________________
११
उद्देशक : ३, मूलं-९७, [भा. ४४४८]
वृ-'कामम् अनुमतमिदंयद्एष जीवः एजमानः' स्पन्धमानः 'आरम्भादिषु' कर्मबन्धकारणेषु वर्त्तते, ‘स तु' स पुनः परिस्पन्द 'अनर्थं' निष्कारणं 'नेष्टः' नाभिमतः अपि 'बाहोरुत्क्षेपः' बाहूक्षेपमात्रोऽपि, किं पुनश्रचङ्क्रमणादिरित्यपिशब्दार्थः, अर्थादापत्रम्-यः सार्थकश्चक्रमणादिव्यापारः स इष्ट एवेति ॥ अथ सार्थकोऽपि व्यापारः कथमिष्टः ? इत्यस्यां जिज्ञासायां यथा योगत्रयेऽपि व्यापार्यमाणे दोषा यथा च गुणा भवन्ति तदेतत् प्रतिपादयति[भा.४४४९] मनो य वाया काओ अ, तिविहो जोगसंगहो।
ते अजुत्तस्स दोसाय, जुत्तस्स उगुणावहा॥ वृ- मनोयोगो वाग्योगः काययोगश्चेति त्रिविधो योगसङ्गहो भवति, सङ्कपतस्त्रिधा योगो भवतीत्यर्थः । ते च' मनो-वाक्-काययोगाः ‘अयुक्तस्य' अनुपयुक्तस्य 'दोषाय' कर्मबन्धाय भवन्ति, युक्तस्य तुत एव 'गुणावहाः' कर्मनिर्जराकारिणः सम्पद्यन्ते ॥ इदमेव भावयति[भा.४५०] जहगुत्तस्सिरियाई, न होति दोसा तहेव समियस्स।
गुत्तीट्ठिय प्पमायं, रुंभइ समिई सचेस्स ।। वृ यथा किल मनो-वाक्-कायगुप्तस्य ईर्यादिप्रत्यया अनुपयुक्तगमना-ऽऽगमनादिक्रियासमुत्थादोषा न भवन्ति तथैव 'समितस्यापि' चक्रमणं कुर्वत ईर्यादिप्रत्यया दोषान भवन्त्येव । किं कारणम् ? इत्याह-यदा किल गुप्तिषु-मनोगुप्तयादिषु स्थितो भवति तदा योऽगुप्तिप्रत्ययः प्रमादस्तं निरुणद्धि, तनिरोधाच्च तत्प्रत्ययं कर्मापिन बध्नाति । यस्तु समिती स्थितः स सचेष्टस्य यः प्रमादो यश्चतप्रत्ययः कर्मबन्दस्तयोनिरोधं विदधाति॥परः प्राह-यो गुप्तः स समितो भवति उत न? इति यो वा समितः स गुप्तो भवति उत न? इति अत्रोच्यते[भा.४४५१] समितो नियमा गुत्तो, गुत्तो समियत्तणम्मि भइअब्दो।
कुसलवइमुदीरंतो, जं वइसमितो विगुत्तो वि॥ वृ-इह समितयः प्रवीचाररूपा इष्यन्ते, गुप्तयस्तु प्रवीचारा-ऽप्रवीचारोभयरूपाः । प्रवीचारो नाम-कायिको वाचिको वा व्यापारः।ततो यः समितः' सम्यग्गमन-भाषणादिचेष्टायांप्रवृत्तःस नियमाद् ‘गुप्तः' गुप्तियुक्तो मन्तव्यः, यस्तु गुप्तः स समितत्वे 'भक्तव्यः' विकल्पनीयः । तत्र समितः कथं नियमाद् गुप्तः ? इत्याह-'कुशलां' निरवद्यादिगुणोपेतां वाचमुदीरयन् 'यद् यस्माद् वाक्समितोऽपि गुप्तोऽपि । किमुक्तं भवति ?-यः समयगनुविचिन्त्य निरवां भाषां भाषते स भाषासमितोऽपि वाग्गुप्तोऽपि वाग्गुप्तोऽपि च भवति, गुप्तेः प्रवीचाररूपतयाऽप्यभिधानात; अतः समितो नियमाद् गुप्त इति ।गुप्तः समितत्वे कथं भजनीयः ? इत्याह[भा.४५२] जो पुन काय-वतीओ, निरुज्झ कुसलं मणं उदीरेइ ।
चिट्ठइ एकग्गमणो, सो खलु गुत्तो न समितो उ॥ वृ- यः पुनः काय-वाची निरुध्य 'कुशल' शुभं मन उदीरयन् एकाग्रमना धर्मध्यानाधुपयुक्तचित्तस्तिष्ठति स खलु गुप्त उच्यते, न समितः, समितेः प्रवीचाररूपत्वात् । यस्तु कायवाचौ सम्यक्प्रयुक्तेस गुप्तोऽपि समितोऽपि मन्तव्यः । अथ समिति गुप्तीनांपरमवतारंदर्शयत्राह[भा.४४५३] वाइगसमिई बिइया, तइया पुन मानसा भवे समिई ।
सेसा उ काइयाओ, मनो उ सव्वासु अविरुद्धो॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org