुदूरेयाभ्यः समुदानं मूलग्राममानीयमानं क्षेत्रातिक्रान्तं भवतीति कृत्वा प्रथमालिकायां तद् निर्वाह्यते, “आसन्ने"त्ति काश्चित् पुनरासन्ने याभ्यः समुदानं मूलग्राममानीयमानं क्षेत्रातिकान्तंन भवति।ततो यावन्त्यस्ता अन्तरपल्लिकास्तासां सर्वासामप्यर्द्ध वा, अर्धार्द्ध वा चतुर्थभाग इत्यर्थः, वाशब्दात् त्रिभागादिकंवा द्विकादीनां-द्वित्रिप्रभृतीनां गच्छानां साधारणं भवति ।। अथात्रैवाभाव्या-ऽनाभाव्यविधिमाह[भा.४८४७] तण-डगल-छार-मल्लग-संथारग-भत्त-पानमादीणं । सति लंभे अस्सामी, खेत्तिय ते मोत्तऽणुनवणा ।। कृतृण-डगल-क्षार-मल्लक-संस्तारक-भक्त-पानादीनां सति' विद्यमानेप्राचुर्येण लाभे क्षेत्रिका अस्वामिनः, अक्षेत्रिकाणामप्येतान्याभवन्तीत्यर्थ। "तेमोत्तऽणुनवण"त्तियेषांतृणादीनां क्षेत्रिकैरनुज्ञापना कृता तानि मुक्त्वा, तान्यक्षेत्रिकाणां नाभवन्तीति भावः ।। किं पुनः क्षेत्रिकाणामाभवति? इत्युच्यते[भा.४८४८] ओहो उवग्गहो विय, सच्चित्तं वा वि खेत्तियस्सेते। मोतूण पाडिहारिं, असंथरते वऽणुनवणा॥ कृ-ओघोपधिरुपग्रहोपधिश्च सचित्तं वा' शैक्षादिकम्, एतानि क्षेत्रिकस्याभवन्ति। यद्यक्षेत्रिका तेषामेकतरं गृह्णन्ति तदा प्रायश्चित्तम्, परं मुक्त्वा प्रातिहारिकं द्विविधमप्युपधिम्, तं गृहस्थेभ्यो मार्गयन्तो न प्रायश्चित्तभाज इति हृदयम् । यः पुनरप्रातिहारिकस्तं न लभन्ते । अथ शीतादिना परिताप्यन्तेतत एवमसंस्तरद्भिर्वस्त्रादेरनुज्ञापना कर्तव्या। क्षेत्रिकैरपि संस्तरणेतेषामनुज्ञातव्यम्॥ [मा.४८४९] जइ पुन संथरमाणा, न दिति इतरे व तेसि गिण्हंति । तिविधं आदेसो वा, तेन विना जा य परिहानी॥ वृ-यदि पुनः संस्तरन्तः क्षेत्रिका असंस्तरतामत्रक्षेत्रिकाणां वस्त्रदिकं न प्रयच्छन्ति, 'इतरे वा' अक्षेत्रिकाः संस्तरन्तोऽपि 'तेषां' क्षेत्रिकाणामनापृच्छया बलामोटिकया वा गृह्णन्ति ततः 'त्रिविधं जघन्य-मध्यमोत्कृष्टनिष्पन्न पञ्चक-मासलघु-चतुर्लधुलक्षणं प्रायश्चित्तम्, सूत्रस्यादेशाद्वा नवमम् । तेन च' वस्त्रदिना विना या परिहानि तनिष्पन्नमपि तेषां प्रायश्चित्तम् ।। इदमेव व्यक्तीकरोति[भा.४८५०]जे खेत्तिया मोत्ति न देंति ठागं, लंभे विजाऽऽगंतुवयंते हानी । पेल्लंति वाऽऽगंतु असंथरम्मि, चिरं व दोण्हं पि विराधना उ ।। वृ-ये क्षेत्रिका वयम्' इति कृत्वा भक्त-पानादेःप्राचुर्येण लाभेऽपिअन्येषां "ठागं' अवकाशं न प्रयच्छन्ति तत आगन्तुकानां व्रजतां या परिहाणिस्तन्निष्पन्नं तेषां प्रायश्चितम् । अथ क्षेत्रिकाणामसंस्तरणेऽप्यागन्तुकाः 'प्रेरयन्ति' प्रेर्य तिष्ठन्तितेचागन्तुका अदेशिकाः प्राघुणकाश्च ततः 'चिरं वा' प्रभूतं कालं वाशब्दाद् अल्पं वा कालमसंस्तरणं तेषां भवेत् ततः 'द्वयेषामपि' आगन्तुकानां वास्तव्यानां च या विराधना तन्निष्पन्न प्रायश्चित्तम् ॥यत एवमतः [भा.४८५१] अस्थि हु वसभग्गामा, कुदेसणगरोवमा सुहविहारा । 2017 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy