________________
बृहत्कल्प-छेदसूत्रम् -३-३/१०७ [भा.४७८४] देविंद-रायउग्गह, गहवति सागारिए य साहम्मी।
पंचविहम्मि परूविते, नायव्वं जे जहिं कमइ॥ वृ-देवेन्द्रावग्रहो राजावग्रहोगृहपत्यवग्रहः सागारिकावग्रहः साधर्मिकावग्रहश्चेति पञ्चधाऽवग्रहः । एतस्मिन् पञ्चविधे प्ररूपिते ज्ञातव्यं यद् 'यत्र' देवेन्द्रावग्रहादौ मनसा वचसा वा अवग्रहानुज्ञापनं 'क्रमते' अवतरतीति सङ्ग्रहगाथासमासार्थः। विस्तरार्थस्तुयथा पीठिकायां “हिडिल्ला उवरिल्लेहि बाहिया न तु लभंति पाहन्नं।" इत्यादिगाथाभिरभिहितस्तथैवात्रापि वक्तव्य इति ॥ [भा.४७८५] तं वयणं सोऊणं,.देविंदो वंदिऊण तित्थयरं ।
वितरति अप्पणगे उग्गहम्मिजं साहुपाउग्गं॥ वृ-'तद्' अवग्रहप्रतिपादकं भगवतो वचनं श्रुत्वा देवेन्द्रस्तीर्थकरं वन्दित्वा यदात्मीयेऽवग्रहे साधूनां प्रायोग्यं सचित्तमचित्तं मिश्रं वा तत् तदानीं सर्वमपि वितरति, अनुजानातीत्यर्थः ॥ [भा.४७८६] सोउं तुट्ठो भरहो, लद्धो मए एत्तिओ इमो लाभो ।
वितरति जंपाउग्गं, केवलकप्पम्मि भरहम्मि ।। वृ-भरतोऽपि भगवतो वचनं श्रुत्वा 'तुष्टः' प्रमुदितः 'अहो ! मयैतावान् लाभो लब्धः' इति परिभाव्य 'केवलकल्पे' सम्पूर्णेऽपि भरते यत् 'प्रायोग्यं' साधूनामुचितं सचित्तादिकं तत् सर्वं वितरति ।। [भा.४७८७] पंचविहम्मि परूविते, स उग्गहो जाणएण घेत्तव्यो।
अन्नाणेणोग्गहिए, पायच्छित्तं भवे तिविहं ।। धृ-पञ्चविधेयऽवग्रहे प्ररूपिते सति सम्प्रति तात्पर्यमुच्यते-स स्वल्ववग्रहो जानता ग्रहीतव्यः। अथाज्ञानेनागृह्णाति अजानन्नित्यर्थ ततस्त्रविधं प्रायश्चित्तं भवति । [भा.४७८८] इक्कड-कढिणे मासो, चाउम्भासा य पीढ-फलएसु ।
कट्ठ-कलिंचे पनगं, छारे तह मल्लगाईसु॥ वृ-तद्यथा-इक्कडमये कठिनमये चसंस्तारके लघुमासः, पीठ-फलकेषु चत्वारो मासा लघवः, काडे कलिच्चे वारे माल्लकादिषु च पञ्चकम् ॥
मू. (१०८) ते अनुकुड्डेसु वा अनुभित्तीसु वा अनुचरियासु अनुफरिहासु वा अनुपंथेसु वा अनुमेरासु वा सचेव उग्गहस्स पुव्वानुनवणा चिट्ठइ अहालंदमवि उग्महे ।। [भा.४७८९] जे चेव दोन्नि पगता, सागारिय-रायउग्गहा होति।
तेसिं इह परिमाणं, निवोग्गहम्मी विसेसेणं॥ वृ-यावेवद्वौ सागारिक-राजावग्रही पूर्वसूत्रयोः प्रकृती तयोरेवेह सूत्रे परिमाणमुच्यते । तत्रापि नृपावग्रहे परिमणं विशेषेणाभिधीयते॥अनेन सम्बन्धेनायातस्यास्यव्याख्या-"से" तस्य निर्ग्रन्थस्य 'अनुकुडयेषुवा' कुड्यसमीवर्तिषुवा प्रदेशेषु, एवमनुभित्तिषु वा अनुचरिकासुवाअनुपस्विासु वाअनुपथेषुवा अनुमर्यादासुवा ।अत्र चरिका-नगर-प्राकारयोरपान्तराले हस्ताष्टकमाणो मार्ग, परिखाखातिका, मर्यादा-सीमा, शेषप्रतीतम्। एतेषु सैवावग्रहस्य पूर्वानुज्ञापनातिष्ठति यथालन्दमपि कालमवग्रह इति सूत्रार्थ ॥अथ नियुक्तिविस्तरः
[भा.४७९०] अनुकुड्डे भित्तीसुं, चरिया-पागापंथ-परिहासु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org