________________
बृहत्कल्प - छेदसूत्रम् - ३-३/१०५
वृ-‘अप्रतिचरण-प्रतिचरणयोः प्रतिश्रयस्याप्रत्युपेक्षण-प्रत्युपेक्षणयोर्यथाक्रममेते दोषा गुणाश्च वर्णिताः, परमेतेनार्थेन सूत्रं 'न कृतं ' न विहितम्, किन्तु सामाचारीप्रकाशनार्थं सर्वमेतद् व्याख्यातमिति । सूत्रनिपातः पुनरयं 'तत्रेति' सूत्रनिपातस्यैवोपदर्शनार्थः ।। आगंतारठियाणं, कज्जे आदेसमादिणो केई । वसिउं विस्समिउं वा, छड्डित्तु गया अनाभोगा ॥
[भा. ४७५४]
वृ- इह यत्रागारिण आगत्यागत्य तिष्ठन्ति तद् आगन्तुकागारं तत्र 'कार्ये' कारणविशेषतः स्थितानां प्रकृतसूत्रमवतरति । कथम् ? इत्याह-आदेशः - प्राधूर्णकस्तदादयः केचित् पथिका आगन्तुकागारे रजन्यां वासमुपगता दिवा वा भोजनार्थं विश्रामं कृतवन्तः, तत उषित्वा विश्रम्य वा किञ्चिद् द्रव्यजातमनाभोगात् परित्यज्य गताः ॥ किं पुनस्तत् ? इत्याह
[ भा. ४७५५ ] समि-सत्तुग-गोरस- सिणेह-गुल-लोणमादि आहारे । ओहे उवग्गहम्मिय, होउवही अट्ठजातं वा ।।
७८
वृ- इहाहार उपधिश्चेति द्विविधं द्रव्यं भवति । तत्राहारः 'समिति - सक्तु-गोरस-स्नेह- गुडलवणादिकः' समिति-कणिक्का, शेषं प्रतीतम् । उपधिस्तु द्विधा भवति ओधे उपधि उपग्रहे वा, ओधोपधिरुपग्रहोपधिश्चेत्यर्थः । 'अर्थजातं' द्रव्यं तद् वा परित्यक्तं भवेत् ॥
तत्राहारोपधिविषयं तावद् द्विविधमाह
[मा. ४७५६] काऊणमसागरिए, पडियरणाऽऽहार जाव अवरण्हे । एमेव य उवहिस्स वि, असुन सेधाइ दूरे य ॥
वृ- आहारमसागारिके प्रदेशे कृत्वा तावत् प्रतिचरणं कुर्वते यावदपराह्नः सञ्जायते । एवमेवोपधेरपि प्रतिचरणं कर्त्तव्यम्, नवरमशून्ये भूभागे संस्थापनीयः । शैक्षादयश्च द्विविधस्यापि द्रव्यस्य दूरे कर्त्तव्याः ॥ किं कारममाहारमपराद्धं यावत् प्रतिचरन्ति ? इत्युच्यतेवोच्छिज्जई ममत्तं परेण तेसिं च तेन जति कजं ।
[भा. ४७५७]
गिण्हंता वि विसुद्धा, जति वि न वोच्छिञ्जती भावो ॥
वृ- अपराह्णात् परतस्तेषां पथिकानामाहारे ममत्वं व्यवच्छिद्यते, तेषांच' साधूनां यदि 'तेन' आहारेण कार्य भवति ततो गृह्णन्तोऽपि विशुद्धाः, यद्यपि च भावस्तेषां तदुपरि न व्यवच्छिद्यते तथाप्यपराह्नादूर्ध्वं गृह्णतां न कश्चिद् दोषः । उपधिं तु तृतीयदिवसे पूर्णे गृह्णन्ति, एतावता तद्विषयममत्वस्य व्यवच्छेदात् ॥
[भा. ४७५८]
अव्वोच्छिन्ने भावे, चिरागयाणं पि तं पयंसिंति ।
पन्नवणमनिच्छंते, कप्पं तु करेति परिभुत्ते ।।
वृ- अथ तेषामद्यापि भावो न व्यवच्छिंद्यते । ततोऽव्यवच्छिन्ने भावे तेषां स्ववस्त्राणि गवेषयतां चिरादायातानामपि 'तम्' उपधिं दर्शयन्ति, एवं च तेषां प्रज्ञापनां कुर्वन्ति अस्माभिरेतानि वस्त्राणि स्वीकृतानि, ततोऽनुग्रहं मन्यमानाः साधूनामनुजानीथ । एवमुक्ते यद्यनुजानते ततः सुन्दरम् अथ नेच्छन्त्यनुज्ञातुं तानि च वस्त्राणि परिभुक्तानि ततोऽप्कायवधरक्षणार्थं कल्पं कुर्वन्ति ॥ अथार्थजातविषयं विधिमाह
[ भा. ४७५९]
Jain Education International
पञ्चोनियत्तपुट्ठा, करादि दाएंति एत्य न पेधे ।
For Private & Personal Use Only
www.jainelibrary.org