________________
5
.
बृहत्कल्प-छेदसूत्रम् -३-३/९७
[भा.४५४३] याहिं आगमनपहे, उज्जाने देउले सभाए का।
रच्छ उवस्सय बहिया, अंतोजयणा इमा होइ ।। वृ-यत्र ते ग्राम-नगरादौ तिष्ठन्ति तस्य बहि स्थितो यदा तान् पश्यति तदा निराबाधवार्ता गवेषयति।यदा वा ते भिक्षाचर्यादौ तत्रागच्छन्ति तदा तेषामागमनपथे स्थित्वा गवेषणं करोति। एवमुद्याने दृष्टानाम्, चैत्यवन्दनिमित्तं गतैर्देवुले वा समवसरणे वा दृष्टानाम्, रध्यायां वा भिक्षामटतामभिमुखागमन मिलितानां वार्ता गवेषणीया । कदाचित् ते पावस्थादयो ब्रवीरन्अस्माकं प्रतिश्रयं कदाऽपि नागच्छत; ततस्तदनुवृत्त्या तेषां प्रतिश्रयमपिगत्वा तत्रोपाश्रयस्य बहि स्थित्वा सर्वमपि निराबाधतादिकं गवेषयितव्यम् । अथ गाढतरं निर्बन्धं ते कुर्वन्ति तत उपाश्रयस्य 'अन्तः' अभ्यन्तरतोऽपि प्रविश्य गवेषयतां साधूनाम् ‘इयं' वक्ष्यमाणा पुरुषविशेषवन्दनविषया यतना भवति ॥पुरुषविशेषं तावदाह[भा.४५४४] मुक्कधुरा संपागडअक्किचे चरण-करणपरिहीने।
लिंगावसेसमित्ते, जंकीरइ तारिसंवोच्छं। धूः-संयमधुरा सामुक्ता-परित्यक्तायेनसमुक्तधुरः,सम्प्रकटानि-प्रवचनोपघातनिरपेक्षतया समस्तजनप्रत्यक्षाणि अकृत्यानि-मूलोत्तरगुणप्रतिसेवनारूपाणि यस्य स सम्प्रकटाकृत्यः, अत एव चरणेन-व्रतादिना करणेन च-पिण्डविशुध्द्यादिना परिहीनः, एताशे 'लिङ्गावशेषमात्रे' केवलद्रव्यलिङ्गयुक्ते 'यद्' याशं वन्दनं क्रियते ताशमहं वक्ष्ये।।. [भा.४५४५] वायाए नमोकारो, हत्थुस्सेहो य सीसनमनं च।
संपुच्छणऽच्छणं छोभवंदनं वंदनं वा वि। दृ-बहिरागमनपथादिषु दृष्टस्य पार्श्वस्थादेवाचा नमस्कारः क्रियते, 'वन्दामहे भवन्तं वयम्' इत्येवमुच्चार्यत इत्यर्थः। अथासौ विशिष्टतर उग्रतरस्वभावो वा ततोवाचा नमस्कृत्य 'हस्तोत्सेधम्' अञ्जलिं कुर्यात् । ततोऽपि विशिष्टतरेऽत्युग्रस्वभावे वा द्वावपि वाङनमस्कार-हस्तोत्सेधौ कृत्वा तृतीयं शिरःप्रणामं करोति। एवमुत्तरोत्तरविशेषकरणे पुरुष-कार्यभेदः प्राक्तनोपचारानुवृत्तिश्च द्रष्टव्या। "संपुच्छणं"तिपुरतः स्थित्वा भक्तिमिव दर्शयताशरीरवार्तायाः सम्प्रच्छनं कर्त्तव्यम्, कुशलं भवतां वर्तत इति । “अच्छणं"ति शरीरवार्ता प्रश्नयित्वा क्षणमात्रं पर्युपासनम् । अथवा पुरुषविशेष ज्ञात्वा तदीयं प्रतिश्रयमपि गत्वा छोभवन्दनं सम्पूर्ण वा वन्दनंदातव्यम् ॥
अथ किमर्थं प्रथमतोवाचैव नमस्कारः क्रियते? कारणाभावेवा किमितिमूलत एव कृतिकर्म न क्रियते? इत्याशङ्कयाह[भा.४५४६] जइ नाम सूइओ मि, ति वज्जितो वा विपरिहरति कोयी।
इति विहु सुहसीलजनो, परिहजो अनुमती माय॥ -यदिनाम कश्चित्पार्श्वस्थादिर्वाङनमस्कारमात्रकणेन अहो! 'सूचितः तिरस्कृतोऽहममुना भङ्गयन्तरेणेति, सर्वथा कृतिकर्माकरमेन वा वर्जितः' परित्यक्तोऽहममीभिरितिपराभवंमन्यमानः सुखशीलविहारितां परिहरति । “इय" एवंविधमपि कारणमवलम्ब्य परिहार्य कृतिकर्मिण सुखशीलजनः, न केवलं पूर्वोक्तं दोषजालमाश्रित्येत्यपिशब्दार्थः । अपि चतस्य कृतिकर्मणि विधीयमाने तदीयायाः सावधक्रियाया अप्यनुमति कृता भवति, अतः सा मा भूदिति बुध्याऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org