________________
उद्देशक : ३, मूलं- ९७ [ मा. ४५३८ ]
३३
गताः, तं चाजारक्षणप्रवृत्तं भ्रष्टव्रतं दृष्ट्वा 'अद्रष्टव्योऽयम्' इति विमृश्यागीतार्थत्वेन शनैः शनैरवष्वष्कन्ति । तांश्च तथा दृष्ट्वा वाचकस्य शङ्का-किमेतेऽपसर्पन्ति ? इति नूनं मां भ्रष्टव्रतं ज्ञात्वा । ततः शङ्काच्छेदी स वाचकः कुपितः सन् पल्लीपतेः कथयित्वा तेषामगीतार्थानां "रुम्मणं" गुप्तौ प्रक्षेपणं कृतवान् । ततस्तदन्वेषणार्थं गुरूणां तत्रागमनम्। ते च तं वाचकं वन्दित्वा 'शिक्षकाः' अगीतार्था एते इत्याद्युक्त्वा स्वशिष्यान् मोचितवन्तः । एवं श्रेणिबाह्यानामपि वन्दनकं कर्त्तव्यम् । अथ "सीस "त्ति पदं प्रकारान्तरेण व्याचष्टे
[भा. ४५३९ ] अहवा लिंग-विहाराओ पञ्चयं पणिवयत्तु सीसेणं । भणति रहे पंजलिओं, उज्जम भंते! तव-गुणेहिं ।।
वृ- अथवा लिङ्गाद् वा संविग्नविहाराद् वा प्रच्युतं स्वगुरुं रहसि शीर्षेण प्रणिपत्य 'प्राञ्जलिकः' रचिताञ्जलिपुटो भणति भदन्त ! प्रसादं विधाय उद्यच्छ तपो-गुणेषु, अनशनादौ तपःकर्मणि मूलगुणोत्तरगुणेषु च प्रयलं कुर्विति भावः । एवमादिके कारणे श्रेणिबाह्यानामपि 'कृतिकर्म' चन्दनकं कर्त्तव्यम् ॥ अथ न करोति तत इदं प्रायश्चित्तम्
[ भा. ४५४०] उप्पन्न कारणम्मिं, कितिकम्मं जो न कुज्ज दुविहं पि । पासत्यादीयाणं, उग्घाया तस्स चत्तारि ॥
वृ- उत्पन्ने वक्ष्यमाणे कारणे यः कृतिकर्म 'द्विविधमपि' अभ्युत्थान-वन्दनकरूपं पार्श्वस्थादीनां न कुर्यात् तस्य चत्वार उद्धाता मासा भवन्ति, चतुर्लघुकमित्यर्थः । शिष्यः प्राह[ भा. ४५४१] दुविहे किइकम्मम्मिं, वाउलिया मो निरुद्धबुद्धीया । आतिपडिसेहितम्मिं, उचरिं आरोवणा गुविला ।।
वृ- एवं 'द्विविधे' अभ्युत्थान-वन्दनलक्षणे कृतिकर्मणि पूर्वं प्रतिषिध्य पश्चादनुज्ञाते सति 'व्याकुलिताः ' आकुलीभूता वयम्, अत एव निरुद्धा संशयक्रोडीकृता बुद्धिर्येषां ते निरुद्धबुद्धिकाः सञ्जाता वयम् । कुतः ? इत्याह-आदौ प्रथमं प्रतिषिद्धं द्विविधमपि कृतिकर्म न वर्त्तते पार्श्वस्थादीनां कर्तुम्' आरोपणा च महती तत् कुर्वतो निर्दिष्टा; "उवरिं 'ति इदानीं पुनस्तेषां वन्दनकभप्रयच्छतो या चतुर्लघुकाख्या आरोपणा प्रतिपाद्यते सा 'गुपिला' गम्भीर, नास्या भावार्थं वयमवबुध्यामहे इति भावः ।। सूरिराह- उत्सर्गतो न कल्पते पार्श्वस्थादीन् वन्दितुम्, परम्
[भा. ४५४२ ] गच्छपरिरक्खणट्ठा, अनागतं आउवायकुसलेण । एवं गणाधिवतिमा, सुहसीलगवेसणा कज्जा ।।
वृ- अवम-राजद्विष्टादिषु ग्लानत्वे वा यदशन-पानाद्युपग्रहकरणेन गच्छस्य परिपालनं तदर्थम् 'अनागतम्' अवमादिकारणे अनुत्पन्न एव 'आयोपायकुशलेन' आयो नाम पार्श्वस्थादेः पाश्र्वाद् निप्रत्यूहसंयमपालनादिको लाभः उपायो नाम तथा कथमपि करोति यथा तेषां वन्दनकमददान एव शरीरबार्त्ता गवेषयति; न च तथा क्रियमाणे तेषामप्रीतिकमुपजायते प्रत्युत स्वचेतसि ते चिन्तयन्ति अहो ! एते स्वयं तपस्विनोऽपि एवमस्मासु स्निह्यन्तिः तत एतयोरायोपाययोः कुशलेन गणाधिपतिना ' एवं ' वक्ष्यमाणप्रकारेण सुखशीलानां पार्श्वस्थादीनां गवेषणा कार्या ।। तत्र येषु स्थानेषु कर्तव्या तानि दर्शयति
2013
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org