________________
उद्देशक : ३, मूलं-१०४, [भा. ४६६९] द्रक्ष्यामि ततः पुनरप्यत्रैव प्रत्येष्यामि प्रत्यागमनं करिष्ये इतिबुध्या नागन्तुकैरात्मानं मुण्डापयति, एवममुण्डितं प्रेषयन्ति॥
एवं तावदुभयज्ञविषयो विधिरुक्तः, अथ रूपज्ञादिविषयं तमेवादिदिशनाह. [भा.४६७०] एसेव य नवगकमो, सई रूवं व होइजाणते।
जो पुन कित्तिं जाणति, न ते वयं सिस्सते तस्स ।। वृ-एष एव नवकक्रमः शब्दं रूपं च जानति शैक्षे वक्तव्यः, शब्दज्ञे रूपज्ञे चेत्यर्थः । यः पुनः शैक्षः कीर्तिमेव जानाति न रूपं न वा शब्दं तस्य 'शिष्यते' निवेद्यते-ते वयं न भवामो येषां सकाशे भवान् प्रव्रजितुमायात इति ॥ ततो ब्रूयात्[भा.४६७१] किं वन कप्पइ तुभं, दिक्खेउ तेसितंन अम्हं ति।
तत्थ वि सो चेव गमो, नवगाणंजो पुरा भणितो।। वृ-किं वा युष्माकं दीक्षयितुं न कल्पते? । ततः साधुभिर्वक्तव्यम्-तेषामेव त्वमाभवसि नास्माकम् । एवमुक्ते यद्यसौ भणति-यद्येवंतर्हि मां प्रव्राज्य तत्रप्रेषयत अमुण्डितं वा विसर्जयत; ततस्तत्रापि स एव 'गमः' प्रकारो यः सङ्घाटका-ऽऽत्मद्वितीयादिभिर्भदौर्निष्पन्नानां नवकानां पुरा भणितः ॥अथ "पुनो दाइं" ति द्वारमाह[मा.४६७२] विप्परिणया वि जति ते अम्हे तुझं भणंतऽलं तेहिं।
तह वियन विते तेसिं अव्याहयमादिया होति ।। वृ-ये अव्याघातादयो वाताहृतान्ता शैक्षा अत्र प्रस्तुतास्ते क्षेत्रिकमभिधार्य प्रथमागता अपि कुताऽपि हेतोस्तंप्रति विपरिणताः सन्तो यद्यागन्तुकान् भणन्ति-वयंयुष्माकंसकाशे प्रवजिष्यामः 'अलं' पर्याप्तं तैः पूर्व साधुभिरितिः 'तथाऽपि' एवं ब्रुवाणा अपि 'ते' अव्याहतादयः तेषाम् आगन्तुकानांनभवन्तिकिन्तु क्षैत्रिकस्यैवेतिः गतम् व्याघात शरम्। अथ "पुणोदाई"तिद्वारमाह[भा.४६७३] एहिंति पुनो दाई, पुढे सिटुंसि ईय भणमाणा।
बहुदोसे माणुस्से, अनुसासण नवग तह चेव ।। वृ-आगन्तुकसाधूनां समीपे 'कुत्र गताः?' इति पृष्टे ततस्तैः 'शिप्टे' 'अमुकत्र गताः' इति कथिते स शैक्षो ब्रूयात्-“एहिति पुनो दाई" ति यदा ते पुनरत्रागमिष्यन्ति तदा प्रव्रजिष्यामि "ईय" एवंभणन्सवक्तव्यः-सौम्य! 'बहुदोषे' बह्वन्तराये मानुष्येमाप्रमादं कृथाः । एवमनुशासनं कृत्वा 'तथैव' नवकगमेन प्रेषणं कर्तव्यम् ।। अनुशासनमेव विशेषत उपदर्शयति[भा.४६७४] जंकल्ले कायव्वं, नरेण अज्जेवतं वरं काउं।
मच्चू अकलुणहिअओ, न हु दीसइ आवयंतो वि।। वृ-'यद्' दीक्षाग्रहणादि कार्य 'कल्ये द्वितीयदिने नरेण कर्तव्यं तदद्यैव कर्तुं 'वरं' प्रशस्यम्, यतो मृत्यु 'अकरुणहृदयः' स्वभावादेव कठोराशयः तथा कथमप्यापतति यथा आपतन्नपि न दृश्यते । उक्तंच
श्वःकार्यमद्य कुर्वीत, पूर्वाह्ने चापराह्निकम् ।
को हि तद् वेत्ति कस्याद्य, मृत्युसेनाऽऽपतिष्यति? ॥ [भा.४६७५] तूरह धर्म काउं, मा हुपमायं खणं पि कुम्वित्था।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org