________________
बृहत्कल्प-छेदसूत्रम् -३-३/१०४ वृ- यथा लिङ्गसहितः संज्ञी निर्दिष्टानां बहूनां मध्ये यमेवाभ्युपगतस्तस्यैवाभवति, एवमेवाशिस्वाकोऽपि संज्ञी बहून निर्दिश्यागतो यस्यैव निर्दिष्टस्यान्तिके 'उपगतः' प्रव्रजितुं परिणतस्तस्यैवासौ शिष्यौ भवति नान्यस्य । यस्तु सशिखाकः संज्ञी सकमप्यभ्युपगतोऽपि यदि पश्चाद् विपरिणतस्तदा यस्यान्तिके प्रव्रजितुमिच्छति तस्याभवति । “दोव अस्सन्नित्ति द्वौ वा' अशिखाक-सशिखाकलक्षणौ यौ असंज्ञिनौ तावपि पूर्वं कञ्चनाभ्युपगतौ पश्चाद् विपरिणतौ स्वच्छन्देन यदुपकण्ठे प्रव्रजतस्तस्याभाव्यौ ॥अस्यैवार्थस्य सुखावबोधाय भङ्गकानाह[भा.४६९७] निद्दिढ सनि अब्भुवगतेतरे अडलिंगिणो भंगा।
एवमसिहे विससिहे, वि अहसव्वे विचउवीसं॥ वृ-कमप्याचार्य निर्दिश्य गछन् निर्दिष्टः, संज्ञी श्रावकः, 'अभ्युपगतः' प्रव्रजितुं परिणतः; एतैस्त्रिभिः पदैः “इयरे"त्तिप्रतिपक्षपदसहितैरष्टौ भङ्गाः लिङ्गिनः' लिङ्गसहितस्य गच्छतो भवन्ति। तथाहि-निर्दिष्टः संज्ञी अभ्युपगतः १ निर्दिष्टः संज्ञी अनभ्युपगतः २ निर्दिष्टोऽसंज्ञी अभ्युपगतः ३ निर्दिष्टोऽसंज्ञी अनभ्युपगतः ४, अनिर्दिष्टपदेनाप्येवमेव चत्वारो भगा लभ्यन्ते, एते अधौ भङ्गा लिङ्गिन् उक्ताः ।अशिस्वाके सशिस्वाकेऽपि चैवमेव प्रत्येकमष्टौ भङ्गा भवन्ति। सर्वेऽप्येते मीलिताश्चतुर्विंशतिरुपजायन्ते॥एतेषु विधिमाह[भा.४६९८] पढम-बिति-ततिय-पंचम-सत्तम-नव-तेरसेसुभगेसु।
विप्परिणतो वि तस्सेव होइ सेसेसु सच्छंदो।। वृ-प्रथम-द्वितीय-तृतीय-पञ्चम-सप्तम-नवम-त्रयोदशेषु भङ्गेषु विपरिणतोऽपियंनिर्दिश्यागतो यंवा अभ्युपगतस्तस्यैवाभवति । 'शेषेषु चतुर्थ-षष्ठा-ऽष्टम-दशमैकादश-द्वादश-चतुर्दशादिषु चतुर्विशान्तेषु सप्तदशसु भङ्गेषु ‘स्वच्छन्दः' स्वेच्छा, यः प्रतिभाति तस्यैवाभवतीत्यर्थः ॥
इदमेव व्यक्तीकुर्वन्नाह[भा.४६९९] सव्वो लिंगी असिहो, य सावतो जस्स अब्भुवगतो सो।
निद्दिसन्निलिंगी, तस्सेवाणब्अवगतो वि॥ वृ-सर्वो लिङ्गी अशिखाकश्च श्रावको यस्यान्तिकेऽभ्युपगतः स एव तं लभते । किमुक्तं भवति?-यो लिङ्गसहितोऽभ्युपगतः स निर्दिष्टोऽनिर्दिष्टो वा संज्ञी वा भवतु, यश्चाशिखाकः श्रावकोऽभ्युपगतः सोऽपि निर्दिष्टोऽनिर्दिोवाभवतु, एष सर्वोऽपियमेवाभ्युपगतोविपरिणतोऽपि तस्यैवाभवति। एतेन प्रथम-तृतीय-पञ्चम-सप्तम-नवम-त्रयोदशभङ्गाः सूचिताः। तथा यो लिङ्गी निर्दिष्टः संज्ञी च स यद्यप्यनभ्युपगतस्तथापि यमेव निर्दिश्यागतः तस्यैवाभवति, न पुनर्विपरिणतोऽप्यन्यस्य, अनेन द्वितीयो भङ्गो गृहीतः । शेषेषु तु सप्तदशस्वपि भङ्गेषु यत्राभ्युपगतस्तत्राविपरिणतस्तस्यैव, विपरिणतस्तु स्वेच्छया; यत्र तु नाभ्युपगतस्तत्र विपरिणतोऽविपरिमतो वा यथास्वच्छन्दमाभाव्य इति॥
गतं "कथं कल्पोऽभिधारणे" इति द्वारम् । अथैकग्रामे इति द्वारमाह[भा.४७००] अस्सन्नी उवसमितो, अप्पणो इच्छाइ अन्नहिं तस्स। .
दणं च परिणए, उवसामिते जस्स वा खित्तं ।। वृ-केनचि धर्मकथिना कश्चिद् ‘असंज्ञी मिथ्याध्ष्टि उपशमितः' प्रव्रज्याभिमुखीकृतः स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org