________________
६८
बृहत्कल्प-छेदसूत्रम् -३-३/१०४ खित्तबहिं तु परिणयं, लभतुजु कही न खलु मादी ।। वृ-अथासौ 'कथकः' धर्मकथी ऋजुकः सद्भावतः कथयति नाकर्षणहेतोः, सचप्रव्रज्यायां परिणतः ततः क्षेत्रान्तः परिणतं क्षेत्रिको लभते, क्षेत्रबहिः परिणतंतु ऋजुतो धर्मकथी लभते न खलु 'मायी' मायावान् ।। [भा.४७०५] परिणमइ अंतरा अंतराय भावो नियत्तति ततो से।
खित्तम्मि खेत्तियस्सा, बाहिं तु परिणतो तस्स ।। वृ- अथान्तराऽन्तरा तस्य भावः प्रव्रज्यां प्रति परिणमते निवर्तते वा ततः क्षेत्रे परिणतः क्षेत्रकस्याभवति बहिस्तु परिणतः तस्य धर्मकथिन आभवतीति ।गतम् अतिक्रामन्' द्वारम्। अथ “द्विविधा मार्गणा शिष्ये एकविधा च प्रतीच्छके" इति यदुक्तं तत्र प्रतीच्छकविषयां तावदेकविधा केवलसज्ञातकविषयां मार्गणामाह[भा.४७०६] माया पिया व भाया, भगिनी पुत्तो तहेवधूता य।
छप्पेते नालबद्धा, सेसे पभवंति आयरिया ॥ वृ-माता पिता भ्राता भगिनी पुत्रस्तथैवदुहिताच, षडप्येतेऽनन्तरवल्लीमधिकृत्य नालबद्धा मन्तव्याः। एते चाभिधारयन्तः प्रतीच्छकस्याभवन्ति । उपलक्षणमिदम्, तेन परम्परावल्लीबद्धा अपि वक्ष्यमाणाः षोडश जना अभिधारयन्तस्तस्यैवाभवन्ति । शेषास्तु-ये नालबद्धान भवन्ति तेषु आचार्या प्रभवन्ति, न प्रतीच्छकः ।।इदमेव व्यक्तीकुर्वन् परम्परावल्ली प्रतिपादयति[भा.४७०७] माउम्माया य पिया, भाया भगिनी य एव पिउणो वि ।
भातादिपुत्त-धूता, सोलसगंछच्च बावीसं॥ [भा.४७०८] बावीस लभति एए, पडिच्छओ जति यतमभिधारती ।
अभिधारमनभिधारे, नायमनातेतरेन लभे॥ कृ-मातुःसम्बन्धिनो माता पिता भ्राताभगिनी चेति चत्वारोजनाः४, पितुः सम्बन्धिनोऽप्येवमेव चत्वारोजनाः ८, “भायाइपुत्त-धूय"त्तिभ्रातुःसम्बन्धी पुत्रोदुहिताचेतिजनद्वयम् १०,आदिशब्दाद् भगिन्या अप्यपत्यं भागिनेयो भागिनेयी चेति द्वयम् १२, पुत्रस्यापत्यं पौत्रः पौत्री चेति द्वयम् १४, दुहितुरपत्यं दौहित्रो दौहित्री चेति द्वयम् १६, सर्वसङ्ख्यया षोडशकं भवति । षट् चाऽनन्तरवल्लीजना अत्रप्रक्षिप्यन्ते, ततोद्वाविंशतिर्भवति॥द्वाविंशतिमप्येतान् जनान्प्रतीच्छको लभते यदि च 'तं' प्रतीच्छकम् 'अभिधारयन्ति' मनसि कुर्वन्ति, अनभिधारयन्तस्तु तेऽप्याचार्यसयैवाभाव्या इति भावः। इतरे-उक्तव्यतिरिक्तास्तानभिधारयतोवाअनभिधारयतो वा ज्ञातकान् वाऽज्ञातकान् वा प्रतीच्छंको न लभते ॥ अथ शिष्यविषयां द्विविधां मार्गणामाह[भा.४७०९] नायगमनायगापुन, सीसे अभिधारमनभिधारे या
दोक्खर-खरदिटुंता, सव्वे वि भवंति आयरिए॥ वृ-द्विविधा मार्गणा नाम-ये शिष्यस्य 'ज्ञातकाः' स्वजना ये च 'अज्ञातकाः' अस्वजनास्ते तमभिधारयन्तो वाऽनभिधारयन्तो वा सर्वेऽप्याचार्यस्याभवन्ति न शिष्यस्य । कुतः? इत्याह'द्व्यक्षर-खरदृष्टान्तात्' "दासेन मे खरो कीओ, दासो वि मे खरो विमे।" इति निदर्शनात् ।। ___ अथ “पडिसेहिय वच्चंते कहं कप्पो विहिजई" इति द्वारं निरूपयन्नाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org