________________
उद्देशक : ३, मूलं-१०४, [भा. ४७१०] [भा.४७१०] पुबुप्पन्नगिलाणे, असंथरंते य चउगुरू छण्हं ।
वयमाण एगे संघाडए य छप्पेते न लभंति॥ वृ- एकत्र ग्रामे गछः स्थितः, तेषां च ग्लान उत्पन्नः, तातिचरणे साधवो व्यापृताः सन्तः सर्वेऽपि भिक्षामटितुं न प्रभवन्ति, ततश्चासंस्तरणं सातम् । एवं ग्लाने पूर्वोत्पन्ने असंस्तरतां शैक्ष उपस्थितः,तेचग्लानकार्यव्यापृततया शैक्षं वर्तापयितुंनपारयन्ति, अतोभगवभिप्रतिषिद्धम्न तैः शैलो दीक्षणीयः, यदि दीक्षयन्ति ततश्चतुर्गुरुकाः। अथ लोभदोषेणामीषांषन्नां प्रकाराणामन्यतरेणप्रेषयन्ति-“वयमाण" इत्यादि, तंशैक्षं मुण्डयित्वा 'व्रजत्वमेकाक्येवामुकाचार्यसन्निधौ' इति वदन्तो विसर्जयन्ति, यद्वा तस्यैकं कमपि सहायं सङ्घाटकं वा समर्पयन्ति, एते त्रयः प्रकारा मुण्डितस्य भवन्ति; अमुण्डितस्याप्येत एव त्रयः; एतेषडपितं शैक्षं न लभन्ते, षड्भिः प्रकारैः प्रेषयन्त इत्यर्थः । येषां समीपे प्रेषयन्ति तेषामेवासौ शिष्यः॥
अथात्मसमीपे स्थापयन्ति तत इमे दोषाः[भा.४७११]आयरिय-गिलाणे गुरुगा, सेहस्सा अकरणम्मि चउलहुगा ।
परितावणणिफन्नं, दुहतो भंगे य मूलं तु॥ वृ-शैक्षं प्रव्राज्य तद्वैयावृत्यव्याकुलाः सन्तो यद्याचार्याणां ग्लानस्य वा वैयावृत्यं न कुर्वन्ति चतुर्गुरुकाः ।अथ शैक्षस्य न कुर्वन्ति चतुर्लघुकाः ।अथग्लानादीनामनागाढमागाढं वापरितापना भवति ततस्तनिष्पनम् । “दुहतो भंगे य"त्ति शैक्षस्य यदुनिष्क्रमणं ग्लानस्य यद् मरणम् एष द्विधा भङ्ग उच्यते तत्र मूलं भवति ॥अथ द्वितीयपदमाह[भा.४७१८] संथरमाणे पच्छा, जायं गहिते व पच्छ गेलनं ।
__ अपव्वइए पव्वइए, संघाडेगे व वयमाणे॥ वृ- इह गच्छे ग्लानो विद्यते परं नागाद ग्लानत्वम्, ततः संस्तरति तैः शैक्षमपि वर्तापयितुमाचार्याणामपिकर्तुमेवं प्रबाजितः शैक्षः, पश्चाचग्लानत्वमागाढं समजनि, तत्रोद्वर्त्तनपरिवर्तनादिव्यापृताएकेताव भिक्षांन हिण्डन्ते, येऽपि हिण्डन्तेतेऽपिन शक्नुवन्ति सर्वेषामपि पर्याप्तमानेतुम्, एवमसंस्तरणं जातम्; यद्वा मूलत एव ग्लानत्वं पूर्वं नासीत् किन्तु पश्चाच्छैक्षे 'गृहीते' प्रव्राजिते सति ग्लानत्वमुत्पन्नंततोऽसौ षड्भिः प्रकारैःप्रेषणीयः । तद्यथा-'अप्रव्रजितः' मुण्डितः, 'प्रव्रजितः' मुण्डितः । एष द्विविधोऽपि त्रिधा-सङ्घाटकेन एकसाधुना “वयमाणे" त्ति एकाकी व्रजेति ब्रुवाणैः, एकाकित्वेनेत्यर्थः ।।
अथ "संथरमाणे पच्छा जायं" ति पदं विशेषतो व्याचष्टे[भा.४७१३] नागाढं पउणिस्सइ, अचिरेणं तं चजायमागाढं ।
सेहं वट्टावेउं, न तरंति गिलाणकिच्चं च ॥ • वृ- पूर्वमनागाढं ग्लानत्वं भवेत्, ततः शैक्षे उपस्थिते चिन्तितम्-अचिरेणैवायं ग्लानः प्रगुणीभविष्यति;ततःशैक्षे प्रव्राजितेतद् ग्लानत्वमागाढंजातम्, ततस्ते शैक्षंवर्तापयितुंग्लानकृत्यं च कर्तुं समकमेव “न तरंति" न शक्नुवन्ति, अतोऽन्येषां समीपे प्रेषयन्तः शुद्धाः ।। [भा.४७१४] अपडिच्छनेतरेसिं, जं सेहवियावडा उ पायति ।
तंव पुव्वभणियं, परितावण-सेहभंगाइ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org