________________
बृहत्कल्प-छेदसूत्रम् -३-३/१०३
विप्पणसिजा से य अनुगवेसियब्वे, सिया से अ अनुगवेस्समाणे लभेज्जा तस्सेव पडिदायव्वे, सिया से अ अनुगवेस्समाणे नो लभिना एवं से कप्पइ दोघं पि उग्गहं अनुन्नवित्ता परिहारं परिहरितए ।
[भा. ४६१५]
५०
दोगयरं न गवेसियं पुव्वसामिणो देंति । अपमादट्ठा अहिए, हिए य सुत्तस्स आरंभो ॥
वृ- 'द्वयोः' प्रातिहारिक-सागारिकसत्कयोः परिशाट्यपरिशाटिनोर्वा संस्तारकयोरेकतरं संस्तारकं नष्टं गवेषयित्वा पूर्वस्वामिनः प्रयच्छन्ति, अतः 'अहृते' अनष्टेऽप्रमादार्थं हते च गवेषणादिसामाचारीप्रदर्शनार्थमस्य सूत्रस्यारम्भः क्रियते ।। अनेन सम्बन्धेनायातस्यास्य व्याख्या'इह' अस्मिन् मौनीन्द्रे प्रवचने स्थितानां 'खलुः' वाक्यालङ्कारे निर्ग्रन्थानां वा निर्ग्रन्थीनां वा प्रातिहारिको वा सागारिकसत्को वा शय्यासंस्तारकः 'विप्रणश्येत्' विविधैः प्रकारैः प्रकर्षेण रक्ष्यमाणोऽपि नश्येत्, स च 'अनुगवेषयितव्यः' विप्रणाशानन्तरं पृष्ठत एव गवेषयितव्यः । 'स्याद्' भवेत् स चानुगवेष्यमाणो लभ्येत तस्यैव संस्तारकस्वामिनः 'प्रतिदातव्यः' प्रत्यर्पणीयः । स्यात् स चानुगवेष्यमाणो नो लभ्येत तत एवं "से" तस्य कल्पते 'द्वितीयमप्यवग्रहमनुज्ञाप्य ' एकं तावत् प्रथमं यदा गृहीतस्तदाऽनुज्ञापितः, ततो विप्रनष्टः सन् गवेष्यमाणोऽपि यदा न लब्धस्तदा संस्तारकस्वामिनः कथिते सति यदसावन्यं संस्तारकं ददाति यद्वा स एव संस्तारकस्वामिना मृग्यमाणो लब्धः ततस्तद्विषयं द्वितीयमवग्रहमनुज्ञाप्य 'परिहारं' धारणापरिभोगलक्षणं 'परिहत्तु' धातूनामनेकार्थत्वात् कर्तुमिति सूत्रार्थः । अथ निर्युक्तिविस्तरः[ भा. ४६१६] संधारो नासिहिती, वसहीपालस्स मग्गणा होति ।
सुनाई उ विभासा, जहेव हेड्डा तहेव इहं ॥
वृ-शून्यायां वसती कृतायां संस्तारको नयतीति मत्वा प्रथमत एव वसतिरशून्या कर्तव्या येनासौ न नश्यति, अत एवात्र वसतिपालस्य मार्गणा भवति । कथम् ? इत्याह- "सुन्नाई' इत्यादि, यथैव ‘अधस्तात्' पीठिकायां शय्याकल्पिकद्वारे “सुन्ने बाल गिलाणे" इत्यादिका विभाषा कृता तथैवेहापि मन्तव्या ॥ स्थानाशून्यार्थं पुनरिदमाह
[मा. ४६१७]
पढमम्मि य चउलहुग, सेसेसुं मासियं तु नाणत्तं ।
दोहि गुरू एक्केणं, चउथपदे दोहि वी लहुगा ॥
वृ- 'प्रथमे स्थाने' वसतेः शून्यताकरणलक्षणे चतुर्लघुकाः 'द्वाभ्यां' तपः-कालाभ्यां गुरुकाः । 'शेषेषु' बाल-ग्लाना ऽव्यक्तस्थापनलक्षणेषु त्रिषु लघुमासिकम् । तच्च बालस्थापने तपसा गुरुकम्, लानस्थापने कालेन गुरुकम्, 'चतुर्थपदे' अव्यक्तस्थापनात्मके 'द्वाभ्यामपि ' तपः- कालाभ्यां लघुकम् । अत्र दोषानुपदर्शयति
[ भा. ४६१८] मिच्छत्त बडुग चारण-भडाण मरणं तिरिक्ख मनुयाणं । आएस बाल निक्केयणे य सुन्ने भवे दोसा ॥
[भा. ४६१९ ] बलि धम्मकहा किड्डा, पमज्जणाऽऽवरिसणा य पाहुडिया । खंधार अगनि भंगे, मालवतेना य नाई य ॥
वृ-गाथाद्वयं पीठिकायां सविस्तरं व्याख्यातम् । यत एते दोषा अतो वसति शून्या न कर्त्तव्या,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International