________________
१८
बृहत्कल्प-छेदसूत्रम् -३-३/९७
क इव यथा किमुज्झति? इत्याह-“कयकिच्चो वक्खरंचेव"त्ति, एतदुक्तं भवति-यथा केनचिद् भाटिकेन कुतश्चिद् नगराद् नगरान्तरे 'वक्खरं' भाण्डमुपनीतम् । वक्खरस्वामिना च भाटिकोऽभिहितः-प्रतीक्षस्व कञ्चित् कालं यावदस्य वक्खरस्यावतारणस्थानं किञ्चिदन्वेषयामि। स प्राह-'मयाऽस्मिन्नेव नगरे समानेतव्यमिदमित्येवोक्तम्, अतः कृतकृत्यत्वाद् नातः परं प्रतीक्षेऽहम्' इत्युक्त्वाऽस्थान एव तद्भाण्डमुज्झित्वा गच्छति। एवंसाधुरप्यस्थान एव वन्दनकं परित्यज्य नश्यतीत्येतावता दृष्टान्त इति ॥ चतुर्थ दोषमाह[भा.४४७८] परिपिंडिए व बंदइ, परिपिडियवयण करणओ वा वि।
टोलो व्व उप्फिडंतो, ओसक्क-ऽहिसक्कणं दुहओ।। वृ- यत्र परिपिण्डितान्' एकत्र मिलितानाचार्यादीनेकवन्दनकेनैव वन्दते न पृथक् पृथक् तत् परिपिण्डितमुच्यते; अथवा वचनानि-सूत्रोच्चारणगर्भाणि, करणानि-कर-चरणादीनि, परिपिण्डितानि-अव्यवच्छिन्नानि वचन-करणानि यस्य स तथा, ऊर्वोरुपरि हस्तो व्यवस्थाप्य सम्पिण्डितकर-चरणोऽव्यक्तसूत्रोच्चारणपुरः सरंयत्र वन्नदते तद् वा परिपिण्डितमिति भावः । पञ्चमं दोषमाह-उत्ष्वष्कणम्-अग्रतः सरणम् अभिष्वष्कणं-पश्चादपसरणं "दुहओ'"ति ते द्वे अपि टोलवद् उत्प्लुत्योत्प्लुत्य करोति यत्र तत् टोलगतिवन्दनकमिति ॥ षष्ठं दोषमाह[भा.४४७९] उवगरणे हत्थम्भिव, धित्तु निवेसेति अंकुसं विति ।
ठित-विट्ठरिंगणं जं, तं कच्छभरिंगियं नाम। वृ-यत्राशेन गजमिव शिष्य आचार्यमूर्द्धस्थितं शयितं प्रयोजनान्तरव्यग्रं वा 'उपकरणे' चोलपट्ट-कल्पादौ हस्ते वा अवज्ञया समाकृष्य वन्दनकदानार्थमासने उपवेशयति तद् अकुशं ब्रुवते । नहि पूज्याः कदाचिदप्युपकरणाद्याकर्षणमर्हन्ति मविनयत्वात्, किन्तु प्रणामं कृत्वा कृताअलिपुटैर्विनयपूर्वकमिदमुच्यते-उपविशन्तु भगवन्तो येन वन्दनकं प्रयच्छामीति अतो दोषदुष्टमिदम् । सप्तमं दोषमाह-स्थितस्योर्द्धस्थानेन "तित्तीसत्रयराए" इत्यादिसूत्रमुच्चारयत उपविष्टस्य वा-आसीनस्य "अहो कायंकाय" इत्यादिसूत्रंभणतः कच्छपस्येवजलचरजीवविशेषस्य रिङ्गणम्-अग्रतोऽभिमुखं यत्किञ्चित् चलनंतद्यत्र करोतिशिष्यस्तदिदं कच्छपरिङ्गितं नामेति।। अष्टमंदोषमाह[भा..८०] उठिंत निवेसंतो, उव्वत्तति मच्छउ ब्व जलमज्झे।
वंदिउकामो वऽनं, झसो व्व परियत्तती तुरियं ।। वृ-उत्तिष्ठनिविशमानोवाजलमध्ये मत्स्य इव 'उद्वर्तते' उद्वेल्लयति यत्रतद्मत्स्योद्धृत्तम् अथवा एकमाचार्यादिकंवन्दित्वातत्समीपतत्समीप एवापरंवन्दनाह कञ्चन वन्दितुमिच्छंस्तत्समीपं जिगमिषुरुपविष्टएव 'झषइव मत्स्यइवत्वरितमङ्गं परावर्तयंयत्र गच्छति तद्वा मत्स्योद्धृत्तम्।।
नवममाह[भा.४४८१] अप्प परपत्तिएणं, मणप्पदोसो अनेगउहाणो ।
पंचेव वेइयाओ, भयं तु निजूहणाईयं ॥ वृ-मनःप्रद्वेषः 'अनेकोत्थानः' अनेकनिमित्तो भवति, सचसर्वोऽप्यात्मप्रत्ययेन परप्रत्ययेन वा स्यात् । तत्रात्मप्रत्ययेन यदा शिष्य एव गुरुणा किञ्चित् परुषमभिहितो भवति, परप्रत्ययेन तु
www.jainelibrary.org
Jain Education International
For
For Private & Personal Use Only