________________
उद्देशकः३, मूलं-१०४, [भा. ४६७९) तथा ज्ञायके ज्ञापिते च समुदिताश्चत्वारः प्रकारा भवन्ति, तद्यथा-ज्ञायकंप्रथमदिवसेन प्रेषयति १, द्वितीये तमेव न प्रेषयति, २, एवं ज्ञापितस्यापि द्वौ प्रकारौ । एतैर्वक्ष्यमाणैश्च प्रकारैर्वास्तव्यं वाताहृतं वाऽप्रेषयतश्चत्वारोऽनुद्धातामासाः, नचतान् शिष्यान्लभते, कुलस्थविरादिभिर्बलात् क्षेत्रिकाणां दाप्यते इत्यर्थः ।। अथात्रैव प्रायश्चित्तवृद्धिमाह[भा.४६८०] सत्तरतं तवो होती, ततो छेदो पहावई ।
छेदेन छिनपरियाए, तओ मूलं तओ दुगं ।। वृ-प्रागिव द्रष्टव्यम् ।।प्रकारद्वादशकमाह[भा.४६८१] तरुणे मज्झिम थेरे, तद्दिन बितिए य छक्कग इच्छं।
एमेव परग्गामे, छक्कं एमेव इत्थीसु॥ वृ-तरुण-मध्यम-स्थविरान् प्रत्येकंतद्दिवसे द्वितीयदिने वाऽप्रेषयत एकप्रकारषट्कं भवति, एतच्च स्वग्रामविषयम्, परग्रामेऽपि एवमेव प्रकारषट्कम् सर्वेऽप्येते द्वादश प्रकाराः पुरुषेषु भणिताः । एवमेव च स्त्रीष्वपि प्रकारद्वादशकं भवति।। [भा.४६८२] पुरिसित्थिगाण एते, दो बारसगा उ मुंडिए होति ।
एमेव य ससिहम्मिय, जाणग जाणाविए भयणा ॥ वृ-एते द्वे द्वादशके पुरुष-स्त्रीणां मुण्डितविषये भवतः । एवमेव च सशिखाकेऽपि शैक्षे द्वादशकद्वयम् । तदेवं ज्ञायके ज्ञापिते च प्रत्येकं "भयण"त्ति भङ्गकर्विकल्पास्तेषां चत्वारि द्वादशकानि भवन्ति । अथवा[भा.४६८३] अब्बाहए पुनो दार्ति, जावजीवपरादिए।
तद्दिन बीयदिने या, सग्गामियरे य बारसहा ॥ ई-अव्याहतः पुनरागतप्रव्रजितोयावज्जीवपराजितश्चेति त्रयः शैक्षाः एतान्तद्दिने द्वितीयदिने वाऽप्रेषयतः प्रकारषट्कम् । एतच्च स्वग्रामे इतरस्मिंश्च' परग्रामे भवतीति कृत्वा द्वाभ्यां गुणितं द्वादशधा भवति । अथ ऋजु-अनृजुलक्षणमाह[भा.४६८४] जाणंतमजाणंते, नेइ व पेसेइ वा अमाइल्लो ।
सो चेव उज्जुओ खलु, अनुज्जुतो जो न अप्पेति ।। वृ-जानतो अजानतो वाशैक्षान् योऽमायावी स क्षेत्रिकाणां समीपे स्वयं नयति वा परहस्तेन वा प्रेषयति स एव ऋजुक उच्यते । अनृजुस्तु सोऽभिधीयते यो नार्पयति न वा प्रेषयति । अथैते वास्तव्या वाताहता जानन्तोऽजानन्तो वाऽनृजुभिः प्रव्राजिताः कथं पश्चात् परिज्ञायन्ते? उच्यतेस्नाना-ऽनुयानादिषुयत्र मिलितास्तत्र क्षेत्रिकैः कश्चिदनृजुप्रव्रजितो वाताहृतः पृष्टः कथं भवान् प्रव्रजितः?,सभणति[भा.४६८५] तुम चिय नीसाए, मि आगतो दिक्खितो बला नेहिं ।
___ अम्हे किमपव्वइया, पुट्ठा वन ते परिकहेंसु ।। वृ-युष्माकमेव निश्रया अहमागतः अमीभिश्च बलाद् दीक्षितः, मया भृशममी पृष्टास्तत एभिराख्यातम्-वयं किं प्रनजिता न भवामो यदेवंतान्मार्गयसि? यद्वानतेपृष्टाः सन्तःकिमप्याख्यातवन्तः । एवं रूप-शब्द-यशः कीतिज्ञो वक्ति । यस्त कीर्तिमपि न जानाति स ब्रूयात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org