SearchBrowseAboutContactDonate
Page Preview
Page 1086
Loading...
Download File
Download File
Page Text
________________ ३५ उद्देशकः ३, मूलं-९७, [भा. ४५४६] नवन्दनीयोऽसौ । किञ्च[भा.४५४७] लोए वेदे समए, दिट्ठो दंडो अकज्जकारीणं । . दम्मति दारुणा विहु, दंडेन जहावराहेन । तृ-'लोके' लोकाचारे 'वेदे' समस्तदर्शनिनांसिद्धान्ते समये राजनीतिशास्त्रे अकार्यकारिणां' चौरिकाद्यपराधविधायिनां 'दण्डः'असम्भाष्यता-शलाका-निर्वृहणादिलक्षणः प्रयुज्यमानो दृष्टः। कुतः पुनरसौ प्रयुज्यते? इत्याह-'दारुणाः' रौद्रास्तेऽपि यथापराधेन' अपराधानुरूपेण दण्डेन दीयमानेन ‘दम्यन्ते' वशीक्रियन्ते । अत इहापि मूलगुणाद्यपराधकारिणां कृतिकर्मवर्जनादिको दण्डः प्रयुज्यते । एतच्च कारणाभावमङ्गीकृत्योक्तम्, कारणेतु वाङनमस्कारादिकं वन्दनकपर्यन्तं सर्वमपि कर्त्तव्यम् ।। यत आह[भा.४५४८] वायाए कम्मुणा बा, तह चिट्ठति जह न होति से मजें। पस्सति जतो अवायं, तदभावे दूरतो वजे ।। कृ'यतः पार्श्वस्थादेः सकाशाद्कृतिकर्मण्यविधीयमाने अपायं' संयमा-ऽऽत्मविराधनादिकं पश्यतितंप्रति 'वाचा' मधुरसम्भाषणादिना 'कर्मणा' शिरःप्रणामक्रियया तथा चेष्टते यथा तस्य 'मन्यु' स्वल्पमप्यप्रीतिकं न भवति । अथावन्दनेऽपिसंयमोपघातादिरपायो न भवति ततस्तस्यअपायस्याभावेदूरतस्तंसुखशीलजनं वर्जयेत्, एष विषयविभागः कृतिकर्मकरणाऽकरणयोरिति भावः ॥ [भा.४५४९] एताई अकुव्वंतो, जहारिहं अरिहदेसिए मगे। न भवति पवयणभत्ती, अभत्तिमंतादिया दोसा ।। वृ-"एतानि' वाङ्नमस्कारादीनि पावस्थादीनां यथाऽहं यथायोग्यमहद्दशितेमार्गे स्थितः सन् कषायोत्कटतया यो न करोति तेन प्रवचने भक्ति कृता न भवति, किन्तु अभक्तिमत्त्वादयो दोषा भवन्ति; तत्राऽऽज्ञाभलेन भगवतामभक्तिमत्त्वं भवति, आदिशब्दात्स्वार्थपरिभ्रंशःचारिक हेरिकाद्यभ्याख्यानप्राप्ति बन्धनादयश्चदोषा भवन्ति ॥ कानिपुनस्तेषां वन्दने कारणानि? इत्याह[भा.४५५०] परिवार परिस पुरिसं, खित्तं कालंच आगमं नाउं । कारणजाते जाते, जहारिहं जस्स कायव्वं ॥ वृ-परिवार पर्षदं पुरुषं क्षेत्रं कालंच आगमं ज्ञात्वा तथा कारणानि-कुल-गणादिप्रयोजनानि तेषां जातं-प्रकारः कारणजातं तत्र 'जाते' उत्पत्रे सति 'यथार्ह' यस्य पुरुषस्य यद् वाचिकं कायिकं वा वन्दनमनुकूलं तस्य तत् कर्त्तव्यम् ।। अथ परिवारादीनि पदानि व्याचष्टे[भा.४५५१] परिवारो से सुविहितो, परिसगतो साहती व वेरगं। मानी दारुणभावो, निसंसं पुरिसाधमो पुरिसो।। वृ- "से" तस्य पार्श्वस्थादेर्य परिवारः सः 'सुविहितः' विहितानुष्ठानयुक्तो वर्त्तते । ‘पर्षदि गतो वा' सभायामुपविष्टः 'वैराग्यम्' इति कारणे कार्योपचारात् संसारवैराग्यजनकं धर्मं स कथयतियेनप्रभूताः प्राणिनः संसारविरक्तचेतसः सञ्जायन्ते। तथा कश्चित्पावस्थादि स्वभावादेव 'मानी' साहङ्कारः तथा 'दारुणभावः' रौद्राध्यवसायः 'नृशंसो नाम' क्रूरकर्मा अवन्द्यमानो वधबन्धादिकं कारयतीत्यर्थः, अत एव पुरुषाणांमध्येऽधमः पुरुषाधमः एतादृशः पुरुष इह गृह्यते॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy