SearchBrowseAboutContactDonate
Page Preview
Page 1138
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ३, मूलं १०९, [भा. ४७९८ ] अथानागतं न ज्ञातम् सहसैव तन्नगरं रुद्धं पन्थानो व्यवच्छिन्नास्ततो न निर्गच्छेयुरपि । अथवा अमीभि कारणैर्ज्ञातेऽपि न निर्गता भवेयुः [भा. ४७९९ ] · गेलन रोगि असिवे, राहुट्टे तहेव ओमम्मि । उवही - सरीरतेनग, नाते वि न होति निग्गमनं ॥ वृ- 'ग्लानः' ज्यरादिपीडितः कश्चिदस्ति तत्प्रतिबन्धेन गन्तुं न शक्यते, "रोगि "त्ति दुष्टरोगेण कुष्ठादिना कश्चिदत्यन्तमभिभूतः स परित्युक्तं न पार्यते, बहिर्वा अशिवं राजद्विष्टमवमौदर्यं च विद्यते, उपधिस्तेनाः शरीरस्तेना वा बहिर्गच्छत उपद्रवन्ति, एतैः कारणैर्ज्ञातिऽपि परचक्रागमने निर्गमनं न भवति ॥ [ भा. ४८०० ] एएहिय अनेहि य, न निग्गया कारणेहि बहुएहिं । अच्छंति होइ जयणा, संवट्टे नगररोधे य ॥ वृ- एतैरन्यैश्च बहुभिः कारणैर्न निर्गता भवेयुः ततस्तत्रैव सन्तिष्ठतां संवर्त्ते नगररोधके च यतना वक्तव्या । संवर्त्तो नाम- परचक्रागमनं श्रुत्वा यत् पर्वत- जल-दुर्गादिषु बहूनां ग्रामाणां जनः संवर्त्तीभूयैकत्र तिष्ठति । नगररोधकः प्रतीतः । तत्र संवर्ते यतनामाह [ भा. ४८०१] संवट्टम्मि तु जयणा, भिक्खे भत्तट्टणाए वसहीए । तम्मि भये संपत्ते, अवाउडा एक्कओ ठंति ।। ८७ वृ- संवर्त्ते तिष्ठतां 'भैक्षे' भक्तार्थनायां वसतौ च यतना कर्त्तव्या । 'तस्मिंश्च' परचक्रलक्षणे भये सम्प्राप्तेऽपावृता एकतस्तिष्ठन्तीति नियुक्तिगाथासमासार्थ ।। साम्प्रतमेनामेव विवृणोति[भा. ४८०२] वईयासु व पल्लीसु व, भिक्खं काउं वसंति संबट्टे । सव्वम्मि रजखोभे, तत्थेव य जाणि थंडिल्ले ॥ वृ- संवर्तेऽभिनवसन्निविष्टतया सचित्तः पृथिवीकायो भवतीति कृत्वा भइक्षां न हिण्डन्ते किन्तु पूर्वस्थितासु व्रजिकासु वा पल्लीषु वा भिक्षां कृत्वा तत्रैव स्थण्डिले भुक्त्वा रात्रौ संवर्ते समागत्य वसन्ति । अथ सर्वस्यापि राज्यस्य क्षोभः ततो व्रजिकादिकमपि नास्ति तदा 'तत्रैव' संवर्त्ते यानि कुलानि स्थण्डिले स्थितानि तेषु भिक्षां हिण्डन्ते ॥ अथ न सन्ति स्थण्डिले स्थितानि तत इयं यतना [ भा. ४८०३ ] पूवलिय-सत्तु-ओदनगहणं पडलोवरिं पगासमुहे । सुक्खादीण अलंभे, अजविंता वा वि लक्खेति । वृ-जगारि-तक्र-तीमनादौ आर्द्रे प्रपतति पृथिवीकायविराधना भवेदिति मत्वा याः पूपलिका ये च सक्तवो यश्च शुष्कौदन एवमादिकं शुष्कद्रव्यं पटलोपरिस्थिते प्रकाशमुखे भाजने गृह्णन्ति । अथ शुष्कादीना लाभो न भवति आदिशब्दः स्वगतानेकमेदसूचकः, न वा तैरात्मानं यापयन्ति तत आर्द्रेण गृह्यमाणेन यत्र पटलकादी खरण्टको लग्नस्तं सम्यग् लक्षयन्ति ॥ गतं भिक्षाद्वारम् । अथ भक्तार्थनाद्वारमाह [भा.४८०४] पच्छन्नासति बहिया, अह सभयं तेन चिलिमिणी अंतो । असतीय व सभयम्मि व, धरंति अद्धेयरे भुंजे ॥ [भा. ४८०४] पच्छन्नासति बहिया, अह सभयं तेन चिलिमिणी अंतो । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy