________________
बृहत्कल्प-छेदसूत्रम् -३-३/११० स्थितानां षट्सु दिक्षु क्षेत्रं भवति।आदिशब्दाद अन्योऽपि यईशः पर्वतस्तस्य परिग्रहः । शेषेषु पर्वतेषु चतसृषु पव्वसु वा दिक्षु सकोशं योजनं क्षेत्रं भवति।।
समभूमिकायां व्याघाताभावे दिक्चतुष्टये क्षेत्रम्, व्याघातं प्रतीत्य पुनरित्थम्[भा.४८४२] एगंवदो व तिनि व, दिसा अकोसं तु सब्बतो वा वि। .
सव्वतो तु अकोसे, अगुजाणाओ जा खेत्तं ॥ - एकदिग्भाविना पर्वतादिव्याघातेन किञ्चिद् ग्रामादिकमेकस्यां दिशि अक्रोशं भवति, सकोशयोजनावग्रहरहितमित्यर्थः । एवं दिग्द्वयभाविका व्याघातेन द्वयोर्दिशोस्क्रोशम्, त्रिदिग्भाविना तिसृषु दिक्षु, दिक्चतुष्टयभाविना तु सर्वतोऽप्यक्रोशं भवति । तत्र च सर्वतोऽक्रोशे ग्रामादौ अग्रोद्यानं यावत् क्षेत्रम्, ततः परमक्षेत्रमिति ।। किञ्च[भा.४८४३] संजम-आयविराधन, जत्थ भवे देह-उवहितेना वा।
तं खलुन होइ खेत्तं, उग्धेयव्वं च किं तत्थ ॥ वृ-यत्र ग्रामादौ प्राप्तानां संयमा-ऽऽत्मविराधना भवति, यत्र च देहोपधिस्तेषा भवन्ति तत् खलु क्षेत्र न भवति । किं वा तत्रावग्रहीतव्यं येन क्षेत्रमुच्येत? ॥अथ किं पुनः क्षेत्रम् ? इत्याह[भा.४८४४] खेत्तं चलमचलं वा, इंदमनिंदं सकोसमक्कोसं।
वाघातम्मि अकोसं, अडविजले सावए तेने॥ कृयत्रावग्रहो विचारयितुमुपक्रान्तस्तात् क्षेत्रंचलमचलं वा भवेत् । चलं व्रजिकादि, अचलं ग्रामादि।पुनरेकैकं द्विधा-'एन्द्रम्' इन्द्कीलादियुक्तम् अनिन्दंवा तद्विपरीतम्।तत्रयदचलमनिन्दं च तत् सक्रोशमक्रोशं वा । पश्चानुपूर्व्या अमूनेव भेदान् व्याचिख्यासुरिदमाह-"वाघायम्मि" इत्यादि, यत्र यस्यां दिशि व्याघातस्तत् तस्यामक्रोशं भवति । कः पुनव्यातिः ? इति चेद् अत आह-अटवी तस्यां दिशि वर्तते, “जलं"ति समुतो नदी वा तत्राऽऽस्ते, 'श्वापदा वा' सिंहव्याघ्रादयः तत्र सन्ति, 'स्तेना वा' उपधि-शरीरहरा विद्यन्ते । एतैः कारणैः सा दिग् निरुद्धा, ग्राम-गोकुलाद्यभावादवग्रहीतव्यं किमपि तत्र नास्ति॥अथ सक्रोशमाह[भा.४८४५] सेसे सकोस मंडल, मूलनिबंध अनुम्मुयंताणं। .
पुबुट्टिताण उग्गहो, सममंतरपल्लिगा दोण्हं ।। वृ-शेषं नाम-यद् अनन्तरोक्तव्याघातरहितं तत्र मूलनिबन्धमाण्डलममुञ्चतांसार्वतः सक्रोशं योजनमवग्रहो भवति। कथम्? इति चेद् उच्यक्ते-मूलग्रामादेकैकस्यां दिशियोजनार्दमर्द्धक्रोशेन सधिकं तावदवग्रहो भवति, स च पूर्वा-ऽपराभ्यां दक्षिणोत्तराभ्यां वा कृत्वा सक्रोशं योजनं भवति, यद्वा गति-प्रत्यागतिभ्यामेकस्यामपि दिशि (सक्रोश) योजनं मन्तव्यम् । तत्र सक्रोशे अक्रोशे वा येपूर्वस्थितास्तेषामवग्रहो भवति । यत्र समकमनुज्ञापितं तत् क्षेत्रं साधारणम् । अथ सम्बद्धेषु क्षेत्रेषु समकमेवानुज्ञापितं तोत यदि द्वेअन्तरपल्लिके तत एकेषामेका अपरेषामप्येका। अथैकैवान्तरपल्लिका ततो द्वयोरपि साधारणा ॥ .
अथ बह्रयस्तत्रान्तरपल्लिकास्ततः को विधिः? इत्याह[भा.४८४६] खेत्तस्संतो दूरे, आसत्रं वा ठिताण समगंतु।
अद्धं अद्धद्धं वा, दुगाइसाहारणं होइ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org