SearchBrowseAboutContactDonate
Page Preview
Page 1140
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ३, मूलं-१०९, [भा. ४८०९] थंभणि-मोहनिकरणं, कडजोगे वा भवे करणं ॥ वृ-अचेलतालक्षणं जिनलिङ्गमप्रतिहतम्, एवंस्थितानां न कोऽप्युपद्रवं करोतीति भावः । अथवा ते स्तेना अपावृतान् दृष्टवा स्वयमेव एवंस्थितानां न कोऽप्युपद्रवं करोतीति वा तेषां स्तम्भन-मोहने कुर्वन्ति । यो वा 'कृतयोगः' सहसयोधी तेन ताशे आकम्पे गच्छसंरक्षणार्थं 'करणं' शिक्षणं तेषां विधेयम् ॥गतं संवर्तद्वारम् । अथ नगररोधकद्वारमाह[भा.४८१०] संवट्टनिग्गयाणं, नियट्टणा अट्ठरोह जयणाए। वसही-भत्तट्ठणया, थंडिल्लविगिंचणा भिक्खे ।। वृ- ये मासकल्पप्रायोग्यात् क्षेत्रानिर्गत्य संवर्ते स्थितास्ते संवर्तनिर्गता उच्यन्ते, तेषां तत्र स्थितानामवस्कन्दादिभयेन भूयोऽपि संवाद नगरं प्रति निवर्तना भवति । यद्वा ग्लानादिभिः कारणैः प्रथममेव नगरान्न निर्गतास्ततो नगरे वसतामष्टौ मासान् रोधके यतनया वस्तव्यं भवति। सा च यतना वसति-भक्तार्थन-स्थण्डिलविवेचन-भैक्षविषया कर्त्तव्या ।। तत्र वसतियतनां तावदाह[भा.४८११] हानी जावेट्ठा, दो दारा कडग चिलिमिणी वसभा। तंचेव एगदारे, मत्तग सुवणंच जयणाए ।। वृ-रोधके तिष्ठद्भिरौ वसतयः प्रत्युपेक्षणीयाः, तासुप्रत्येकमृतुबद्धे मासं मासमासितव्यम्। अष्टानामलाभे सप्त, एवं हान्या तावद् वक्तव्यं यावत् संयतानां संयतीनांच “एगट्ठ"ति एकैव वसतिर्भवति । तत्रैकस्यां वसतौ स्थितानां द्वे द्वारे भवतः, अपान्तराले कटकं चिलिमिलिकां वा वृषभाः कुर्वन्ति।अथद्वारद्वयंन भवति ततएकद्वारेऽपि तमेव विधिं कुर्वन्ति। कायिकाभूमेश्चाभावे मात्रकेण यतन्ते, यतनया च स्वपनं कुर्वन्तीति नियुक्तिगाथासमासार्थः ।। अथ भाष्यकार एनामेव विवृणोति[भा.४८१२] रोहेउ अट्ठ मासे, वासासु सभूमि तो निवा जंति । परबलरुद्धे वि पुरे, हार्विति न मासकप्पं तु॥ वृ. अष्टौ ऋतुबद्धिकान् मासान् ‘रोधयित्वा' रोधं कृत्वा तोत वर्षासु नृपाः 'खभूमिम्' आत्मीयराज्यभुवं गच्छन्ति । साधवश्च रोधके वसन्तः परबलरुद्धेऽपिपुरेमासकल्पंन हापयन्ति किन्तु तत्र प्रथमत एवाष्टौ वसतयोऽष्टौ भिक्षाचर्या प्रत्युपेक्षणीयाः ॥अथाष्टौ न प्राप्यन्ते ततः[भा.४८१३] भिक्खस्स व वसहीय, व असती सत्तेव चउरो आवेक्का । लंभालंभे एकेक गस्स नेगा उ संजोगा। वृ- भैक्षस्य वा वसतेर्वा असति सप्त प्रत्युपेक्षणीयाः । तदप्राप्तौ षडादिपरिहाण्या चतम्रो यावदेकाऽपि प्रत्युपेक्षणीया । किमुक्तं भवति?-वसतयो भिक्षाचर्याश्च यद्यष्टौ न प्राप्यन्ते तत एकैकपरिहाण्या यावदेका वसतिरेका भिक्षाचर्या । अत्र चैकैकस्या लाभेऽलाभे चानेके संयोगा भवन्ति । तथाहि-अष्टौ वसतयो अष्टौ भिक्षाचर्या १, अष्टौ वसतयः सप्त भिक्षाचर्या २, अष्टौ वसतयः षड् भिक्षाचर्या ३, एवं यावदष्टौ वसतय एका भिक्षाचर्या, एवमष्टौ भङ्गा भवन्ति, एतेच वसतेरष्टकममुञ्चता लब्धाः, सप्तकादिभिरप्येककपर्यन्तैरेवमेवाष्टावष्टौ भङ्गा लभ्यन्ते, सर्वसङ्घयया भङ्गकानां चतुःषष्टिरुत्तिष्ठते । चतुःषष्टितमश्च मङ्गक एका वसतिरेका भिक्षाचर्येतिलक्षणः । सा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy