________________
७२
उद्देशकः ३, मूलं-१०५, [भा. ४७५९]
दरिसिंति अपिच्छंते, को पुच्छति केन ठवियं च ॥ वृ-इहोपाश्रये यद्यर्थजातं पतितमुपलभ्यते तदा तदप्यल्पसागारिके स्थाप्यते, शैक्षादयश्च दूरे कर्तव्याः, प्रत्यवनिवृत्तैश्च-भूयस्तत्रैव समायातैहिभिः पृष्टाः- 'कुत्रास्माक तदर्थजातं तिष्ठति?' ततः 'करादिना' हस्ताङ्गुल्यादिसंज्ञया दर्शयन्ति-अत्र प्रदेशे "नं" एनं प्रेक्षध्वम् । अथ ते न पश्यन्ति ततः स्वयमेव तदर्थजातं दर्शयन्ति । यदि ते पृच्छेयुः-केनेदमत्र स्थापितम् ?; ततो वक्तव्यम्-कः पृच्छति? केन स्थापितंच? इति॥एवं तावदुपाश्रयपर्यापनेआहारादौ विधिरुक्तः। अथ शय्यातरादिगृहपर्यापन्ने विधिमाह[भा.४७६०] भडमाइभया नटे, गहिया-ऽगहिएसुतेसुसज्झादी।
गिण्हंति असंचइयं, संचइयं वा असंथरणे ॥ वृ- भटाः-राजपुरुषास्तदादिभयाद् नष्टे शय्यातरादौ अथवा सज्झिकाः-प्रातिदेश्मिकास्ते गृहीतृभि-धनिकैः आगृहीताः-ऋणं दापयितुमारब्धास्ततस्तेषु सज्झिकादिषु नष्टेषु तत्र य आहारोऽसञ्चयिकः-दधि-घृतादिस्तंगृह्णन्ति। अथासंस्तरणंततः 'सञ्चयिकमपि' अवगाहिमादिकं गृह्णन्ति ॥ [भा.४७६१] साविक्खेतर नट्टे, एमेव य होइ उवहिगहणं पि ।
पञ्चागएसु गहणं, मुंजति दिन्नेवमट्टे वि॥ वृ- प्रातिवेश्मिकादिः सापेक्षो वा नष्टो भवेद् ‘इतरो वा' निरपेक्षः । सापेक्षो नामभूयस्तत्रैवागन्तुकामः, तद्विपीतो निरपेक्षः । तत्रोभयस्मिन्नपि नष्टे 'एवमेव' आहारवदुपधेरपि ग्रहणं कुर्वन्ति । सापेक्षनष्टेषु च प्रत्यागतेषु कथयन्ति, कथितेच दत्तमनुज्ञातं सत् परिभुञ्जते । ये तुनिरपेक्षनष्टास्तेषु निर्विवादमेव परिभुञ्जते । एवं “अट्टे वि" त्त अर्थजातेऽपि ग्रहणंमन्तव्यम्।
अत्रैवाक्षेप-परिहारावाहमा.७६२] पाउग्गमणुत्रवियं, जति मनसि एवमतिपसंगो त्ति।
आउरमेसज्जुवमा, तह संजमसाहगंजंतु॥ वृ- यद्येवं मन्यसे-'प्रायोग्यं' साधूनामुचितं यत् तदेव साधुभि पूर्वमनुज्ञापितम् न पुनः 'अप्रायोग्यम्' अर्थजातादि,तत एवमनुज्ञापितमप्यर्थजातंगृह्णतामतिप्रसङ्गोभवति।तत्राभिधीयतेनैकान्तेनार्थजातमप्रायोग्यम्, यतआतुरः-रोगीतस्यभेषजोपमाकर्तव्या-यथाऽऽतुरस्याभिनवोदीर्णे ज्वरादौ यदौषधं प्रतिषिध्यते तदेवान्यस्यामवस्थायां तस्यैवानुज्ञायते, एवमर्थजातमपि पुष्टकारणाभावे प्रतिषिद्धम्, यत्तु दुर्भिक्षादौ संयमस्य साधकं तदनुज्ञातमेव ।।
.मू. (१०६) से वत्थूसु अब्बावडेसुअव्वोगडेसुअपरपरिग्गहिएसु अमरपरिग्गहिएसुस चेव उग्गहस्स पुव्वाणुनवणा चिट्ठइ अहालंदमवि उग्गहे ।। [भा.४७६३] गिहिउग्गहसामिजढे, इति एसो उग्गहो समक्खातो।
सामिजढे अजढे वा, अयमन्नो होइ आरंभो॥ वृ-स्वामिनाजढः-परित्यक्तो यो गृहिणां सम्बन्धी अवग्रहस्तद्विषयइत्येषः अवग्रहः' ग्रहणविधिः समाख्यातः ।अयं पुनः 'अन्यः परस्तुतसूत्रस्यारम्भः स्वामिना त्यक्तेऽत्यक्ते वाअवग्रहे भवति। अनेन सम्बन्धेनायातस्यास्य व्याख्या-"से"तस्य निर्ग्रन्थस्य वास्तुषु गृहेषु। कथम्भूतेषु?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org