________________
बृहत्कल्प - छेदसूत्रम् - ३-३/१०९ चैका वसति संयतानां संयतीनां संयतीनां च पृथग् भवति ॥ अथोभयेषामपि योग्या वसति प्रत्येकं नावाप्यते तत एकत्रापि वस्तव्यम्, तत्र यतनामाह
[भा. ४८१४]
एत्थ वसंताणं, पिहद्दुवाराऽसतीय सयकरणं । मज्झेण कडग चिलिमिणि, तेसुभयो थेर खुड्डीतो ॥
वृ- संयतानां संयतीनां च एकत्र बसतौ वसतामियं यतना-यदि चतुःशलादिकं पृथग्द्वारं तद् गृहं तदा तत्रान्तरे कटकं चिलिमिलीं वा दत्त्वा तिष्ठन्ति । पृथग्द्वारस्याभावे “सयकरणं" ति स्वयमेव कुड्यं छित्त्वा द्वितीयं द्वारं कर्त्तव्यम् । गृहमध्ये च कुड्याभावे कटश्चिलिमिलिका वा दातव्या । ' तयोश्च' कटस्य चिलिमिलिकाया वा आसन्नयोरुभयोः पार्श्वयोर्मध्यादेकस्मिन् स्थविरा: साधवो द्वितीये च क्षुल्लिकाः संयत्यो भवन्ति । एतच्चाग्रे व्यक्तीकरिष्यते ॥ अथ "तं चेव एगदारे" त्ति पदं व्याख्याति
[ भा. ४८१५ ] दारदुयस्स तु असती, मज्झे दारस्स कडग पुत्ती वा । निक्खम पवेसवेला, ससद्द पिंडेण सज्झातो ॥
वृ-यदि द्वारद्वयं न भवति स्वयं च पृथग् द्वारं कर्तुं न लभ्यते ततस्तस्यैकद्वारस्य मध्ये कटकं 'पोतिकां वा' चिलिमिलीं दत्त्वा द्विधा विभजनं विधेयम् । तत्रार्द्धेन साधवो निर्गच्छन्ति अर्द्धन संयत्य इति । अथ सङ्कीर्णा सा वसतिर्न वा विभक्तुं लभ्यते ततः परस्परं निर्गमप्रवेशवेलां वर्जयन्ति, यस्यां वेलायां संयता निर्गच्छन्ति तस्या न संयत्य इति । निर्गच्छन्तश्च शब्दं कुर्वन्ति, पिण्डेन च स्वाध्यायं कुर्वन्ति, शृङ्गारकथां न कुर्वन्ति, न वा पठन्ति ॥
अथ "स्वपनं च यतनया" इति पदं व्याचष्टे
[भा. ४८१६] अंतम्मि व मज्झम्मि व, तरुणी तरुणा य सव्वबाहिरतो । मझे मज्झिम थेरी, खुड्डी खुड्डा य थेरा य ।।
वृ यास्तरुण्यस्ता अन्ते वा मध्ये वा भवन्ति, तरुणास्तु सर्वबाह्यतः कर्त्तव्याः, ततो मध्ये मध्यमाः स्थविरा: क्षुल्लिकाश्च साध्व्यः, ततः क्षुल्लकाः स्थविरा: चशब्दाद् मध्यमास्तरुणाश्च भवन्तीत्यक्षरार्थः । भावार्थस्तु वृद्धविवरणादवगन्तव्यः । तच्चेदम्-तरुणीओ अंते वा ठविनंति मझे वा । तत्थ अंते ताव भन्नइ एगम्मि अंते तरुणीओ ठविज्रंति, तासिं आरतो मज्झिमातो, तासि आरतो थेरीओ, तासिं आरतो खुड्डीतो, खुड्डीणं आरतो थेरा, थेराणं आरतो खुड्डा, तेसिं बाहिं मज्झिमा, तेसिं परिखेवेण तरुणा, एसा रत्तिं वसंताणं जयण त्ति ।। अथ मात्रकपदं व्याख्याति[भा. ४८१७] पत्तेय समण दिक्खिय, पुरिसा इत्थी य सव्वे एकत्था । पच्छन्न कडग चिलिमिणि, मज्झे वसभा य मत्तेणं ॥
वृ- यत्रोपाश्रयाणामल्पतया राजकीय आदेशो भवेत् - ये केचित् पाखण्डिनस्ते सर्वेऽप्येकत्रावतिष्ठन्तामिति । तत्र यदि 'प्रत्येकाः ' स्त्रवर्जिताः 'श्रमणाः' निर्ग्रन्थ-शाक्यादयो दीक्षित पुरुषाः सर्वेऽप्येकस्यां वसतौ स्थिताः याश्च पाखण्डिन्यः स्त्रयस्ता अपि सर्वा एकत्र स्थितास्तत इयं यतना-यः प्रच्छन्नः प्रदेशस्तत्र साधुभिः साध्वीभिश्च स्थातव्यम्, प्रच्छन्नस्याभावे मध्ये कटकं चिलिमिलिकां वा वृषभाः कुर्वन्ति, कायिकाभूमेरभावे दिवा रात्रौ च मात्रकेण वृषभा यतन्ते ॥ [भा. ४८१८] पच्छन्न असति निण्हग, बोडिय भिच्छय असोय सोया य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org