________________
उद्देशक : ३, मूलं- १०४, [भा. ४६५९ ]
वृ- न विद्यते व्याघातः प्रव्रज्याविघ्नो यस्य सोऽव्याघातः शैक्षः, पूर्वसाधुषु क्षेत्रान्निर्गतेष्वपि प्रव्रज्यां गृह्णाति न पुन कालक्षेपं करोतीति भावः । “पुनो दाई" ति 'पुनः' 'भूयोऽपि यदा किल ते साधवः समायास्यन्ति तदा प्रव्रजिष्यामि' इति कश्चित् शैक्षो ब्रूयात् । “जावज्जीव पराजिए "त्ति 'यदा यदाऽहं प्रव्रजितुमभिलषामि तदा तदा नवैर्नवैर्विघ्नैरुत्तिष्ठमानैर्यावज्जीमहं पराजितः, अत एव मे साम्प्रतमपि व्याघात उत्थितो येवं साधवो विहारं कृतवन्तः' इति कश्चिद् ब्रूयात् । एषां शैक्षाणामेकतरे प्रथमद्वितीयदिवसयोः प्रव्रजितुमुपस्थिते 'ज्ञायके' रूपशब्दादिज्ञे 'कथं' केन प्रकारेण 'कल्प:' पूर्वसाधुसमीपप्रेषणादिको विधिर्विधीयते ? |
[भा. ४६६०]
जाणाविए कहं कप्पो, वत्थव्वे वाताहडे ति य ।
उज्जू अनुजु या वि, कहं कप्पोऽभिधारणे ॥
वृ तथा वास्तव्ये वा वाताहृते वा 'त्वमस्माकं नाभवसि इति ज्ञापिते कथं कल्पो भवेत् ? । ऋजुर्नाम-य आचार्यादिरेतान् शैक्षान् पूर्वसाधुसमीपे प्रहिणोति, तद्विपरीतोऽनृजुः, एतयोश्चिन्ता कर्त्तव्या । अभिधारणम्-एकमनेकान् वा साधून् मनस्याधाय शैक्षस्य गमनम्, तत्र कथमाभाव्याS नाभाव्यतायाः कल्पः क्रियते ? ॥
५९
[भा.४६६१] एगग्गा अतिच्छंते, कहं कप्पो विहिज्जते । दुविहा मग्गणा सीसे, एगविहा य पडिच्छए ।
वृ- " एगग्गामे "त्ति यत्र ग्रामे क्षेत्रिकाः स्थितास्तत्रैव केनापि धर्मकथिना कोऽपि मित्याष्टिरुपशमितः स कस्याऽऽभवति ? । “अइच्छंते"त्ति कमप्याचार्यमभिधार्यातिक्रामति विवक्षित क्षेत्रमतीत्याग्रतो गच्छति शैक्षे कथं कल्पो विधीयते ? । तथा 'शिष्ये' शिष्यविषया 'द्विविधा' सज्ञातका - सज्ञातकशैक्षभेदाद् द्विप्रकारा मार्गणा भवति । प्रतीच्छके च 'एकविधा' केवलसंज्ञातकविषया मार्गणा ॥
[भा. ४६६२ ]
पडिसेहियवच्चंते, कहं कप्पो विहिज्जइ ।
संगारादिन्नते यावि, कहं कप्पो विहिज्जइ ।
वृ- "पडिसेहियवचंते "त्ति भगवता प्रतिषिद्धम्-ग्लानप्रतिचरणाव्यापृतैः शैक्षो न प्रब्राजनीयः, ये तु तं प्रव्राज्यान्यत्र प्रेषयन्ति तैः प्रेषिते तस्मिन् गच्छान्तरं व्रजति कथं कल्पो विधीयते ? | सङ्गारः-सङ्केतः स दत्तो यस्य शैक्षस्य स सङ्गारदत्तः, आहिताग्न्यादेराकृतिगणत्वात् क्तान्तस्य परनिपातः, तस्मिन्नपि कथं कल्पो विधीयते ? इति । एतत् सर्वं निरूपणीयमिति द्वार श्लोकचतुष्टयसमासार्थः ।। अथ विस्तरार्थं विभणिषुः प्रथमतो ये पूर्वमभयज्ञादयः पुरुषा उक्तास्तद्विषयकवक्ष्यमाणप्रेषणभेदसङ्गहायाह
[भा. ४६६३] चत्तारि नवग जाणंतगम्मि जाणाविए वि चत्तारि । अभिधारणम्मि एए, खित्तम्मि विपरिणया वा वि ॥
वृ- यः पूर्वमुभयज्ञ - रूपज्ञादिभेदात् चतुर्धा ज्ञायक उक्तः तत्र प्रत्येकं चत्वारः 'नवका: ' प्रेषणविषया नवप्रकाररूपा भवन्ति । तथा योऽजानानः सन् साधुभिः 'त्वमस्माकं नाभवसि किन्तु पूर्वसाधूनाम्' इत्येवं ज्ञापितस्तत्रापि चत्वारो नवकाः । अभिधारणं नाम-मनसिकरणम्, ततः क्षेत्रिकं मनसिकृत्य यदि 'एते' अव्याघातदय आगतास्तदा विपरिणता अपि क्षेत्रस्वामिन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org