________________
५२
बृहत्कल्प-छेदसूत्रम् -३-३/१०३
[भा.४६२५] अन्नं पिताव तेनं, इह परलोकेऽपहारिणामहियं ।
परओ जायितलद्धं, किं पुन मनुप्पहरणेसु॥ वृ-'अन्यदपि प्राकृतजनविषयमपि यत् स्तैन्यं तत् तावदिह परलोके चाऽपहारिणामहितं भवति, किं पुनः परतो याचितं यद् लब्धं तदपहियमाणं 'मन्युप्रहरणेषु' साधुषु ? किमुक्तं भवति ?-मन्यु-क्रोधस्ताहरणाः-तदायुधा एव ऋषयः, ततस्तेषां हियमाणमिह-परलोकयोः सुतरामहितं भवति ॥ एवमप्युक्तो यदि न दद्यात्ततः[भा.४६२६] खंते व भूणए वा, भोइग-जामाउगे असइ साहे।
सिट्टम्मिजं कुणइ सो, मग्गण दानंच ववहारे ।। वृ-"खंते"त्ति पिता तेन गृहीते पुत्रस्य निवेद्यते । भ्रूणकः-पुत्रस्तेन गृहीते पिता प्रज्ञाप्यते । यद्वा या तस्य 'भोजिका' भार्या यो वा जामाता ताभ्यामसौ भाणयितव्यः । “असइ साहे"ति सर्वथाऽपि यदि न ददाति तदा महत्तरादीनां निवेद्यते । तस्य 'शिष्टे' कथिते यदसौ महत्तरादि करोति तत् प्रमाणम् । एवं प्रणष्टस्य संस्तारकस्य मार्गणम् । एवमप्यलभ्यमाने प्रान्तस्य संस्तारकस्वामिनः “दानं" ति वेतनं दीयते, व्यवहारो वा करणं प्रविश्य कर्तव्य इति सनहगाथासमासार्थः ।। अथैनामेव विवृणोति(भा.४६२७) भूणगगहिए खंतं, भणाइ खंतगहिते य से पुतं।
. असतित्ति न देमाणे, कुणति दवावेति वन वाउ॥ वृ-भ्रूणकेन गृहीतं 'खन्तं पितरं 'भणति' प्रज्ञापति । खन्तेन तु गृहीते "से" तस्य पुत्रं भणति। उपलक्षणमिदम्, तेन भोजिकादिनाऽपि भाणयति । “असई"त्ति एतद् ग्रहणपदम् अतो व्याचष्टे-“न देमाणे"त्ति एवमप्यददाने भोजिकादेर्निवेद्यते। ततो यदसौ बन्धनरोधनादि करोति दापयति वा न वा तत् प्रमाणम् ॥ [भा.४६२८] भोइय उत्तरउत्तर, नेयव्वं जाव पच्छिमो राया।
दानं विसज्जणं वा, दिट्ठमदिढे इमं होइ॥ वृ.प्रथमं भोगिकस्य निवेद्यते । यद्यसौ न दापयति ततो यस्तत्र देशारक्षकः स ज्ञाप्यते । एवमुत्तरोत्तरं तावद् नेतव्यम् यावदपश्चिमो राजा । ततो “दानं"ति भोजिकादयश्चौरसकाशाद् गृहीत्वा साधूनां संस्तारकं दधुः । “विसजगंव"त्ति यद्वा ते भोगिकादयो भणेयुः-गच्छत यूयम्, वयं संस्तारकं संस्तारकस्वामिनः समर्पयिष्याम इति । एष विधिद्दष्टे संस्तारकस्तेनके मन्तव्यः । अहटे 'इदं वक्ष्यमाणं भवति॥अथैनामेव गाथां व्याचष्टे[भा.४६२९] खंताइसिट्ठऽदिंते, महतर किच्चकर भोइए वा वि।
देसारखियऽमचे, करणनिवेमा गुरूदंडो।। वृ- “खंत"त्ति पिता तदादीनामनन्तरोक्तनीत्या शिष्टे-कथितेऽप्यददाने 'महत्तरस्य' ग्रामप्रधानपुरुषस्य कधयन्ति । “कृत्यकरः' ग्रामकृत्ये नियुक्तः भोगिकः' ग्रामस्वामी तयोर्वा कथयन्ति । 'देशारक्षकः' महाबलाधिकृतः 'अमात्यः' राजमन्त्री तयोर्वा यथाक्रमं निवेद्यते । तथाऽप्यददाने करणेऽपि निवेदयन्ति । नृपस्य तुन निवेद्यते, 'गुरु' गरीयान् सर्वस्वहरणादिको दण्डो भवेदिति कृत्वा॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org