________________
३८
बृहत्कल्प-छेदसूत्रम् -३-३/९८ यावद् भक्त-पानभृतं भाजनं वसतौ विभुच्य समागच्छति, वर्षासु वा गृहं प्रविष्टानां वर्षं निपतेत्, वधु-वराद्यागमनेन वा रथ्यायां व्याघातो भवेत् तावत् तत्रैव गृहान्तरे 'यतनया' वक्ष्यमाणया स्थातुं कल्पते । एष द्वाराथासमासार्थः ।। अथैनामेव विवरीषुरौषध-सङ्घडिद्वारे व्याख्यानयति[भा. ४५६०] पीसंति ओसहाई, ओसहदाता व तत्थ असहीणो । संखडि असतीकालो, उट्ठिते वा पडिच्छंति ॥
वृ-ग्लानस्यौषधानि पेष्टव्यानि, तत्र पेषणशिला प्रतिश्रये नेतुं न लभ्यते ततस्तेषामेवागारिणां गृहान्तरे स्थित्वा तानि पिंषन्ति । औषधमार्गणार्थं वा कस्यापि गृहं गताः, स चौषधदाता तदानीं तत्रास्वाधीनः, अतस्तं प्रतीक्षमाणैः स्थातव्यम् । सङ्घडी च क्वापि वर्तते, तत्र च 'असत्कालः ' अद्यापि देशकालो न भवति, गृहस्वामिना चोक्तम्-प्रतीक्षध्वं क्षणमेकं यावद् वेला भवति, ततस्तस्मिन्नन्यस्मिन् वा गृहे प्रतीक्षणीयम्; अगारिणो वा तदानीं गृहाङ्गणमापूर्य भोक्तुमुपविष्टाः सन्ति ततस्तान् उत्तिष्ठतः प्रतीक्षन्ते ।। सङ्घाटकद्वारमाह
[ भा. ४५६१] एगयर उभयओ वा, अलंभे आहच्च वा उभयलंभो । बसहिं जा नेएगो, ता इअरो चिट्ठई दूरे ॥
वृ- 'एकतरस्य ' भक्तस्य चा पानकस्य वा उभयोर्वा 'अलाभे' दुर्लभतायामित्यर्थ, “आहच्च” कदाचिदुभयमपि प्रचुरतरं लब्धम्, तेन च भाजनमापूरितम्, ततः सङ्घाटकस्य मध्याद् यावदेकः तद् भाजनं वसतिं नयति तावदितरः साधुरगारिणां दूरे भूत्वा तिष्ठति । एष चूर्ण्यभिप्रायः । पुनरयम्-भक्तस्य पानस्य वा उभयस्य वा दुर्लभस्य लाभः समुपस्थितः, मात्रकं च तस्मिन् दिने अनाभोगेन न गृहीतम् ततो यावदेको मात्रकं वसतेरानयति तावदितरस्तत्र गृहीणां दूरे तिष्ठतीति । वर्षाद्वारमाह
[भा. ४५६२] वासासु व वासंते, अनुन्नवित्ताण तत्थऽ नावाहे । अंतरगिहे गिहे वा, जयणाए दो वि चिट्ठति ॥
वृ- वर्षासु वा क्वापि गृहे गतानां वर्षे वर्षति गृहस्वामिनमनुज्ञाप्य तत्रानाबाधेऽवकाशेऽन्तरगृहे वा गृहे वा 'द्वावपि' सङ्घाटकसाधू 'यतनया' विकथादिपरिहारेण तिष्ठतः ॥ प्रत्यनीकद्वारमाह[ भा. ४५६३ ] पडिनीय निवे एंते, तस्स व अंतउरे गते फिडिए ।
दुग्गह निव्वहणाती वाघातो एवमादीसु ॥
वृ- प्रत्यनीकं समागच्छन्तं दृष्ट्वा यावदसौ व्यतिव्रजति तावदेकान्ते निलीय तिष्ठन्ति । नृपो वा सम्मुखमेति, तस्य वा नृपस्यान्तः पुरं 'गजो वा' हस्ती निर्गच्छति, ततो यावदसौ स्फिटितो भवति तावत् तत्रैवासते । "बुग्गह" त्ति दण्डिकौ द्विजौ या द्वौ परस्परं विग्रहं कुर्वन्तौ समागच्छतः, " निव्वहणं" ति वधु-वरं तद् महता विच्छर्देन समायाति, आदिशब्देन गौष्ठिका गीतं गायन्तः समायान्ति, एवमादिषु कारणेषु 'व्याधातः' तत्रैव प्रतीक्षणलक्षणो भवति ॥
तत्र च तिष्ठतामियं यतना
[ भा. ४५६४] आयाणगुत्ता विकहाविहीना, अच्छन्न छन्ने व ठिया विट्ठा । अच्छंत ते संतमहा निवि, भजंति वा सेसपदे जहुत्ते
वृ-आदानैः - इन्द्रियैर्गुप्ताः तथा विकथया-भक्तकथादिरुपया विशेषेण हस्तसंज्ञादेरपि परिहारेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org