________________
उद्देशकः ३, मूलं-९९, [भा. ४५७२]
- गाथायाम् अधीकारके च चतुर्लघु, पुस्तके चतुर्गुरु, अक्षरशिक्षणे षड्लघु, स्वररटने षड्गुरु । अथवा तपः-कालविशेषिताश्चतुर्लधुकाः, तद्यथा-गाथा-ऽर्थीकारकयोस्तपः-कालाभ्यां लघुकाः, पुस्तके कालेन गुरुकाः, अक्षरेषु तपसा गुरुकाः, खररटने तपसा कालेन च गुरुकाः । 'अधिकरणंच कलहस्तेन समंभवति, उत्तरोत्तराः' उक्तिप्रत्युक्तीः कुर्वाणस्य च तस्य भिक्षाया देशकालः स्फिटति, तस्मिन् स्फिटितेपर्यटन्नेषणायाः प्रेरणं कुर्यात, अकालचारिणश्च शङ्कादयो दोषा भवन्ति॥ [भा.४५७३] वामद्दति इय सो जाव तेन ता गहियभोयणा इयरे।
अच्छंते अंतरायं, एमेव य जो पडिन्नत्तो।। वृ-यावदसौ तेन सममुत्तरप्रत्युत्तरिकां कुर्वन् 'व्यामृद्राति' व्याक्षेपेण वेलां गमयति तावदितरे साधवो गृहीतभोजनाः सन्त आसते, ततोऽन्तरायदोषः । एवमेव च यो ग्लानः 'प्रतिज्ञप्तः' 'त्वद्योग्यं प्रायोग्यमध मया आनेतव्यम्' इत्यभ्यर्थितः तस्मिन्नपि तावन्तं कालं बुभुक्षिते तिष्ठति तस्य साधोरन्तरायं भवति॥ [भा.४५७४] कालाइक्कमदाने, होइ गिलाणस्स रोगपरिवुड्डी।
परितावऽनगाढाती, लहुगाती जाव चरिमपदं ।। वृ-कालातिक्रमेण च ग्लानस्य भक्त-पानदाने रोगपरिवृद्धिर्भवति । ततश्च यदसावनागाढपरितापनादिकं प्राप्नोति तत्र चतुर्लघुकादि प्रायश्चित्तं यावत् कालगते 'चरमपदं पाराञ्चिकम् । द्वितीयपदे गोचरप्रविष्टोऽपि परेण पृष्टः सन् कथयेत् ।। किं कारणम् ? इति चेद् उच्यते[भा.४५७५] किं जाणंति वरागा, हलं जहिताण जे उ पव्वइया ।
एवंविधो अवन्नो, मा होहिइतेन कहयंति॥ वृ-यदा परेण प्रश्निता अपि न कथयन्ति तदा स चिन्तयति-किमेते वराका जानन्ति ये हलं परित्यज्य प्रव्रजिताः ? । एवंविधोऽवर्ण प्रवचनस्य मा भूत् तेन कारणेन कथयन्ति । अथ "एगनाएण वा" इत्यादिसूत्रपदव्याचिख्यासयाऽऽह[भा.४५७६] एग नायं उदगं, वागरणमहिंसलक्खणो धम्मो।
गाहाहिं सिलोगेहि व, समासतो तं पि ठिच्चाणं ।। वृ-परप्रश्नितेन विवक्षितार्थसमर्थनार्थमेकं ज्ञातमभिधातव्यम्, तत्रच उदकष्टान्तो भवति। 'व्याकरणं' निर्वचनम्, यथा-केनचिधर्मलक्षणं पृष्टस्ततः प्रतिब्रूयात्-अहिंसालक्षणो धर्म इति; अथवा गाथाभिः श्लोकैर्वा समासतो धर्मकथनं कर्त्तव्यम् । तदपि च स्थित्वा नोपविटेन न वा भिक्षां हिण्डमानेनेति नियुक्तिगाथासमासार्थः । अथैनामेव विवृणोति[भा.४५७७] नजइ अनेन अत्थो, नायं दिटुंत इति व एगटुं ।
वागरणं पुन जा जस्स धम्मता होति अत्थस्स ।। वृ- ज्ञायतेऽनेन दान्तिकोऽर्थ इति ज्ञातं ६ष्टान्त इति चैकार्थम् । व्याकरणं पुनर्या यस्य मोक्षादेरर्थस्य 'धर्मता' स्वभावस्तस्य निर्वचनम् ।। अथोदकष्टान्तो भाव्यते-एगो साहू उभामगभिक्खायरियाए अन्नं गाम वच्चइ । तत्थ अंतरा निहत्थो मिलितो । ते दो वि वच्चंता अंतरापहे उदगंउत्तिन्ना । सोअगारोगामं वच्चइ । तत्थ अंतरा मिहत्थो मिलितो। ते दो वि वचंता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org