________________
उद्देशक : ३, मूलं-१०९, [भा. ४८१८]
पउरदव वड्डगादी, गरहा यसअंतरं एक्को ।। वृ-प्रच्छत्रस्य कटक-चिलिमिलिकयोश्चाभावे निहवेषु तिष्ठन्ति, तदभावे बोटिकेषु, तदप्राप्ती भिक्षुकेषु । एतेष्वपि पूर्वमशौचवादिषु, ततः शौचवादिषु ।शौचवादिषुच स्थिता आचमनादिषु क्रियासुप्रचुरद्रवेण कार्यं कुर्वन्ति, वडकम्-कमढकं तत्र भुञ्जते, आदिशब्दाद् अपरेणापि येन ते शौचवादिनो जुगुप्सां न कुर्वन्ति तस्य परिग्रहः । एवं प्रक्चस्य गर्हा परिहृता भवति । सान्तरं चोपविष्टा भुञ्जते । “एगो" त्ति एकः क्षुल्लकादि कमढकानां कल्पं करोति ।।
अथ “पत्तेय समण दिक्खिय" त्ति पदं व्याख्याति[भा.४८१९] पासंडीपुरिसाणं, पासंडित्थीण वा वि पत्तेगे।
पासंडित्थि-पुमाणं, व एकतो होतिमा जयणा ।। वृ-पाषण्डिपुरुषाणांपाषण्डिस्त्रीणां वा प्रत्येकं स्थितानांपाषण्डिस्त्री-पुरुषाणामेकतःस्थितानां वा इयं यतना भवति ।। भा.४८२०] जे जह असोयवादी, साधम्मी वा वि जत्थ तहि वासो ।
निहुया य जुद्धकाले, न बुग्गहो नेव सज्झाओ॥ वृ-ये यथा अशौचवादिनो ये च जीवादिपदार्थास्तिक्यवादित्वेन कारुणिकत्वेन च साधूनां साधर्मिकाः 'तेषु तेषां मध्ये साधुभिर्वासः कर्तव्यः । यदा च तत्र द्वयोरपि सैन्ययोर्युद्धकालो भवति तदा निभृताः' निव्यापारा भवन्ति । इदमेव व्याचष्टे-'न विग्रहः' स्वपक्षेण परपक्षेण वा सह कलहो न कर्त्तव्यः,नैवचतदानीस्वाध्यायोविधेयः ।।गता वसतियतना। भक्तार्थनयतनाऽपि "पउरदव वडगाई" इत्यादिना अत्रैवौक्ता । अथ स्थण्डिलयतनामाह[भा.४८२१] तंचेव पुव्वभणितं, पत्तेयं दिससमाणे कुरुया य ।
थंडिल्ल सुक्ख हरिए, पवायपासे पदेसेसु ॥ वृ-स्थण्डिलंतदेवपूर्वमणितं "अनावायमसंलोए" इत्यादिना यथा पीठिकायामुक्तंतथैवात्रापि मन्तव्यम्। प्रथमस्थण्डिलालाभेशेषेषुगच्छतां प्रत्येकंमात्रकग्रहणं भवति, सागारिकेणच दृश्यमाने कुरुकुचा कर्तव्या । एवं बहि स्थण्डिले लभ्यमाने यतना । अथ बहिर्न लभ्यते निर्गन्तुं ततो यद् नगराभ्यन्तरे स्थण्डिलमनुज्ञातंतत्र यानि तृणानि शुष्काणि तेषु व्युत्सृजति, तेषामभावेदरमलितेषु मिश्रेषु, तदप्राप्ती हरितेषु सचित्तेष्वपि व्युत्सृजति । अत्रच प्रत्येका-ऽनन्त-स्थिरा-ऽस्थिरादियतना सर्वाऽपि कर्त्तव्या यथा ओघनियुक्तौ भणिता । अथ प्रपाते गर्तायां नदीतटे प्रकारोपरि वा राज्ञाऽनुज्ञातं तत एतेषां पार्वे व्युत्सृजति । यदि सर्वथैव स्थण्डिलं न लभ्यते अधशच भूमि न पश्यति ततो धर्म-ऽधर्मादिप्रदेशेष्वपि व्युतसृजन् शुद्धः॥
अथ “पत्तेयं दिस्समाणे कुरुया य"ति पदं व्याख्याति[भा.४८२२] पढमासइ अमणुन्नेतराण गिहियाणे वा वि आलोग।
पत्तेयमत्त कुरुकुय, दवं च पउरं गिहत्थेसुं। [मा.४८२३] तेन परं पुरिसाणं, असोयवादीण वच्च आवातं ।
इत्थी-नपुंसकेसुवि, परम्मुहो कुरुकुया सेव ।। वृ-गाथाद्वयमपि पीठिकायां व्याख्यातम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org