________________
बृहत्कल्प-छेदसूत्रम् -३-३/१०४ बहुविग्धो हु मुहत्तो, मा अवरण्हं पडिच्छाहि ॥ वृ-भो भव्याः! त्वरध्वं धर्म कर्तुम, माक्षणमपि प्रमादं कुरुध्वम् । कुतः? इत्याह-बहवःशूल-विष-विसूचिका-शस्त्रघाता-ऽग्निदाहादिभेदादनेकेविनाः-जीवितान्तरायायत्रासौ बहुविघ्नः, हुशब्दो यस्मादर्थे, अपिशब्दस्य चानुक्तस्यापि गम्यमानत्वाद् यस्माद् मुहूर्तोऽपि बहुविघ्नः, आस्तांप्रहर-दिवसादिअतो महाभाग! माप्रव्रज्याग्रहणेऽपराह्नमपिप्रतीक्षिष्ठाः। एवमनुशासनं कृत्वा चतुर्भिर्नवकैस्तथैवप्रेषणीयम्।।गतं "पणोदाई"तिद्वारम्।अथ यावजीवपराजितद्वारमाह[भा.४६७६] बहुसो उवट्ठियस्सा, विग्घा उडिंति जजिय जितो मि।
अनुसासन पत्थवणं, नवगाय भवे समुंडियरे॥ घृ-क्षेत्रिकाणां गमनवृत्तान्तं ज्ञात्वा कोऽपि शैक्षो ब्रूयात्-'बहुशः' अनेकशः प्रव्रज्याग्रहणायोपस्थितोऽहम्, परं वारंवारं विघ्ना नवनवा उत्तिष्ठन्ते, अतो “जज्जियं" यावजीवमहं विप्नैर्जितोऽस्मि, यदेवं ते साधवो विहृतवन्तः, अतः परं तेषु समागतेषु प्रव्रजिष्यामि । एवं ब्रुवाणस्यानुशासनं कर्तव्यम्-भद्र ! साम्प्रतं तव चारित्रावारककर्मणानुदयो वर्तते, अतो मा प्रमादी:, कोजानाति भूयोऽपि तेषामुदयोभवेत् ? आवश्यकामिहितश्च कूर्मचर्मष्टान्तस्तत्पुरतः प्ररूपणीयः । एवमनुशिष्य प्रस्थापन कर्त्तव्यम् । तत्र च तथैव मुण्डितेतरयोः प्रत्येकं चत्वारो नवका भवन्ति । एवं प्रथमद्वितीयदिवसयोरव्याहतानां कल्पो विधीयते ॥अथ "ज्ञापिते कथं कल्पो वास्तव्ये वाताहृतेऽपिच" इति द्वारमाह- [भा.४६७७] . वाताहडे वि नवगा, तहेव जाणाविए य इयरे य ।
एमेव यवत्थव्वे, नवगाण गमो अजाणते॥ वृ- वाताहतो द्विधा-ज्ञापित इतरश्च । यः क्षेत्रिकाणां यश कीर्तिमपि न जानाति स आगन्तुकसाधुभि ‘त्वमस्माकं नाभवसि, ये गतास्तेषामेवाभवसि' इति सद्भावावगमं कारितो ज्ञापित उच्यते, इतरो नाम-यशःकीर्तिज्ञः । तत्र ज्ञापिते 'इतरस्मिंश्च वाताहते प्रव्रजितुमायाते तथैव चत्वारो नवका भवन्ति । वास्तव्योऽपि शैक्षो यः क्षेत्रिकाणां यशः कीर्तिमपि न जानाति तत्रापि नवकानांगम एवमेव मन्तव्यः । अथ वास्तव्यो वाताहतो वा यशःकीर्तिमपिन जानाति स कीशो भवेत् ? उच्यते[भा.४६७८] वत्थब्बे वायाहड, सेवग परतित्यि वणिय सेहे य।
सव्वेते उज्जुगो अप्पिणाइ मेलाइ वा जत्थ।। वृ. वास्तव्यो वा वाताहृतो वा यो रजकुलसेवको यो वा परतीर्थिको यश्च वणिग् एते असन्निहितत्वेन यश-कीर्तिमपि गुरूणां न जानीयुः, परं प्रथमद्वितीयदिवसयोः प्रव्रजितुमायातास्तेऽपि क्षेत्रिकाणामाभाव्याः । अथ ऋजु-अनृजुद्वारचिन्ता क्रियते-य आचार्य ऋजुर्भवति ससर्वानप्येतान् क्षेत्रिकाणामर्पयति, यत्र वाक्षेत्रिका भवन्तितत्र सङ्घाटकादिभिप्रकारैः प्रेषयित्वा तैः सह मीलयति॥ [भा.४६७९] माइल्ले बारसगं, जाणगजाणादिए य चत्तारि।
वत्थव्वे वायाहड, न लभतिचउरो अनुग्धाया। वृ-यस्तु ‘मायावी' अनृजुः सन प्रेषयति, तत्रच प्रकाराणां द्वादशकं भवति, तच्चाग्रे वक्ष्यते।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org