________________
५४
बृहत्कल्प-छेदसूत्रम् -३-३/१०३
A
[भा.४६३६] असतीय भेसणं वा, भीया वा भोइयस्स व भएणं।
साहित्य दारमूले, पडिनीय इमेसु विछुभेजा। वृ-अथ नास्ति तत्र भोगिकोऽस्ति वापरंनदापयति तदा साधवोभेषणं कुर्वन्ति । ततो भीता वा भोगिकस्य वा भयेन द्वारमूले 'संहरन्ति' संस्तारकं स्थापयन्तीत्यर्थः । यस्तु प्रत्यनीकः सः “एतेष्वपि पृथिव्यादिषु कायेषु प्रक्षिपेत्, यद्यस्माकंनजातस्तत एतेषामपिमा भूत् इति कृत्वा। एष पुरातनगाथासमासार्थः। अथैनामेव व्याख्याति[भा.४६३७] भोइयमादीनऽसती, अदवावेंते व बिंति जनपुरओं।
मुन्झीहामो सकजे, किह लोगमयाइंजाणंता ।। वृ-भोगिकादीनामभावे तेषु वा संस्तारकमदापयत्सु साधवो बहुजनस्य पुरतो ब्रुवते-वयं लोकमतानिजानन्तः स्वकार्ये कथं मुह्यामहे ?, ये हि लोकस्य नष्टं विनष्टं विस्मृतं वा जानीमस्ते कथमात्मीयं न ज्ञास्यामः? इति भावः, अतो यद्यस्माकं संस्तारकं नार्पयथ ततो वयंजनपुरतस्तं हस्ते गृहीत्वा दापयिष्यामः ।।अथ-यूयं न प्रतीय ततः पश्यथ-. [भा.४६३८] पेहुणतंदुल पच्चय, भीया साहति भोइगस्सेते।
साहस्थि साहरंति व, दोण्ह विमा होउ पडिणीए । पृ-तन्दुला द्विविधाः क्रियन्ते-एकेपेहुणमिश्रिता अपरे केवलाएवापेहुणं नाम-मयूराङ्गागिरः। तत एकः साधुः साधूनां मध्यादपसरति गृहस्थांश्च भणति-युष्माकं मध्यादेकः किमप्युपकरणं गृह्णातु । ततो गृहीते सति स साधुरागत्य भणति-पङ्क्त्या सर्वेऽपि तिष्ठत । स्थितेषु च स नैमित्तिकसाधुरुदकं तेषामजली ददाति, ततो नैमित्तिकसाधुस्तानि पेहुणानि ईष्ट्वा भणतिअनेन गृहीतमिति।एवंप्रत्यये उत्पन्ने भीताश्चिन्तयन्ति-नूनमेतेएवं ज्ञात्वा भोगिकस्य कथयिष्यन्ति, राजानं वा प्रत्याययिष्यन्ति। एवं विचिन्त्य-नूनमेते एवं ज्ञात्वा भोगिकस्य कथयिष्यन्ति, राजानं वा प्रत्याययिष्यन्ति। एवं विचिन्त्य स्वहस्तेन प्रतिश्रयद्वारमूले संस्तारकं स्थापयन्ति । प्रत्यनीका वा 'द्वयोरपि वर्गयोः' अस्माकममीषां च मा भूदिति बुध्या एतेषु गत्वा संहरन्ति ॥ [भा.४६३९] पुढवी आउक्काए, अगड वणस्सइ-तसेसुसाहरइ।
धितूण यदायब्बो, अदिट्ठ दड्डे य दोच्चं पि॥ वृ-कश्चित्प्रत्यनीकः साधुसामाचारीकोविदः सचित्तपृथिव्यकाय-त्रसेषुप्रक्षिप्तं न ग्रहीष्यन्ति' इति बुध्या तेषु 'अगडे वा' गर्तायां प्रक्षिपति । यद्यप्येतेषु प्रक्षिप्तस्तथापि ततो गृहीत्वा संस्तारकस्वामिनो दातव्यः । अथ प्रयलेन गवेषितोऽपिन कुत्रापिष्टः, यद्वा स प्रत्यनीकतया तेन दग्धः ततः “दोच्चं पि"ति द्वितीयमपि वारमवग्रहमनुज्ञापयेत्॥
परः प्राह-यथाऽहं भणामि तथा द्वितीयावग्रहोऽनुज्ञापनीयः । कथम् ? इति चेद् उच्यते-स संस्तारकस्वामी न ज्ञाप्यते, यथा-नष्टः संस्तारकः, किन्तु गत्वा भणितव्यम्-देहि तं संस्तारक निर्देजमिदानीम्, एष द्वितीयावग्रह उच्यते । गुरुराह[भा.४६४०] दिट्ठत पडिहणेत्ता, जयणाए भद्दतो विसजेती।
___ मग्गंते जयणाए, उवहिग्गहणे ततो विवाओ।। दृष्टान्तो नाम-नोदकेन स्वमत्या योऽभिप्रायो दृष्टः तं 'प्रतिहन्य(त्य) निराकृत्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org