________________
२७
उद्देशक : ३, मूलं-९७, |भा. ४५१४] ५-६ । एतेन वृद्धिद्वारप्ररूपणाऽपि कृता ७ । सम्प्रति अल्पवहुत्वद्वारं प्ररूप्यते-तत्र सर्वस्तोकान्यनन्तगुणवृद्धानि स्थानानि, कण्डकमावत्वात् तेषाम् । तेभ्योऽसङ्घयेयगुणवृद्धानि स्थानानि असङ्खयेयगुणानि, गुणकारश्चैह कण्डकप्रमाणो ज्ञातव्यः, एकैकस्यानन्तगुणवृद्धस्य स्थानस्याधस्तात् प्रत्योकमसङ्खचेयगुणवृद्धानि स्थानानि कण्डकमात्राणि प्राप्यन्त इति कृत्वा; अनन्तगुणवृद्धस्थानकण्डकस्य चोपरि कण्डकमात्राण्यसङ्खयेयगुणवृद्धानि प्राप्यन्ते, न त्वनन्तगुणवृद्धं स्थानम्, तेनोपरिष्टादेकस्य कण्डकस्याधिकस्य प्रक्षेपः । तेभ्योऽप्यसङ्कयेयगुणवृद्धेभ्यः स्थानेभ्यः सङ्घचेयगुणवृद्धानिस्थानानि असद्ध्येयगुणानि, तेभ्योऽपि सङ्घयेयभागाधिकानि स्थानान्यसङ्घयेयगुणानि, तेभ्योऽपि असङ्ख्येयभामाधिकानि स्थानान्यसङ्ख्येयगुणानि, तेभ्योऽप्यनन्तभागवृद्धानि स्थानानि असङ्खयेयगुणानि । गुणकारश्च सर्वत्रापि कण्डकमुपरि चैककण्डकप्रक्षेपः । प्ररूपितमल्पबहुत्वद्वारम्दाजीवपदप्रतिबद्धानात्वालाप-गणनादीनांद्वाराणां प्ररूपणा सम्प्रदायाभावाद्न क्रियते ९ ।। अथ प्रस्तुतयोजनां कुर्वन्नाह[भा.४५१५] सेढीठाणठियाणं, किइकम्मं बाहिरे न कायव्वं ।
पासत्थादी चउरो, तत्थ वि आणादिणो दोसा॥ वृ-अनन्तरोक्तायाः श्रेणेः सम्बन्धिषु संयमस्थानेषु स्थितानां साधूनां कृतिकर्म कर्तव्यम्, ये तु श्रेणे ह्यास्तेषां न कर्त्तव्यम् । के पुनस्ते ? इत्याह-पावस्थादयश्चत्वारः । तत्र पार्श्वस्थाऽवसन्न-कुशील-संसक्त-यथाच्छन्दाः पञ्चाप्येको भेदः, काथिक-प्राश्निक-मामाक-सम्प्रसारका द्वितीयः, अन्यतीर्थिकास्तृतीयः, गृहस्थाश्चतुर्थ; एते चत्वारोऽपि श्रेणिबाह्या मन्तव्याः। तत्रापि' एतेषां कृतिकर्मकरणेऽपि, न केवलमभ्युत्थाने इत्यपिशब्दार्थः, आज्ञादयो दोषाः प्रायश्चित्तं च प्राग्यथाऽभ्युत्थाने पार्श्वस्था-ऽन्यतीर्थिकादिविषयं वर्णितं तथैव वक्तव्यम्॥शिष्यः पृच्छति[भा.४५१६] लिंगेन निग्गतो जो, पागडलिंगंधरेइजो समणो ।
किध होइ निग्गतो त्ति य, दिर्सेतो सक्करकुडेहिं। वृ-'लिङ्गेन' रजोहरणादिना यो मुक्तः स संयमश्रेण्या निर्गतः प्रतीयते, यस्तु श्रमणः प्रकट मेव लिङ्गं धारयति स कथं 'निर्गतः' श्रेणिबाह्यो भवति?, श्रमणलिङ्गस्योपलभ्यमानत्वाद् न भवतीति भावः । अत्र सूरिराह-दृष्टान्तः शर्कराकुटाभ्यामत्र क्रियते-जहा कस्सइ रनो दो घडया सकराभरिया । ते अन्नया मुई दाऊण दोण्हं पुरिसाणं समप्पिया भणिता य, जहा-सारक्खह, जया मग्गिजइ तया दिज्जाह ॥ ततः किमभूत् ? इत्याह[भा.४५१७] दाउं हिट्ठा छारं, सव्वत्तो कंटियाहि वेढित्ता।
सकवाडमनाबाधे, पालेति तिसंझमिक्खंतो।। वृ-तयोरेकः पुरुषस्तं राज्ञा समर्पितंघटगहीत्वातस्याधःक्षारंदत्त्वायथा कीटिका नागच्छेयुरिति भावः, ततः सर्वतः कण्टिकाभिस्तं वेष्टयित्वा ‘सकपाटे' कपाटपिधानयुक्तेऽनाबाधे प्रदेशे स्थापयित्वा त्रिसन्ध्यमीक्षमाणः सम्यक् पालयति ।। द्वितीयः पुनः किं कृतवान् ? इत्याह[भा.४५१८] मुद्दे अविद्दवंतीहिं कीडियाहिं स चालनी चेव ।
जजरितो कालेणं, पमायकुडए निवे दंडो॥ वृ-द्वितीयः पुरुषस्तं घटं कीटिकानगरस्यादूरे स्थापयित्वा मध्यंमध्येनावलोकते, ततः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org