________________
बृहत्कल्प-छेदसूत्रम् -३-३/१०४
एवाभाव्या इति सङ्ग्रहगाथासमासार्थः ॥अथैनामेव विवरीषुरव्याघातद्वारमङ्गीकृत्य तावदाह[भा.४६६४] पियमप्पियं से भावं, दटुं पुच्छित्तु तस्स साहति ।
कत्थ गता ते भगवं, पुट्ठा व भणति किं तेहिं ॥ वृ-क्षेत्रिकेषु नितिषुयोऽसावुभयज्ञः शैक्षःसः प्रव्रजामि' इत्यभिप्रायेणागतोयावदागन्तुकान् साधून पश्यति ततस्ते साधवस्तस्य प्रियमप्रियं वा भावं प्रहसितमुखतया दीनमुखतया वा दृष्ट्वा पृच्छन्ति-किमेवं प्रहृष्टवदनश्चिन्तापरो वा श्यसे? | एवं पृष्ट्वा तेन स्वस्वरूपे कथिते सति "साहति" सद्भावं कथयन्ति, यथा-गतास्तेऽन्यत्र विहारेणेति । यद्वा स स्वयमेव पृच्छेत्- कुत्र गतास्ते भगवन्तः ? । एवं पृष्टाः सन्तो भणन्ति-किं तैर्भवतः प्रयोजनम् ? ॥ स प्राह[भा.४६६५] पव्वइहं ति य भणिते, अमुगत्य गया वयं ति दिक्खेउं ।
तेसि समीवं नेमो, न य वाहणते तयं सोय ॥ वृ-'प्रव्रजिष्याम्यहम्' इति तेन भणिते साधवो वदन्ति-ते क्षेत्रिका अमुकत्र ग्रामादौ गताः, वयं भवन्तं 'दीक्षयित्वा' प्रव्राज्य तेषां समीपे नयामः, सच तकम्' अनन्तरोक्तं वचनं न च' नैव व्याहन्ति, न विकुट्टयति-तथेति प्रतिपद्यते इत्यर्थ, एषोऽव्याधात उच्यते॥ [मा.४६६६] संघाडग एगेणं, पंथुवएसे व मुंडिए तिनि।
इइतरुण मज्झ थेरे, एकेके तिनि नव एते॥ वृ-ततः साधवस्तं प्रव्राज्य सनाटकेन सह क्षेत्रिकाणामन्तिके प्रेषयन्ति १, अथ सवाटको न पूर्यते तत एकं साधुं सहायं दत्त्वा मुत्कलयन्ति २, तस्याप्यभावे एकाकिनमपि विसर्जयन्ति परं पन्थानमुपदिशेयुः ३, एते तरुणस्य त्रयः प्रकाराः, मध्यम-स्थविरयोरप्येवमेव प्रत्येकंत्रयः, एते नव भवन्ति । एष प्रथमो नवकः॥ [भा.४६६७] पढमदिने सग्गामे, एगो नवगो वितिज्जए वितिओ।
एमेव परग्गामे, पढमे बितिए य वे नवगा॥ वृ- एषः “एकः' प्रथमो नवकः प्रथमदिने स्वग्रामे प्रव्राज्य प्रेषयतां मन्तव्यः द्वितीये दिवसे एवमेव द्वितीयो नवकः, एवं स्वग्रामे द्वौ नवकावुक्तौ । परग्रामेऽपि 'एवमेव' प्रथमद्वितीयदिवसयौौं नवकौ । एवमेते चत्वारो नवका मुण्डितं प्रेषयतां भवन्ति। [भा.४६६८] एमेव अमुंडिस्स वि, चउरो नवगा हवंति कायव्वा ।
एमेव य इत्थीण वि, नवगाण चउक्कगा दुन्नि॥ एवमेवामुण्डितस्यांपिप्रेष्यमाणस्य चत्वारोनवकाः कर्तव्या भवन्ति। एवमेते द्वेनवकचतुष्टये पुरुषाणामुक्ते । स्त्रीणामप्येवमेव द्वौ नवकानां चतुष्को सङ्घाटका-ऽऽत्मद्वितीयादिभि प्रकारैः कर्तव्यौ । अथ क्षेत्रिकाणामन्तिके न प्रेषयन्ति किन्तु स्वयमेव स्वीकुर्वन्ति ततश्चत्वारोगुरुकाः॥ अध किमर्थममुण्डितं प्रेषयन्ति? इति उच्यते[भा.४६६९] सागारियसंकाए, निच्छति घिच्छंति वा सयंमा मे ।
तेव अदटुं पुनरवि, पञ्चेहममुंडितो एवं ॥ वृ-सागारिकाः-सज्ञातकास्तेषां सङ्कया-'माममी उप्रव्राजयेयुः' इति बुध्या स्वग्रामे नेच्छति स शैक्षः प्रव्रजितुम् । यद्वा अमी साधवः प्रव्राज्य मा मां ग्रहीष्यन्ति, यदि च तान् साधून न
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org