________________
बृहत्कल्प-छेदसूत्रम् -३-३/१०९
एषा उच्चारयतना भणिता। अथ शरीरविवेचनयतनामाह[भा.४८२४] पच्छन्न पुव्वभणियं, विदिन्न थंडिल्ल सुक्ख हरिए य ।
अगड वरंडग दीहिय, जलणे पासे पदेसेसु ॥ वृ-यद्यसौ कालगतः साधुस्तत्र केनापि न ज्ञातस्ततोऽन्तर्मुहूर्तप्रमाणे उपयोगकालेऽतीतेऽन्यलिङ्गंकृत्वा 'प्रच्छन्नम्' अल्पसागारिकंस्थण्डिलेपरिठाप्यते।अथ ज्ञातस्तदा "पुव्वभणिय"त्ति यदि नगराद् निर्गमो न लभ्यते प्रत्यपायो वा निर्गतानां भवति ततो नगराभ्यन्तरे पूर्वम्-इहैव मासकल्पप्रकृते पारिष्ठापनिकानिर्युक्तौ वा यो भणितो विधिस्तेनोपाश्रयादपरदक्षिणस्यां दिशि परिष्ठापयन्ति ।अथ तस्यां नलभ्येततो राज्ञा 'वितीर्णम्' अनुज्ञातंयत्स्थण्डिलंतत्र परिष्ठापयन्ति! अथस्थण्डिले हरितानि भवन्तिततः शुष्कतृणेषु, तदभावेमिश्रेषु, तदप्राप्ती हरितेष्वपिपरिष्ठापयन्ति। अथ राज्ञाऽभिहितम्-सर्वैरपि पाखण्डिभि 'अगडे' गर्तायां शबंपरित्यक्तव्यम्, प्राकारवरण्डके वा दीर्धिकायां वा नद्यां वा वहन्त्यां ज्वलने वा ज्वलति प्रक्षेप्तव्यं तत एतेषां पार्वे परिठापयन्ति। अथ न लभ्यते पार्श्वतः परित्यक्तुंततः 'धर्मास्तकायादिप्रदेशेषु परिठापयामि' इति बुद्धिं कृत्वा तत्रैव प्रक्षिपन्ति॥
अथ राज्ञा वितीर्णे स्थण्डिले परिष्ठापयतां विधिमाह[भा.४८२५] अन्नाए परलिंगं, उवओगद्धं तुलेत्तु मा मिच्छं।
नाते उड्डाहो वा, अयसो पत्यारदोसोवा॥ कृ-यद्यसौतत्राज्ञातस्तदा परलिङ्गं क्रियते, तच्च उपयोगाद्धाम्' अन्तर्मुहूर्तलक्षणां 'तोलयित्वा' प्रतीक्ष्य कर्तव्यम्, मा मिथ्यात्वं गमिष्यतीति कृत्वा । यो जनज्ञातस्तत्र परलिङ्गं न क्रियते, मा उड्डाहो भवेत् । उड्डाहो नाम-एते मायावन्तः पापाचाराः परोपघातकारिणश्चेति । इत्थं तेषामुड्डाहे जायमाने प्रवचनस्याप्ययशः प्रवादोभवति प्रस्तारदोषश्च कुल-गण-सविनाशलक्षणउपजायते। एतद्दोषपरिहरणार्थं स्वलिङ्गेनैव परिष्ठाप्यते॥अथ भिक्षाद्वारमाह[भा.४८२६] न वि को वि कंचि पुच्छति, नितमनितंव अंतो बाहिं वा ।
आसंकिते पडिसेहो, निक्कारण कारणे जतणा।। वृ-यत्र रोधके 'अन्तः' नगराभ्यन्तरा बहिर्निर्गच्छन्तंबहि-कटकाद्वा नगरान्तः प्रविशन्तं न कोऽपि कञ्चित् पृच्छति तत्र स्वेच्छया बहिरन्तर्वा भिक्षामटन्ति । यत्र पुनराशङ्कितं-क एषः? कुतो वा आगतः ? मैष बहिर्गतः सन् किमपि कथयिष्यति किमर्थं वा निर्गच्छति ? ईशे आशङ्किते निष्कारणे प्रतिषेधः' न गन्तव्यम् । कारणेतुयतना वक्ष्यमाणा भवति ।। इदमेव भावयति[मा.७२७] पउरन्न-पानगमने, चउरोमासा हवंतऽनुग्घाया।
सोत इयरे य वत्ता, कुल गण संघे यपत्यारो॥ वृ-प्रचुरान-पानेलभ्यमाने यदि बहिर्गच्छति तदा चत्वारोमासा अनुद्धाता भवन्ति आज्ञादयश्च दोषाः । तेन साधुना 'सः' स्वकीयआत्मा इतरेच' अभ्यन्तरवर्तिनः साधवः परित्यक्ता भवन्ति। तत्र स बहि सैन्ये गतः सन् पृच्छयमानोऽपि यदा किमपि नाख्याति तदा 'चारिकोऽयम्' इति मत्वा गृह्यते, अभ्यन्तरवर्त्तिनस्तु अमीषां प्रव्रजितो निर्गतस्तेन भेदः प्रदत्तः' इति कृत्वा गृह्यन्ते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org