________________
उद्देशक : ३, मूलं- १०४, [ भा. ४६९१ ]
६५
वृ- 'अभिधारणं' प्रव्रज्यार्थमाचार्यादिर्मनसा सङ्कल्पनम्, तच्च द्विधा अनिर्दिष्टं निर्दिष्टं च । अनिर्दिष्टं नाम - अभधारयन् कमप्याचार्यं विशेषतो न निर्दिशति । स चाभिधारको द्विधा- संज्ञी असंज्ञी च । पुनरेकैको द्विधा-गृहीतलिङ्गोऽगृहीतलिङ्गश्च । एष सर्वोऽप्योघतः सामान्येनाचार्यविशेषमनिर्दिश्य व्रजन् स्वच्छन्द आभाव्यो भवति, यस्यान्तिके प्रव्रजति तस्यैवासौ शिष्य इत्यर्थः । निर्दिष्टं पुनः अभिधारणं तदुच्यते यत्र 'अमुकस्याचार्यस्य समीपे प्रव्रजिष्यामि' इति निर्देशं करोति । एषोऽपि द्विधा -संज्ञी असंज्ञी च । भूय एकैको द्विधा-लिङ्गसहितो लिङ्गरहितश्च । तत्र लिङ्गसहितः संज्ञी यमाचार्यमभिधार्य गच्छति विपरिणतोऽपि तस्यैवासी भवति, नान्यस्य ॥ [भा. ४६९२] निद्दिट्ठे अस्सन्त्री, गहिया ऽगहिए य अगहिए सन्नी । तस्सेव अविपरिणते, विपरिणते जस्स से इच्छा ||
वृ-योऽसंज्ञी स गृहीतलिङ्गी अगृहीतलिङ्गी वा भवतु, यस्तु 'संज्ञी' श्रावकः सोऽगृहीतलिङ्गः; एते त्रयोऽप्यविपरिणते भावे यं निर्दिष्टमाचार्यमभिधार्य गच्छन्ति तस्यैवाभवन्ति । अथ तं प्रति भावो विपरिणतस्ततो यस्य सकाशे तेषां प्रव्रजितुमिच्छा तस्यैव ते शिष्याः ॥
अथ किं कारणं लिङ्गसहितो व्रजति ? इत्याह
[ भा. ४६९३ ] चारिय-समुदाणट्ठा, तेनग गिहिपंत धम्मसड्डा वा । एएहि लिंगसहितो, सन्नी व सिया असन्नी वा ॥
वृचारिक:- हेरिकस्तद्विषया शङ्का मा भूदिति बुध्या लिङ्गं गृहीत्वा व्रजति, तथा समुदानं भैक्षं तदर्थं लिङ्गं गृह्णाति, गृहीतलिङ्गो हि सुखेनैव भिक्षामाप्नोति । स्तेना वाऽपान्तराले गृहिप्रान्ता धर्मश्रद्धालवो वा तिष्ठन्ति । एतैः कारणैः संज्ञी वा असंज्ञी वा साधुसामाचारीनिपुनो लिङ्गसहितः स्यादिति । इह यो निर्दिश्य व्रजति स एकमनेकान् वा निर्दिशेत् । तत्र यो अनेकान् निर्दिशति स एवं सङ्कल्पयति- 'यो मे प्रतिभासिष्यते तस्य सकाशे प्रव्रजिष्यामि' तद्विषयं विधिमाह - नेगा उद्दिस गतो, लिंगेणऽप्फालितो तु एक्केणं ।
[भा. ४६९४]
दहुंच अचक्खुस्सं, निद्दिनं गतो तस्स ॥
वृ- अनेकानाचार्यानुद्दिश्य लिङ्गेन सहितो बहूनां निर्दिष्टानामन्तिके गतः । तत्र चैकेन 'आस्फालितः' सादरमाभाषितो यदि तमभ्युपगतस्तदा तस्यैवासौ शिष्यः । अथाभाषितोऽपि तम् 'अचक्षुष्यम्' अनिर्दिष्टं दृष्ट्वा निर्दिष्टमेवान्यं कमप्यभ्युपगतस्तदा तस्याभवति ॥ इदमेव सविशेषमाह
[भा.४६९५] निद्दिट्ठमनिद्दिवं, अब्भुवगय लिंगि नो लभइ अन्नो ।
लिंगी व अलिंगी वा सच्छंदेण अनिद्दिट्ठो ।।
वृ- निर्दिष्टमनिर्दिष्टं वा आचार्यमभिधार्य गच्छन् 'लिङ्गी' लिङ्गसहितः शैक्षो यमाचार्यमभ्युगतस्तस्यैवाभवति, 'नो' नैवान्यस्तं लभते । यस्तु 'अनिर्दिष्ट' नाद्यापि कमप्यभ्युपगतः स लिङ्गी वा भवतु अलिङ्गी वा सः 'छन्देन' यमभिरोचयति तस्याभवति ।।
[भा. ४६९६ ] एमेव असिहसन्नी, निद्दिद्वस्सुवगतो न अन्नस्स । अब्भुवगतो विससिहो, जस्सिच्छति दो व अस्सनी ॥
2015
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org