SearchBrowseAboutContactDonate
Page Preview
Page 1133
Loading...
Download File
Download File
Page Text
________________ ८२ वृहत्कल्प-छेदसूत्रम् - ३-३/१०६ तदेवं द्वावप्यर्थावपरशब्दे भवतः, एकः न परोऽपरस्तेन परिगृहीतमपरपरिगृहीतम्, द्वितीय:अपरैः साधुभिः परिगृहीतमपरपरिगृहीतमिति || अमरपरिगृहीतं तु वृक्षो वृक्षस्याधस्ताद्वा गृहं मन्तव्यम्, तत्र गृहे यदि पूर्वं साधवोऽनुज्ञाप्य स्थितास्तदा शेषाणां स एवावग्रहो भवति । अथ वृक्षविषयं विधिमाह[मा. ४७७३] भूयाइपरिग्गहिते, दुमम्मि तमणुन्नवित्तु सज्झायं । एगेन अनुन्नविएष सो चैव य उग्गहो सेसे ॥ वृ- भूतादिना - व्यन्तरेण परिगृहीतो यो द्रुमस्तत्र स्वाध्यार्थं कदाचिद् मन्तव्यं भवति, तं च व्यन्तरमनुज्ञाप्य स्वाध्यायं करोति । एवमेकेनापि तस्मिन्ननुज्ञापिते शेषाणां साधूनां स एवावग्रहो भवति ।। अथासौ वृक्षः परपरिगृहीतोऽप्यस्ति ततः - [भा. ४७७४] सामी अनुन्नविज्जइ, दुमस्स जस्सोग्गहो व्व असहीणे । कूरसुरपरिग्गहिते, दुमम्मि काणिट्टगाण गमो ॥ वृ- यस्तस्य द्रुमस्यस्वामी सोऽनुज्ञाप्यते । अथासी न स्वाधीनस्ततो अस्वाधीने तस्मिन 'वस्वायमवग्रहः सोऽनुजानीताम्' इति वक्तव्यम् । अथासौ द्रुमः क्रूरसुरपरिगृहीतस्ततो येपामगारिणां सस्कस्तेषामागन्तुमसौ न ददाति तत्र काणेष्टकागृहगमो मन्तव्यः, तं सुरं कायोत्सर्गेणाकम्प्य स्वाध्यायादि कुर्वन्तीति भावः ॥ तत्र चायं विधिः [भा. ४७७५] नेच्छंतेन व अन्ने, ईसालुसुरेण जं अनुन्नायं । तत्य वि सो चेव गमो, सगारिपिंडम्पि मग्गणता ॥ वृ- ईष्यालुसुरेण 'अन्यान्' गृहिणोऽनिच्छता 'यद्' वृक्षमूलादिकं साधूनामनुज्ञातं तत्रापि 'स एव गमः' पूर्वानुज्ञापनावस्थानलक्षणो विज्ञेयः । नवरं तत्र स्थितानां सागारिकपिण्डस्य मार्गणा कर्त्तव्या ॥ तामेवाह [मा. ४७७६ ] जक्खो चिय होइ तरो, बलिमादीगिण्हणे भवे दोसा । सुविणे ओयरिए दा, संखडिकारावणमभिक्खं ॥ वृ- येन यक्षेण सद्रुमः परिगृहीतः स एव तत्र स्थितानां 'तरः' शय्यातरो भवति । ततो यत् तस्य बलिकूरादि निवेद्यते स शय्यातरपिण्ड इति कृत्वा तस्य ग्रहणे 'दोषाः' आज्ञाभङ्गादयो भवन्ति । यद्वा यक्षो वृक्षस्वामिनः स्वप्ने रात्रावतीर्ण कथयेत्-मामुद्दिश्य भूयोभूयः प्रकरणं विधेयं ततोऽहं न किमपि भणिष्यामि । एवमभीक्ष्णसङ्घडिकारापणे यत् तत्र भक्तं पानकं वा स शय्यातरपिण्ड इति कृत्वा परिहियते ॥ मू. (१०७) से वत्थूसु वावडेसु वोडेसु परपरिग्गहिएसु भिक्खुभावस्स अट्ठाए दोघं पि उग्गहे अनुन्नवेयव्वे सिया अहालंदमवि उग्गहे ।। [भा. ४७७७] सागारिंगी उग्गहमग्गणेयं, स केच्चिरं वाकड मो कहं वा । इदानि राउग्गहभग्गणा उ, केणं विदिनों स कया कहं वा ।। वृ- 'सागारिकी' सागारिक सत्का तावदियमवग्रहमार्गणा प्रकृता । 'सच' सागारिकावग्रहः कियन्तं कालं कथं वा भवति ? इत्येतत् पूर्वसूत्रे 'व्याकृतं' व्याख्यातम्, “मो" इति पादपूरणे, इदानीं तु राजावग्रहस्य उपलक्षणत्वाद् देवेन्द्रावग्रहस्य च मार्गणा क्रियते, यथा-केन कदा कथं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy