________________
उद्देशक : ३, मूलं- ९८, [भा. ४५५४ ]
३७
‘क्लान्तः’ परिश्रान्तः सन् मूर्च्छद्वा प्रपतेद्वा; एवं कारणमुद्दिश्य कल्पते अन्तरगृहे स्थातुं वा यावत् कायोत्सर्ग वा कर्तुमिति सूत्रार्थः ॥ अथ भाष्यविस्तरः
[भा. ४५५५ ]
सब्भावमसब्भावे, दुण्ह गिहानंतरं तु सब्भावे । पास पुरोहड अंगन, मज्झम्मि य होतऽ सब्मावं ॥
वृ-गृहान्तरं द्विधा - गृहान्तरं द्विधा-सद्भावतोऽसद्भावतश्च । द्वयोर्गृहयोर्यद् 'अन्तरं' मध्यं तत् सद्भावगृहान्तरम् । यत्तु गृहस्य पार्श्वतः पुरोहडेऽङ्गणे गृहमध्ये वा तद् असद्भावगृहान्तरं भवति । एतस्मिन् द्विविधेऽपि भिक्षाद्यर्थं निर्गतस्य स्थानादि कर्तुं न कल्पते ॥
[भा. ४५५६ ]
कुटुंतर भित्तीए, निवेसन गिहे तहेव रच्छाए । ठायंतगाण लहुगा, तत्थ वि आणादिणो दोसा ||
वृद्वयोः कुड्ययोरन्तरे, "भित्तीए " त्ति शटित पतितस्याभिनवक्रियमाणस्य वा गृहस्य भित्तौ, 'निवेशने वा' त्रिप्रभृतीनां गृहाणामाभोगे, “गिहि” त्ति गृहपार्श्वे, 'रध्याया' प्रतीतायाम् एतेषु स्थानेषु तिष्ठतश्चतुर्लघुकाः, तत्राप्याज्ञादयो दोषा मन्तव्याः, तन्निमितं प्रायश्चित्तं प्रायश्चित्तं पृथग् भवतीति भावः ॥ तथा[भा. ४५५७ ]
खरए खरिया सुण्हा, नट्टे वट्टक्खुरे व संकिज्जा । खत्रे अगनिक्काए, दारे वति संकणा तिरिए ।
वृ- 'खरकः' दासः ‘खरिका' दासी 'सुषा' वधुः 'वृत्तखुरः' तरुङ्गमः, एतेषु नष्टेषु साधुः शङ्कयेत-यः श्रमणकः कल्पेऽत्र गृहान्तरे उपविष्ट आसीत् तेन हृतं भविष्यति, द्वारे वा श्रमणेनोद्घाटिते स्तेनः प्रविश्य हृतवनिति । " खनि” त्ति खत्रं केनचित् स्वातम् दत्तमित्यर्थः, अग्निकायो वा केनापि दत्तो भवेत्, द्वारेण वा प्रविश्य वृतिं वा छित्त्वा केनापि सुवर्णादिकमपहतं स्यात्, तिर्यग्योनीयो गो-महिषीप्रभृतिको हृतो भवेत्, तत्रापि शङ्कायां प्रहणनाऽऽकर्षणादयो दोषाः । यत एवमतो गृहान्तरे न स्थातव्यम् ॥ अथ सूत्रोक्तं द्वितीयपदं भावयति
[भा. ४५५८ ] उच्छुद्धसरीरे वा, दुब्बल तवसोसिते व जो होज्जा । थेरे जुन -महल्ले, वीसंभणवेस हतसंके ॥
बृ- उच्छुद्धं- रोगाघ्रातं शरीरं यस्य स उच्छुद्धशरीरः, वाशब्द उत्तरापेक्षया विकल्पार्थे, 'दुर्बलः ' अधुनोत्थितग्लानः, 'तपः शोषितो वा' विकृष्टतपोनिष्टप्तदेहो यो भवेत्, यो वा स्थविर: 'जीर्णः ' षष्टिवर्षातिक्रान्तजन्मपर्यायः सोऽपि यदि 'महान् ' सर्वेभ्योऽपि वृद्धतरः; एते विश्रामग्रहणार्थं गृहान्तरे तिष्ठेयुः । इह च व्याधितादय उत्सर्गतो भिक्षाटनं न कार्यन्ते, परम् आत्मलब्धिकादिकारणापेक्षया भिक्षामटतां प्रकृतसूत्रावतारो मन्तव्यः । स च व्याधितादिः 'विश्रम्भणवेषः ' संविग्नवेषधारी ‘हतशङ्कश्च’ हास्यादिविकारविकलतया असम्भावनीयव्यलीकशङ्कः सन् तत्र स्थानादीनि पदानि कुर्यात् ॥
[ भा. ४५५९ ]
अहवा ओसहहेउं, संखडि संघाइए व वासासु ।
वाघाए वा तत्थ उ, जयणाए कप्पती ठातुं ॥
वृ- सूत्रोक्तस्तावदपवादो दर्शितः, अथार्थतः प्रकारान्तरेणाप्युच्यते इत्यथवाशब्दार्थः । औषधहेतोर्दातारं गृहेऽस्वाधीनं प्रतीक्षते, सङ्घड्यां वा यावद् वेला भवति, सङ्काटकसाधुर्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org