________________
३२
बृहत्कल्प-छेदसूत्रम् -३-३/९७ [भा.४५३४] गच्छम्मि नियमक्कन, कजे चत्तारि होति भइयव्वा।
गच्छपडिबद्ध आवन पडिम तह संजतीतो य॥ वृ. गच्छे नियमाद्-अवश्यन्तया कर्त्तव्यं यत् कार्य-कुल-गण-सविषयं तत्र कार्ये चत्वारो जना भक्तव्या भवन्ति-गच्छप्रतिबद्धयथालन्दिकाः "आवन्न" ति आपत्रपरिहारिकाः प्रतिमाप्रतिपन्नाः संयत्यश्चेति । यदा सङ्कः कुलादिकार्यं कर्तुं न शक्नोति तत एतेऽपि कुर्वन्तीति। वन्दनकार्यं तु गच्छप्रतिबद्धयथालन्दिका यस्याचार्यस्य पार्वे सूत्रार्थग्रहणं कुर्वते तस्यावमस्यापि कुर्वन्ति, शेषसाधूनांतुन कुर्वन्ति ।आपनपरिहारिणां प्रतिमाप्रतिपन्नानां संयतीनां च कृतिकर्म क्रियते वा न वा, तेऽपि कुर्वन्ति वा न वेति । इदमेव सविशेषमाह[भा.४५३५] अंतो वि होइ भयणा, ओमे आवत्र संजतीओ य ।
बाहिं पि होइ भयणा, अतिवालगवायगे सीसा ।। वृ'अन्तरपि श्रेणेरभ्यन्तरतःस्थितानामपिवन्दनकंप्रतीत्य भजना भवति। कथम्? इत्याह"ओमि"त्ति योऽवमरालिकः स आलोचनादौ कार्ये क्द्यते, अन्यदा तु नेति । "आवन्नि"त्ति आपन्नपरिहारिको न वन्द्यते, स पुनराचार्यान् वन्दते । “संजईउ"त्ति संयत्योऽपि उत्सर्गतो न वन्द्यन्ते, अपवादपदे तुयदि बहुश्रुतामहत्तरा काचिदपूर्वश्रुतस्कन्धंधारयति ततस्तस्याः सकाशात् तत्रग्रहीतव्ये उद्देश-समुद्देशादिषु सा फेटावन्दनकेन वन्दनीया।न केवलमन्तः किन्तु श्रेणेबहिरपि स्थितानां कृतिकर्मणि भजना मन्तव्या, कारणे तेषामपि कृतिकर्म विधेयमिति भावः । अथ न कुर्वन्ति ततो महान् दोषो भवति, यथा अजापालकवाचकमवन्दमाना अगीतार्था शिष्या दोषं प्राप्तवन्त इति वाक्यशेषः । अथवा "सीस"तिसंविग्नविहारा लिङ्गाद्वा परिच्युतं स्वगुरुं रहसि शीर्षेण प्रणम्य वक्तव्यम्-भगवन् ! युष्माभिः परित्यक्ताः सन्तः साम्प्रतमनाथा वयम्, अतः कुरुतोद्यमं भूयश्चरणकरणानुपालनायामिति ।।
अथ “ओमे आवन संजईओ"त्ति गाथावयवं विवृणोति[भा.४५३६] आलोयण-सुत्तट्टा, खामण ओमे य संजतीसुंच।
आवन्नो कज्जकजं, करेइ न य वंदती अगुरुं॥ वृ-आलोचनानिमित्तं सूत्रार्थग्रहणार्थं चावमस्यापि वन्दनकं दातव्यम् । क्षामणके तु सएव रत्नाधिकानां वन्दनकं दद्यात् । संयतीनामप्यालोचना-सूत्रार्थनिमित्तं कृतिकर्म कर्त्तव्यम् । यः पुनरापन्नपरिहारिकः सः 'कार्यकार्य' कुलकार्यादि करोति । “अगुरुं"ति गुरुं मुक्त्वा न कमपि साधुंवन्दते। उपलक्षणमिदम्, तेन नचासौ केनापि साधुनावन्द्यते॥अथ अजापालकदृष्टान्तमाह{भा.४५३७] पेसविया पच्चंतं, गीतासति खित्तपेहग अगीया।
पेहियखित्ता पुच्छंति वायगंकत्थ रन्ने त्ति ॥ [भा.४५३८] ओसकते दटुं, संकच्छेती उ वातगो कुविओ।
__ पल्लिवति कहण रुंभण, गुरु आगम वंदणं सेहा ।। वृ-केनचिदाचार्येण गीतार्थाभावेऽगीतार्थासाधवः प्रत्यन्तपल्लयां क्षेत्रप्रत्युपेक्षकाः प्रेषिताः। तत्र च भ्रष्टव्रत एको वाचको राजकुले यत्कृतप्रमाणः परिवसति।तेच प्रत्युपेक्षितक्षेत्राः साधवस्तं वाचकं लोकस्य समीपे पृच्छन्ति-कुत्रासौ तिष्ठति ? । लोकेनोक्तम्-अरण्ये । तत स्तेऽपि तत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org