________________
उद्देशक : ३, मूलं- १०८, [ भा. ४७९०]
अनुमेरा सीमाए, नायव्वं जं जहिं कमति ॥
वृ- अनुशब्दः प्रत्येकमभिसम्बध्यते, अनुकुड्या ऽनुभित्त्योरनुचरिका - प्राकारपथ-परिखासु च, "अनुमेरा सीमाए "त्ति मर्यादा सीमा, ततो अनुमर्यादायामनुसीमायामित्येकोऽर्थः । एतेषु ज्ञातव्यं यद् यत्र सागारिक- राजाद्यवग्रहानुज्ञापनं क्रमते ॥ एनां निर्युक्तिगाथां व्याख्यानयति[भा. ४७९१] अनुकुड उवकुड, कुड्डसमीवं व होइ एगहूं। एमेव सेसएस वि, तेसि पमाणं इमं होइ ॥
वृ- अनुशब्दस्य समीपार्थद्योतकस्वादनुकुड्यमुपकुड्यं कुड्यसमीपमिति वैकार्थम् । एवमेव 'शेषेष्वपि' अनुभितत्यादिषु पदेषु मन्तव्यम् । 'तेषाम्' अनुकुड्यादीनामवग्रहविषयमिदं प्रमाणं भवति ॥
[भा. ४७९२] वति-भित्ति-कडगकुडे, पंथे मेराय उग्गहो रयणी । अनुपरियाए अड्डज उ, चउरो रयणीउ परिहाए ।।
वृ-वृतौ-बबूलादिपरिक्षेपरूपायां भित्तौ इष्ठकादिनिर्मितायां कटकमये च कुड्ये मथि मर्यादायां च 'रयणि 'त्ति एकहस्तमानोऽवग्रहो भवति । अनुचरिकायामष्टौ हस्ताः । परिखायां चत्वारो रत्नयः ॥ इदमेव भावयति
८५
[भा. ४७९३] वतिसामिणो वतीतो, हत्थो सेसोग्गहो नरवतिस्स । तस्स तहिं ममकारो, जति वि य निम्माणि जा भूमी ॥
यो गृहपतिर्विवक्षिताया वृतेः स्वामी तस्य वृतेः परतो हस्तमात्रमवग्रहो भवति, शेषस्तु सर्वोऽपि नरपतेरवंग्रहो मन्तव्यः । अथ किं कारणं वृतिस्वामिनो वृतेः परतोऽप्यववग्रहो भवति ? इत्याह- 'तस्य' गृहपतेः 'तत्र' वृतेः परतो हस्तप्रमाणे भूभागे ममकारो भवति, अतो यद्यपि "निम्माणि "त्ति मूलपादानेव यावद् विवक्षितगृहसत्का भूमिस्तथापि वृतेः परतो हस्तमेकं तस्यावग्रहः । एवं भित्ति-कुड्यादिष्वपि भावनीयम् ||
[भा. ४७९४] हत्यं हत्थं मोत्तुं कुड्डादीणं तु मज्झिमो रन्नो । जत्थ न पूर हत्थो, मज्झे तिभागो तहिं रनो ।।
वृ- तेषामेव कुड्यादीनां हस्तं हस्तमुभयोरपि गृहयोर्मुक्त्वा मध्यमः सर्वोऽपि राज्ञोऽवग्रहः । यत्र तु गृहद्वयापान्तरालस्यातिस्तोकतया हस्तो न पूर्यते तत्र मध्यमस्त्रभागो राज्ञः, शेषौ द्वौ गृहस्वामिनोः एतदवग्रहपरिमाणमुक्तम् । अत्र चोच्चारादीनि स्थान -निषदनादीनि वा कुर्वन् यदि कुड्यादीनां हस्ताभ्यन्तरे करोति ततो गृहपत्यवग्रहो मनसि क्रियते, हस्ताद् बहिश्चरिकाप्राकारपरिखादिषु च राजावग्रहोऽनुज्ञाप्यते, अटव्यामपि यद्यसौ राजा प्रभवति तदा तस्यैवावग्रहः स्मर्यते, अथासौ तत्र न प्रभवति ततो देवेन्द्रावग्रहो मनसि क्रियते ॥
मू. (१०९) से गामस्स वा जाव रायहाणीए वा बहिया सेणं सन्निविट्टं पेहाए कप्पइ निग्गंथाण या निग्गंधीण वा तद्दिवसं भिक्खायरियाए गंतुं पडिएत्तए । नो से कप्पइ तं रयणि तत्थेव उवाइणावित्तए । जो खलु निग्गंथो वा निग्गंथी वा तं रयणि तत्थेव उवाइणाइ, उवातिनंतं वा साइजति, से दुहतो वि अइक्कममाणे आवज्जइ चाउम्मासियं परिहारद्वाणं अनुग्घाइयं ॥
वृ- अस्य सम्बन्धमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org