________________
२८
बृहत्कल्प-छेदसूत्रम् -३-३/९७ शर्करागन्धाघ्राणतः समायाताभि कीटिकाभिर्मुद्रामविद्रवन्तीभिः 'सः' घटोऽधस्तात् कालेन जरितः कृतः,शर्करा सर्वाऽपि भक्षिता।अन्यदाराज्ञा तौपुरुषौघटंयाचितौ, ततो द्वाभ्यामप्यानीय दर्शितयोर्घटयोः “पमायकुडए"त्ति येन कुटरक्षणे प्रमादः कृतस्तस्य नृपेण दण्डः कृतः । उपलक्षणमिदम्, तेन यस्तं सम्यक् पालितवान् तस्य विपुला पूजा विदधे । एष दृष्टान्तः, अयमर्थोपनयः-राजस्थानीया गुरवः, पुरुषस्थानीयाः साधवः, शर्करास्थानीयंचारित्रम्, घटस्थानीय आत्मा, मुद्रास्थानीयं रजोहरणम्, कीटिकास्थानीयान्यपराधपदानि, दण्डस्थानीयादुर्गतिप्राप्ति, पूजास्थानीया स्वर्गादिसुखपरम्पराप्राप्ति ॥ तथा चामुमेवोपनयं लेशतो भाष्यकारोऽप्याह[भा.४५१९] निवसरिसो आयरितो, लिंगं मुद्दा उ सक्करा चरणं ।
पुरिसा य होति साहू, चरित्तदोसा मुयिंगाओ। वृ- गतार्था । नवरं 'मुयिङ्गाः' कीटिकाः । यथा तस्य प्रमत्तपुरुषस्य मुद्रासद्भावेऽप्यधःप्रविशन्तीभिः कीटिकाभिर्घटं विभज्य शर्करा विनाशिता, एवं साधोरपि प्रमादिनो रजोहरणमुद्रासद्भावेऽप्यपराधपदैरात्मनि जर्जरिते शर्करातुल्यं चारित्रं कालेन वा सद्यो वा विनाशभाविशति । तत्र कालेन यथा विनश्यति तथा दर्शयति[भा.४५२०] एसणदोसे सीयइ, अनानुतावी नचेव वियडे ।
नेवय करेइ सोधिं, न त विरमति कालतो भस्से ।। वृ-एषणादोषेषु सीदति, तद्दोषदुष्टंभक्त-पानं गृह्णातीत्यर्थः । एवं कुर्वन्नपिपश्चात्तापंकरिष्यति इत्याह-'अननुतापि' पुरःकर्मादिदोषदुष्टाहारग्रहणाद् अनु-पश्चात् तप्तुं-'हा ! दुछु कृतं मया' इत्यादिमानसिकतापंधर्तुंशीलमस्येत्यनुतापी, न तथा अननुतापी। कथमेतद् ज्ञायते? इत्याह'न चैव विकटयति' गुरूणां पुरतः स्वदोषं न प्रकाशयति, विकटयति वा परं तस्य 'शोधिं' प्रायश्चित्तं गुरुप्रदत्तं नैव करोति, 'नच' नैव अशुद्धहारग्रहणाद् विरमति । एवं कुर्वन् ‘कालतः' कियताऽपि कालेन चारित्रात् परिभ्रश्येत् । यस्तुमूलगुणान् विराधयति स सद्यः परिभ्रश्यति ।
अमुमेवार्थं सविशेषमाह[मा.४५२१) मूलगुण उत्तरगुणे, मूलगुणेहिं तुपागडो होइ ।
उत्तरगुणपडिसेवी, संचयऽवोच्छेदतो भस्से। वृ-इह प्रतिसेवको द्विधा-मूलगुणप्रतिसेवक उत्तरगुणप्रतिसेवकश्च। तत्र मूलगुणप्रतिसेवायां वर्तमानः प्रकट एव प्रतीयते यथा चारित्रात् परिम्रश्यति । उत्तरगुणप्रतिसेवी तु सञ्चयेनबह्वपराधमीलकेन योऽशुद्धाहारग्रहणादेरव्यवच्छेदः-परिणामस्यानुपरमस्ततः 'भ्रश्येत्' चारित्रात् परिभ्रंशमाप्नुयात्॥अत्रैवार्थे दृष्टान्तमाह[भा.४५२२] अंतो भयणा बाहिं, तु निग्गते तत्थ मरुगदिद्वंतो।
संकर सरिसव सगडे, मंडव वत्थेण दिलुतो॥ वृ-इह सम्बन्धानुलोम्यतः प्रथममुत्तरार्धं व्याख्यायते-सङ्करः-तृणादिकचवरः तदृष्टान्तोयथाआरामो सारणीए पाइजइ । ताए वहंतीए एगंतणं सयं लग्गं तं न अवणीयं, अन्नं लग्गं तं पिन अवनीयं, एवं वहूर्हि लग्गंतेहिं तत्थ तेन आश्रयेण चिक्खल्लधूलीए संचओ जाओ। तेनं संचयेणं तं पानियं रुद्धं अन्नओ गंतुं पयर्ट्स, ताहे सो आरामो सुक्को । एवमभिक्खणमभिक्खणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org