________________
उद्देशक : ३, मूलं- १०३, [ मा. ४६३०]
[ भा. ४६३०]
एए उ दवावेंती, अहव भणेज्जा स कस्स दायव्वो । अमुगस्स त्ति य भणिए, वच्चह तस्सऽप्पिणिस्सामो ॥
५३
वृ- 'एते' भोगिकादयो यदि दापयन्ति ततो लष्टम् । अथवा ते भणेयुः स संस्तारकः कस्य दातव्यः ? इति ततः साधुभिः 'अमस्य' इति भणिते ते ब्रुवते वरजत यूयम्, वयमेव तस्यार्पयिष्याम इति ॥
[ भा. ४६३१ ] जति सिं कज्जसमत्ती, वयंति इहरा उ घेत्तु संथारं दिट्ठे नाते चेवं, अदिट्ठऽनाए इमा जयणा ॥
वृ- यदि "सिं" तेषां साधूनां तेन संस्तारकेण कार्यसमाप्तिः सञ्जाता मासकल्पश्च पूर्णस्ततो भोगिकादिभिर्विसर्जिता व्रजन्ति, 'इतरथा' संस्तारककार्येऽसमाप्तेऽ पूर्णे मासकल्पे तं वाऽन्यं वा संस्तारकं गृहीत्वा परिभुञ्जते । एवं दृष्टे संस्तारके ज्ञाते वा स्तेने विधिरुक्तः । अदृष्टेऽज्ञाते चेयं यतना भवति ॥
[भा. ४६३२]
विजादीहि गवेसण, अहिडे भोइयस्स व कधेति । जो भद्दओ गवेसति, पंते अनुसट्ठिमाईणि ।।
वृ-विद्यादिभिः संस्तारकस्तेनस्य गवेषणा कर्त्तव्या । अथ न सन्ति विद्यादयस्ततोऽदृष्टेऽज्ञाते स्तेने भोगिकस्य कथयन्ति । ततो यो भद्रको भवति स स्वयमेव गवेषयति, यस्तु प्रान्तः स स्वयं न गवेषयति, ततस्तत्रानुशिष्ट्यादीनि पदानि प्रयोक्तव्यानि एषा । पुरातन गाथा, अत एनां व्याख्यानयति
[ भा. ४६३३]
आभोगिनीय पसिणेन देवयाए निमित्ततो वा वि । एवं नाए जयणा, सच्चिय खंतादि जा राया ॥
वृ- आभोगिनी नाम विद्या सा भण्यते या परिजपिता सती मानसं परिच्छेदमुत्पादयति, सा यद्यस्ति ततस्तया यन संस्तारको गृहीतः स आभोग्यते । एवं 'प्रश्नेन' अङ्गुष्ठ-स्वप्नप्रश्नादिना, देवतया वा क्षपकपृष्ट्या, निमित्तेन वा अविसंवादिना तं स्तेनं जानन्ति । एवं ज्ञाते सति सैव यतना कर्त्तव्या या खन्तादिगृहीते संस्तारके भणिता यावदपश्चिमो राजा । एतेषामभावे विधिमाह[ भा. ४६३४ ] विज्जाद सई भोयादिकहण केन गहिओ न जाणऽम्हे ।
हो दुरायहत्थो, भद्दी आमं ति मग्गति य ॥
वृ-विद्यादीनामभावेन ज्ञायते केनापि गृहीत इति ततो भोगिकादीनां कथयन्ति-संस्तारकोऽस्माकं नष्ट वर्त्तते यूयं तं गवेषयत । भोगिकः प्राह-केन गृहीतः ? । साधवो ब्रुवते न जानीमो वयम् । भोगिकः प्राह-अज्ञायमानं कथं गवेषयामि ? | साधुभिर्वक्तव्यम् दीर्घो हि राजहस्तो भवति, तेन हि गंवेष्यमाणः सुखेनैव स्तेनः प्राप्येत । ततो यो भद्रको भवत सः 'आमं' सत्यमिदम् इति भणित्वा मार्गयति ।। प्रान्तः पुनरिदमाह
[ भा. ४६३५ ] जाणह जेन हडो सो, कत्थ विमग्गामि णं अजाणतो । इति पंते अनुसट्ठी- धम्म- निमित्ताइ तह चेव ॥
वृ- यः प्रान्तः स ब्रूयात्- 'जानीत यूयं येनासौ संस्तारको हृतः, अजानानस्तु कुत्राहं भार्गयामि अदेशकवद् अन्धवद्वा ?' इति प्रान्ते ब्रुवाणेऽनुशिष्टि धर्मकथा-निमित्तादि तथैव प्रयोक्तव्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org