________________
उद्देशकः ३, मूलं-१०९, [भा. ४८३७] तस्य असति' अभावे यद् ‘अन्तम् प्रान्तं तद् दीयते ॥ [भा.४८३८] रुद्धे वोच्छिन्ने वा, दारढे दो वि कारणं दीवे।
इहरा चारियसंका, अकालओखंदमादीसु॥ वृ-अथ निर्गतानां द्वारं रुद्धं-स्थगितं गमागमो वा व्यवच्छिन्नस्ततः 'द्वयेऽपि' आभ्यन्तरा बाह्याश्च साधवो द्वारस्थस्याग्रे कारणं दीपयन्ति।आभ्यन्तराब्रुवते-अस्माकंसाधवो बहिर्निर्गताः बहिश्च रुद्धाः; बाह्या ब्रुवते-वयं कारणे भिक्षायां बहिर्निर्गता परं द्वाराणि निरुद्धानि । 'इतरथा' यदि न कथयन्ति ततः अकाले-रात्रौ वा विकाले वा यद्यवस्कन्दः-धाटी तदादीनि भवन्ति तदा चारिकशङ्का भवेत्-ये साधवो निर्गतास्ते भूयो न प्रविष्टाः, नूनं चारिकास्तेआगताआसीरनिति। [भा.४८३९] बाहिं तु वसिउकामं, अतिनेंती पेल्लणा अनेच्छंते।
गुरुगा पराजय जये, बितियं रुद्धे व वोच्छिन्ने ।। वृ-बहिर्निर्गतानां कोऽप्येकश्चिन्तयेत्-मुक्तोऽस्मितावत् चारकवासात्, न भूयः प्रविशामि; अत्र सूत्रमवतरति । एवं बहिर्वसन्तं प्रज्ञापयन्ति-आर्य ! सूत्रे प्रतिषिद्धम्, न वर्तते बहिर्वस्तुम्, द्वयोर्जिन-राजाज्ञयोरतिक्रमः कृतो भवति । एवं प्रज्ञाप्य नगरं प्रवेशयन्ति । अथ नेच्छति प्रवेष्टुं ततः “पेल्लण"त्ति बलामोटिकया शेषैः स प्रवेशनीयः । यदि न प्रवेशयन्ति ततश्चत्वारो गुरुकाः। कदाचिदाभ्यन्तराणांपराजयोऽपरेषांचजयो भवेत्ततः एभिर्भेदः प्रदत्तः' इति शङ्कया प्रस्तारदोषा भवेयुः। द्वितीयपदमत्रभवति-बहिर्निर्गतस्यसर्वतोऽपिनगरं निरुद्धम्, गमागमः सर्वथैव व्यवच्छिन्न इति कृत्वा तत्रापि वसन् शुद्धः।।
मू. (११०) से गामंसि वा जाव सन्निवेसंसि वा कप्पइ निग्गंथाण वा निग्गंथीण वा सव्वओ संमंता सकोसंजोयणं उग्गहं ओगिण्हित्ताण चिहित्तए।
वृ-अस्य सम्बन्धमाह- . [भा.४८४०] गामाइयाण तेसिं, उग्गहपरिमाणजाणणासुत्तं ।
कालस्सव परिमाणं, वुत्तं इहइंतु खेत्तस्स ।। वृ- 'तेषाम्' अनन्तरसूत्रोक्तानां ग्रामादीनां कियानवग्रहो भवति ? इति शङ्कायामवग्रहपरिमाणज्ञापनार्थमिदं सूत्रमारभ्यते । यद्वा पूर्वसूत्रेषु "अहालंदमवि उग्गहे" इत्यादिभणताऽव=ग्रहविषयं कालस्य परिमाणमुक्तम्, इह तु क्षेत्रस्य तदेवोच्यते ॥अनेन सम्बन्धेनायातस्यास्य व्याख्या-अथ ग्रामे वा नगरे वा यावत् सन्निवेशे वा कल्पते निर्ग्रन्थानांवा निर्ग्रन्थीनां वा ‘सर्वतः' सर्वासु दिक्षु 'समन्तात्' चतसृष्वपि विदिक्षु सक्रोशं योजनमवग्रहमवगृह्य स्थातुमिति सूत्रार्थः॥
अथ भाष्यविस्तरः[भा.४८४१] उद्दमहे तिरियं पि य, सकोसगं होइ सव्वतो खेत्तं ।
इंदपदमाइएसुं, छद्दिसि सेसेसु चउ पंच ।। वृ-ऊर्ध्वदिय् अधौदिक् “द्वितियं पिय" ति तिर्यक्-पूर्व-दक्षिणाऽपरोत्तरा लक्षणा श्चतस्रो दिशः, एतासुषट्सु दिक्षुगिरिमार्गेस्थितायां सर्वतः सकोशांयोजनं क्षेत्रं भवति, तथइन्द्रपदादिषु सम्भवति । इन्द्रपदो नाम-गजाग्रपदगिरिः, तत्र घुपरिष्टाद् ग्रामो विद्यते अधोऽपि ग्रामो मध्यमश्रेण्यामपिग्रामः । तस्याश्चमध्यमश्रेण्याश्चतसृष्वपि दिक्षुग्रामाः सन्ति, ततो मध्यमश्रेणिग्रामे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org