SearchBrowseAboutContactDonate
Page Preview
Page 1100
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ३, मूलं-१०२, [भा. ४६०९] अविकरणं कट्ठ संपव्वइत्तए ।। [भा.४६१०] संथारगअहिगारो, अहवा पडिहारिगा उ सागारी । नीहारिमो अनीहारिमो यइति एस संबंधो ।। वृ-संस्तारकस्याधिकारोऽयमनुवर्तते, तत इदमपि संस्तारकसूत्रमारभ्यते । अथवा पूर्वसूत्रे प्रातिहारिकः संस्तारक उक्तः, अत्रतुसागारिकसत्कोऽभिधीयते।यद्वा निहारिमोअनि रिमश्चेति द्विधा संस्तारकः । तत्र निर्हरणम्-अन्यत्र नयनं तेन निर्वृत्तो निर्हारिमः, अन्यत्र नीत्वा प्रत्यर्पणीय इत्यर्थः । तद्विपरीतोऽनिहारिमः । तत्र निर्हारिम उक्तः, इह पुनरनिरिम उच्यते । एष सम्बन्धः। अथ सूत्रस्य व्याख्या-नो कल्पते निर्ग्रन्थानां वा निग्रन्थीनां वा सागारिकः-शय्यातरस्तस्य सत्कं शय्यासंसतारकम् ‘आदाय' गृहीत्वा 'अविकरणं कृत्वा' अविकरणं नाम-यत् साधुना करणं कृतम्-तृणानां प्रस्तरणं कम्बिकानां बन्धनं फलकस्य स्थापनम्, तद् अनपनीय 'सम्प्रव्रजितुं' विहर्तुमिति सूत्रार्थः ॥अथ नियुक्त्या विस्तारयितुमाह[भा.४६११] सागारिसंति विकरण, परिसाडिय अपरिसाडिए चेव। तम्मि वि सोचेव गमो, पच्छित्तुस्सग्ग-अववाए ।। वृ- सागारिकसत्कस्यसंस्तारकस्य विकरणं कृत्वा गन्तव्यम् । स च परिशाटी अपरिशाटी चेति द्विविधः । तत्रापिस एव प्रायश्चित्तोत्सर्गा-ऽपवादेषु गमो मन्तव्यः । अविकरणे चेमे दोषाः [भा.४६१२] किड्ड तुअट्टण बाले, नयने डहणे य होइ तह चेव। विकरण पासुद्धं वा, फलग तणेसुंतु साहरणं ॥ वृ-बालानां-कल्पस्थकानां क्रीडने त्वग्वरत्तनेऽन्यत्र नयने दहने च दोषास्तथैव भवन्ति ततो विकरणं कर्त्तव्यम्। कथम्? इत्याह-फलकस्य पार्श्वतःस्थापनमूर्द्धकरणंवा, तृणेषुतु संहरणम्' एकत्र मीलनम्, तुशब्दात् कम्बिकासु बन्धनच्छोटनम्, एतद् विकरणम् ।। इदमेव व्याख्याति[भा.४६१३] पुंजे वा पासे वा, उवरि पुंजेसु विकरण तणेसु । फलगंजत्तो गहियं, वाघाए विकरणं कुजा ॥ वृ-यानि तृणानि पुञ्जाद् गृहीतानि तानि पुजेष्वेव निक्षेपणीयानि, यानि पार्श्वतस्तानि पार्वे स्थापनीयानि, एवं तृणेषु विकरणं भवति । फलकं यतो गृहीतं तत्रैव नीत्वा यदि पार्श्वतः स्थापितमासीत् तदा पार्वे, अथोर्ध्व स्थापितमासीत् तत ऊर्ध्वं स्थाप्यते । कम्बिका अपि यतो गृहीतास्तत्र बन्धान् छोटयित्वा निक्षेपणीयाः । अथ व्याघातेन तत्र नेतुं न पार्यन्ते तदा तत्रैव स्थापयित्वा नियमाद् विकरणं कुर्यात् ।। .. [भा.४६१४] बितियमहसंथडे वा, देसुट्ठाणादिसू व कजेसु । एएहि कारणेहिं, सुद्धो अविकरणकरणे वि॥ वृ-द्वितीयपदे यथासंस्तुते विकरणं न कुर्यात् न च प्रायश्चित्तमाप्नुयात् । यथसंस्तृतं नामनिष्पकम्पं चम्पकपट्टादि । 'देशोत्थानादिषु वा' पूर्वसूत्रोक्तेषु कार्येषु विकरणं न कुर्यात् । एतैः कारैरविकरणकरणेऽपि शुद्धः ।। मू. (१०३) इह खलु निग्गंधाण वा निग्गंधीण वा पाडिहारिएका सागारियसंतिएवा सेजासंथारए (2014 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy