________________
उद्देशकः ३, मूलं-१०४, [भा. ४७००] यावद् नाद्यापि सम्यक्त्वं प्रतिप्यते तावत् प्रव्रजन क्षेत्रिकस्याभवति । अथ सम्यक्त्वं प्रतिपन्नः तत्र क्षेत्रमन्यस्याचार्यस्य सत्कं ततोऽसावात्मन इच्छया आभवति; यदि क्षेत्रिकस्योपतिष्ठते ततस्तस्यैव, अथोपशमयत उपस्थितस्तत उपशामयत एव, एतौ द्वौ मुक्त्वाऽन्यस्य नाभवति। "अन्नहिं" ति अथ 'अन्यत्र' क्षेत्राद् बहिरुपशमितस्तदा तस्योपशमकस्याभवति । अथ धर्मकथिनाऽपि नोपशामितः उपशमिन आभवति, मूर्तिदर्शनद्वारेणोपशमनकारिण इत्यर्थः । अथ क्षेत्रान्तरुपशान्तस्ततो यस्य सत्कं क्षेत्रंतसयाभाव्यः ।।अमुमेवार्थ सविशेषमाह[भा.४७०१] पखित्ते वसमाणो, अइक्कमंतो व न लभति असन्नि।
छंदेण पुव्वसन्निं, गाहितसम्माति सो लभति॥ वृ-परक्षेत्रे मासकल्पेन वर्षावासेन वा वसन् ‘अतिक्रामन् वा' परक्षेत्रमग्रतो गन्तुमनास्तत्रावस्थितः ‘असंज्ञिनम्' अप्रतिपन्नसम्यक्त्वं स्वयमुपशमितमपि न लभते । अथ कञ्चिन्मिथ्याष्टिं सम्यक्त्वम् आदिशब्दादणुव्रतानि वा ग्राहयित्वा क्षेत्रान्तरंगतः भूयोऽप्यन्यदातदेव क्षेत्रमायातः, सच प्रागुपशामित इदानीं पूर्वसंज्ञी लभ्यते, ततस्तं पूर्वसंज्ञिनं सम्यक्त्वादिग्राहितं सः' उपशमकश्छन्देन लभते । किमुक्तं भवति?-उपशमिकं क्षेत्रिकं वा यमसावभिरोचयति तस्याभवति। एवंत्रयाणांवर्षाणामारतो मन्तव्यः, त्रिषुवर्षे पूर्णेषुसपूर्वसंज्ञी क्षेत्रिकस्यैवाभाव्यः, नोपशामयतः। आह च चूर्णिकृत्-“तिसु वरिसेसु पुग्नेसु खेत्तियस्सेवाभवति, न उवसामिंतस्स" ति॥ गतमेकग्रामद्वारम् । अथ अतिक्रामन्' द्वारमाह[मा.४७०२] मगंतो अनखित्ते, अभिधारंतो उ भावतो तस्स।
खित्तम्मि खित्तियस्सा, बाहिं वा परिणतो तस्स ।। वृ-शैक्षः कश्चिदाचार्य मार्गयन् व्रजति, तस्य च 'अन्यक्षेत्रे' परकीयक्षेत्राभ्यन्तरेपथि गच्छतः कश्चिद् धर्मकथी मिलितः, स यद्याकर्षणहेतोस्तस्य धर्म कथयति तदा यमाचार्यमभिधारयन् व्रजति तस्याभवति, न कथयतः । अथ 'भावतः' स्वभावादेव कथयति ततस्तस्य धर्मकथिकस्याभवति।तुशब्दोविशेषणे, सचैतविशिनष्टि-यदि क्षेत्राभ्यन्तरे स्वभावतः कथयति ततः क्षेत्रिकस्याभाव्यः,अथ क्षेत्राबहिस्ततोधर्मकथिनः। अथान्तराऽन्तरातस्य भावः परिणमते निवर्तते च ततः क्षेत्रे परिणतः' प्रव्रज्याभिमुखीभूतःक्षेत्रिकस्याभवति, बहिस्तुपरिणतः 'तस्य' कथयत आभाव्य इति । इदमेव व्याचष्टे[भा.४७०३] अभिधारितो वच्चति, पुच्छित्ता साह वच्चतो तस्स।
. परिसागतो व कहई, कढणहेउं नतं लभति॥ वृ-कञ्चिदाचार्यमभिधारयन् शैक्षो व्रजति, तस्य कोऽपि साधुः पथि गच्छन् मिलितः, तेन च पृष्टः-अमुक आचार्य कुत्राऽऽस्ते? साधुराह-किं तेन भवतः प्रयोजनम् ?; स प्राह-तस्यान्तिके प्रव्रजितुकामोऽहम्; एवं पृष्टवा तस्य व्रजत एवाकर्षणहेतोः “साह"ति धर्म कथयति । यद्वा ग्रामे कापि पर्षदन्तर्गतस्य धर्म कथयत उपस्थितस्ततो वन्दित्वा तथैव स्वाभिप्राये कथिते स आकर्षणहेतोर्विशेषतो धर्म कथयति, कथिते च यद्यसौ प्रव्रजितुमभिलषति ततो न तं शैक्षं लभते, अभिधारिताचार्यस्यैव सआभवति ॥
[मा.४७०४] उज्जु कहए परिणतं, अंतो खित्तस्स खित्तिओ लभइ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org