________________
बृहत्कल्प-छेदसूत्रम् -३-३/९७ वृ-'वाचिकसमितिमि' भाषासमिति सा द्वितीया वाग्गुप्तिमन्तव्या।यदा किल भाषासमितो भवति तदाथा भाषाया असमितिप्रत्ययं सा द्वितीया वाग्गुप्तिमन्तव्या । यदा किल भाषासमितो भवति तदा यथा भाषाया असमितिप्रत्ययं कर्मबन्धंनिरुणद्धि तथा वागगुप्तिप्रत्ययमपि कर्मबन्धं निरुणद्धि, एवं भाषासमिति-वागुप्तयोरेकत्वम् । 'तृतीया पुनः एषणाख्या समिति 'मानसी' मानसिकोपयोगनिष्पन्ना । किमुक्तं भवति ?-यदा साधुरेषणासमितो भवति तदा श्रोत्रादिभिरिन्द्रियैर्हस्त-मात्रकधावनादिसमुत्थेषु शब्दादिषूपयुज्यते, अत एवास्या मनोगुप्तेश्चैकत्वम्। 'शेषास्तु समितयः' ईर्या-ऽऽदाननिक्षेपोच्चारादिपारिष्ठापनिकाख्याः 'कायिक्यः' कायचेष्टानिष्पन्ना, अत एवासां तिसृणामपि कायगुप्तया सहैकत्वम्।। __ "मणोउसव्वासुअविरुद्धो"त्तिमानसिक उपयोगः 'सर्वासु पञ्चस्वपि समितिषु अविरुद्धः' समितिपञ्चकेऽप्यस्तीति भावः । अत एव मनोगुप्तस्य सचेष्टस्य सर्वासां समितीनां मनोगुप्तया सहकत्वं मन्तव्यम् ॥ आह-भिक्षार्थं गृहद्वारे स्थितस्य तत्राहारादीनि कल्पनीयानि मार्गयतः श्रोत्रादिभिरुपयुक्तस्य भाषासमिति-मनोगुप्तयेषणासमितीनां तिसृणामपि सम्भवो दृश्यते अतः किमासामेकत्वम् उतान्यत्वम् ? इत्याशङ्कयाह[भा.४५४] वयसमितो बिय जायइ, आहारादीणि कप्पणिज्जाणि ।
एसणउवओगे पुन, सोयाई माणसा न वई॥ . वृ- 'शङ्कित-मक्षितादिदशदोषरहितं मया ग्राह्यम्' इत्येषणासमितिभावसंयुक्तो यदा साधुराहारादीनि कल्पनीयानि मार्गयति तदा वाक्समित एवासी जायते, न पुनर्मनोगुप्त इत्येवकारार्थः। यदातुश्रोत्रादिभिरेषणायामुपयोगकरोतितदामानसी नाम गुप्तिर्भवेत्,मनोगुप्तिरित्यर्थः, न पुनः वाग्' भाषासमिति । इदमत्र तात्पर्यम्-भाषासमितिमनोगुप्तिश्चेति द्वे समिति-गुप्ती युगपन्न भवतः किन्तु भिन्नकालम्, यद्यपि च "मनोयसव्वत्थ अविरुद्धो" ति वचना भाषासमितावपि मानसिकोपयोगः समस्ति तथापि गौणत्वादसौ सन्नपिन विवक्ष्यत इति ॥ अपिच[भा.४५५] जा विय ठियस्स चेट्ठा, हत्यादीणं तु भंगियाईसु।
सावि य इरियासमिती, न केवलं चंकमंतस्स ॥ वृ-न केवलं चक्रमतः' चङ्क्रमणेकुर्वत एवईर्यासमिति किन्तु स्थितस्य गमना-ऽऽगमनक्रियामकुर्वतः भङ्गिकादिषु' भङ्गबहुल-गमबहुलादिश्रुतेषु परावर्तयमानेषु भङ्गकादिरचनाय याऽपि हस्तादीनांचेष्टा साऽपि परिस्पन्दरूपत्वादीर्यासमिति प्रतिपत्तव्या॥यच्च परेण प्रागुक्तम् "चक्रमणं निरर्थकम्" इत्यादि तत्परिहाराय चक्रमणगुणानुपदर्शयति[भा.४४५६] वायाई सट्ठाणं, वयंति कुविया उ सन्निरोहेणं ।
लाघवमग्गिपडुत्तं, परिस्समजतो यचंकमतो॥ कृ-अनुयोगदानादिनिमित्तंयश्चिरमेकस्थानोपवेशनलक्षणः सन्निरोधस्तेन 'कुपिताः स्वस्थानात् चलितायेवातादयो धातवस्ते चक्रमतो भूयः स्वस्थानं व्रजन्ति। लाघवं शरीरे लघुभावउपजायते। 'अग्निपटुत्वं' जाठरानलपाटवं च भवति । यश्च व्याख्यानादिजनितः परिश्रमस्तस्य जयः कृतो भवति। एते चक्रमतो गुणा भवन्ति अतो ननिरर्थकं चक्रमणम्॥आह-यद्येवं तत किमवश्यं तत्राभ्युत्थानं कर्तव्यम् उत न? इति अत्रोच्यतेJain Education International
For Private & Personal Use Only
www.jainelibrary.org