________________
५१
उद्देशकः३, मूलं-१०३, [भा. ४६१९] न वा बालो ग्लानोऽव्यक्तो वा वसतिपालः स्थापनीयः ।। [मा.४६२०] संथारविप्पनासो, एवं खुन विजतीति चोएति ।
सुत्तं होइ य अफलं, अह सफलं उभयहा दोसा ।। वृ-'नोदयति' परः प्रेरयति-एवं 'खुः' अवधारणे सुरक्षिते क्रियमाणे संस्तारकस्य विप्रणाशो न विद्यते, तथा च "सेज्जासंथारए विप्पणसिज्जा" इत्यादिलक्षणं सूत्रमफलं भवति; अथ सूत्रं सफलं मनध्वेततः ‘बालादिदोषरहितो वसतिपालः स्थापनीयः' इति यदुक्तं तदफलं प्राप्नोति; एवमुभयथाऽपि दोषा भवन्ति ॥ सूरिराह-यथा द्वयमपि सफलं भवति तथाऽभिधीयते[भा.४६२१] निजंताऽऽनिजता, आयावणनीणितो व हीरेजा ।
तेन-ऽगनि-उदगसंभम, बोहिकभय रट्ठउहाणे॥ वृ- प्रत्यर्पणार्थं नीयमानः संस्तारको राजपुरुषैरन्तरा हियेत, “आनिजंतो"त्ति गृहपतिगृहादानीयमानो वा राजपुरुषैर्बलादपहियेत, आतापनम्-आतपे संस्तारकस्य प्रदानं तदर्थं वा बहिर्निष्काशितः केनापि हियेत, स्तेना-ऽग्न्युदकसम्भ्रमेषुवाबोधिकभयेवा राष्ट्रस्य-देशस्य यद उत्थानम्-उद्वसीभवनं तत्र ह्रियेत॥ [भा.४६२२] पडिसेहेन व लद्धो, पडिलेहणमादिविरहिते गहणं ।
अनुसठ्ठी धम्मकहा, वल्लभो वा निमित्तेणं ॥ ध-प्रतिषेधो नाम-संस्तारको मार्यमाणस्तेन स्वामिना 'नाहं प्रयच्छामि' इति प्रतिषिद्धः ततःसकेनचिद् भद्रकणानुशिष्टः-किन प्रयच्छसि? इति;सपाह-विप्रणाशभयात; इतरो ब्रवीतिनामीषां हस्ताद् विप्रणश्यति; एवंविधेन प्रतिषेधेन वा लब्धः स प्रयलेन रक्ष्यमाणोऽपि प्रत्युपेक्षणानिमित्तं बहिनीतः, साधुश्च विस्मृतरजोहरणार्थं मध्ये प्रविष्टः, स च 'उत्कृष्टोऽयम्' इति कृत्वा विरहितं मत्वा केनापि गृहीतः, आदिग्रहणाद् उपाश्रयस्यान्तरपि राजवल्लभेन सृष्ट्वा बलामोटिकया ग्रहणं कृतम् । एवं विप्रणष्टे सति येन हृतस्तस्य पाश्र्वाद मार्गयितव्यः । अथ मार्गितोऽपि न ददाति ततोऽनुशिष्टि क्रियते। तथाप्यप्रयच्छतिधर्मकथा कर्तव्या । एवमप्यददाने यो द्रमकस्तस्यम भापनं क्रियते । यस्तु राजवल्लभः स निमित्तेनावर्तनीयः॥
कथं पुनरनुशिष्टि क्रियते ? इत्युच्यते[भा.४६२३] दिन्नो भवविहेनेव एस नारिहसि ने न दाउंजे।
अन्ने वि ताव देयो, दे जाणमजाणयाऽऽनीयं ॥ वृ-य एष भवता संस्तारको गृहीतः स भवद्विधेनैव विशिष्टपुरुषेण दत्तः, ततः “ने" असमाकं न नार्हसि दातुम्, अन्योऽपि तावद्भवता संस्तारको देयः, किं पुनर्योऽन्यदत्तः?, ततो जानताऽजानता वा आनीतमममस्माकं प्रयच्छ ।। एवमनुशिष्टया यदि न प्रयच्छति ततोऽयं विधिः[भा.४६२४] मंत निमित्तं पुन रायवल्लभे दमग भेसणमदेते।
धम्मकहा पुन दोसु वि, जति अवराहो दुहा वऽधिओ॥ वृ-राजवल्लभेऽददति मन्त्री निमित्तं वा प्रयोक्तव्यम्।द्रमकस्य तुभेषणं कर्तव्यम् । धर्मकथा पुनर्द्वयोरपि द्रमक राजवल्लभयोः प्रयुज्यते, यथा-यतयः-साधवस्तेषामुपरणापहारादिरपराधः 'द्विधाऽपि' इहलोके परलोके चाहितो भवति ॥ इदमेव व्यनक्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org