________________
२६
बृहत्कल्प-छेदसूत्रम् -३-३/९७ पञ्चवद्यात्मकानि संयमस्थानानि मूलादारभ्य तथैव वक्तव्यानि, यत् पुनरनन्तगुणवृद्धिस्थानं तत्र, प्राप्यते, षट्स्थानस्य परिसमाप्तत्वात् । इत्थम्भूतान्यसङ्घयेयानि कण्डकानि समुदितानि षट्स्थानकं भवति । तस्मान्त्र प्रथमपटस्थानकादूर्द्धमुक्तक्रमेणैव द्वितीयं षटस्थानकमुत्तिष्ठति, एवमेवचतृतीयम्, एवंषटस्थानकान्यपि तावद्वाच्यानि यावदसङ्ख्येयलोकाकाशप्रदेशप्रमाणानि भवन्ति । उक्तंच
छट्ठाणगअवसाणे, अन्नं छट्ठाणयं पुनो अन्नं ।
एवमसंखा लोगा, छट्ठाणाणं मुणेयव्वा ॥ इत्थम्भूतानि चासङ्खयेयलोकाकाशप्रदेशप्रमाणानि षटस्थानकानि संयमश्रेणिरुच्यते । तथा चोक्तम्-छट्ठाणा उ असंखा, संजमसेठी मुणेयव्वा ॥ तदेवं कृता अविभागपरिच्छेद-स्थानान्तरकण्डक-षटस्थानकानां प्ररूपणा४।
साम्प्रतमधःस्थानप्ररूपणा क्रियते- प्रथमादसञ्जयेयभागवृद्धात् स्थानादधः कियन्ति संयमस्थानान्यनन्तभावृद्धानि ? उच्यते- कण्डकमान्नाणि । तथा प्रथमात् सङ्घयेयभागवृद्धात् स्थानादधः कियन्ति असङ्घयेयभागवृद्धानि स्थानानि? उच्यते कण्डकमात्राणि । एवमुत्तरोत्तरस्थानादधोऽध आनन्तर्येण तावद् मार्गणा कर्त्तव्या यावत् प्रथमादनन्तगुणवृद्धानि स्थानानि? उच्यते-कण्डकवर्गकण्डकंच।तथा प्रथमात् समयेयगुणवृद्धात्स्थानादधः कियन्ति असङ्ख्येयगुणवृद्धात् स्थानानि? उच्यते-कण्डकवर्ग कण्डकंचा तथा प्रथमादनन्तगुणवृद्धात् स्थानादधः कियन्ति सङ्ख्येयगुणवृद्धानिस्थानानि? उच्यते-कण्डकवर्गकण्डकंचाएवमुक्तप्रकारेणयान्तरिता त्र्यन्तरिता चतुरन्तरिता च मार्गणा स्वधिया परिभावनीया । अथ पर्यवसानद्वारम्-तत्रानन्तगुणवृद्धकण्डकादुपरिपञ्चवृध्यात्मकानि सर्वाणिस्थानानि गत्वापुनरनन्तगुणवृद्धं स्थानंन प्राप्यते, षट्स्थानस्य परिसमाप्तत्वात् । ततस्तदेव सर्वान्तिमं स्थानं षट्स्थानकस्य पर्यवसानम् ।। अथ भाष्यकारः प्रकारान्तरेणाधः-पर्यवसानद्वारयोर्युगपत् प्ररूपणामाह[भा.४५१३] एयं चरित्तसेडिं, पडिवज्जइ हिट्ट कोइ उवरिंवा।
जो हिट्ठा पडिवाइ, सिज्झइ नियमा जहा भरहो । वृ-एतां चारित्रश्रेणिं कश्चिद् जीवः 'अधस्ताद्' जघन्यसंयमस्थानेषु प्रतिपद्यते, कश्चित् पुनः 'उपरि' उपरितनेषु पर्यन्तवर्तिषु, उपलक्षणत्वाद् मध्यमेषु वा संयमस्थानेषु प्रतिपद्यते । तत्र योऽधस्तनेषु संयमस्थानेषु चारित्रश्रेणि प्रतिपद्यते स नियमात्तेनैव भवग्रहणेन सिध्यति, यथा भरतश्चक्रवर्ती॥ [भा.४५१४] मझे वा उवरिं वा, नियमा गमनं तु हिट्ठिभं ठाणं ।
अंतीमुहुत्त वुड्डी, हानी वि तहेव नायव्वा॥ वृ-यः पुनः ‘मध्ये वा' मध्यमेषु 'उपरिवा' उपरितनेषु संयमस्थानेषुचारित्रवेणि प्रतिपद्यते तस्यन नियमाद् 'अधस्तनं' सर्वजधन्यं संयमस्थानं यावद् गमनं भवति, ततोऽसौ तेनान्येन वा भवग्रहणेन सर्वाणि संयमस्थानानि स्पृष्ट्वा सिध्यति । या पुनरधस्तनसंयमस्थानेभ्य उपरितनसंयमस्थानारोहणलक्षणा वृद्धिः साऽन्तर्मुहूर्तमात्रं भवति । या चोपरितनसंयमस्थानेभ्योऽधस्तनसंयमस्थानेष्ववरोहणरूपा हानि साऽपि तथैव' अन्तर्मुहूर्त्तमात्रैव ज्ञातव्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org