________________
बृहत्कल्प-छेदसूत्रम् -३-३/१०९
असतीय व सभयम्भिव, धरंति अद्धेयरे भुंजे ।। वृ-संवर्तस्यान्तः प्रच्छन्ने प्रदेश भक्तार्थनं कर्त्तव्यम् । अथान्तः प्रच्छन्नं नास्ति ततः संवर्तस्य बहिर्गत्वा समुद्देष्टव्यम् । अथ बहि सभयं ततः ‘अन्तः' संवर्तस्याभ्यन्तर एव चिलिमिलिकां दत्त्वा भोक्तव्यम् । अथ नास्ति चिलिमलिका समये वा सा न प्रकटीक्रियते ततो अर्द्ध साधवो भाजनानि धारयन्ति, 'इतरे' द्वितीया अर्द्ध कमठकेषु भुञ्जते ।। [भा.४८०५] काले अपहुचंते, भए व सत्थे व गंतुकामम्मि।
कप्पुवरि भायणाई, काउं इक्को उपरिवेसे॥ वृ-अथ वारकेण भुनानानां कालो न पूर्यते, भये वा त्वरितं भोक्तव्यम्, यो वा संवर्ते सार्थः स गन्तुकामस्ततः कल्पस्योपरि भाजनानि 'कृत्वा' स्थापयित्वा सर्वेऽपि कमठकादिषु भुञ्जते एकश्च तेषां सर्वेवामपि परिवेषयेत् ।। {भा.४८०६] पत्तेग वड्डगासति, सज्झिलगादेक्कओ गुरू वीसुं।
ओमेन कप्पकरणं, अन्नो गुरुनेकतो वा वि ॥ वृ-प्रत्येकं यदि सर्वेषां वडुकानि' कमठकानिन सन्तिततोये सज्झिल्लकाः परस्परं सहोदरा भ्रातरः, आदिशब्दाद्अन्येऽपियेप्रीतिवशेनैकत्र मिलन्तितेएकतः समुद्दिशन्ति, गुरवः विष्वक् पृथग् भुञ्जते । यदा सर्वेऽपि भुक्तास्तदा यस्तत्र 'अयमः' लघुस्तेन कमठकानां कल्पकरणं विधेयम्, गुरूणां सत्कं कमढकतैः सहन मील्यते।अन्यस्तस्य कल्पं प्रयच्छति । अपूर्यमाणेषुच साधूनां गुरोश्च कमढकान्येकतोऽपि कल्पयन्ति ॥ [भा.४८०७] भाणस्स कप्पकरणं, दडिल्लग मुत्ति कडुयरुक्खे य।
तेसऽसति कमढ कप्पर, काउमजीवे पदेसे य॥ वृ-भाजनस्य कल्पकरणं दग्धभूमिकायां गोमूत्रभाविते वा भूभागे कटुकवृक्षस्याधस्ताद्वा कर्तव्यम् । तेषां' दग्धादिस्थण्डिलानामभावे कमढकेषुघटादिकपरवा भाजनस्य कल्पं कृत्वा तत् कल्पपानकमन्यत्र नीत्वा स्थण्डिले परिष्ठापयन्ति, गतेवासंवर्तेपश्चात् परिमलितजीवप्रदेशेषु परिष्ठाप्यम् । समये वा त्वरमाणाः स्थण्डिलस्य वा अभावे 'धर्मा-ऽधर्मास्तिकायसम्बन्धिषु अजीवप्रदेशेषु परिष्ठापयामः' इति बुद्धिं विधाय अस्थण्डिले परिष्ठापयन्ति ॥ गतं भक्तार्थनद्वारम् । वसतिद्वारमाह[भा.४८०८] गोणादीवाघाते, अलब्ममाणे व बाहि वसमाणा।
वातदिसि सावयमए, अवाउडा तेन जग्गणता॥ वृ-संवर्तस्यान्तो निराबाधे परिमलिते प्रदेशे वसन्ति । अथ तत्र गवादिभिरितस्ततस्तडफडायमानैव्या_तो यद्वा तत्र प्राशुकप्रदेशो न लभ्यते ततो बहिर्वसन्तो यतो घाटिभयंतं भूभागं वर्जयित्वा वसन्ति । अथ तत्र श्वापदभयं ततो यस्यां दिशि वातस्तां वर्जयन्ति । येन च परचक्रमयेन तत्रसंवर्तेप्रविष्टास्तस्मिन्प्राप्तेसर्वमुपकरणंगुपिलेप्रदेशे स्थापयित्वा स्वयमेकतोऽन्यत्र प्रदेशेऽपावृताः कायोत्सर्गेण तिष्ठन्ति स्तरक्षणार्थंच वारकेण रजनीं सकलामपि जाग्रते ॥अथ कस्मादपावृतास्तिष्ठन्ति? इत्याह
[भा.४८०९] जिनलिंगमप्पडिहयं, अवाउडे वा वि दिस्स वनंति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org