________________
१०
बृहत्कल्प-छेदसूत्रम् -३-३/९७ श्रावकास्तैः सममायातमनुत्तिष्ठतश्चतुर्गुरु । असंज्ञिभिः सममायातस्यानभ्युत्थाने षड्लघु । संज्ञिनीभिरसंज्ञिनीभिश्च स्त्रीभिः सममायान्तमनभ्युत्तिष्ठतः षड्गुरु । वादिना सार्धमायातेऽ. नभ्युत्थिते छेदः । अमात्येन सार्धमागते मूलम् । सङ्घन सार्धमायातेऽनुत्थितेऽनवस्थाप्यम्। राज्ञा सहितं सूरिमागतमनुत्तिष्ठतः पाराञ्चिकम् ।। अथ किमर्थं स्त्रीभिः सममायाते पाराश्चिकम् ।। अथ किमर्थं स्त्रीभिः सममायाते गुरुतरं प्रायश्चित्तम् ? उच्यते[भा.४४५] पूएंतिपूइयं इत्थियाउ पाएण ताओ लहुसत्ता।
एएण कारणेणं, पुरिसेसुंइत्थिया पच्छा। -इह स्त्रियःप्रायेण 'पूजितं पूजयन्ति' यमेवाचार्यादिकंसाधु-श्रावकादिभिरभ्युत्थानादिना पूज्यमानं पश्यन्ति तस्यैव पूजां विदधति, ताश्चस्त्रियः प्रायेण 'लघुसत्त्वाः' तुच्छाशया भवन्ति, ततः साधुभिरनभ्युत्थीयमानमाचार्य गाढतरं परिभवबुध्यापश्यन्ति-नकिमप्येष आचार्योजानाति, नचायं विशिष्टगुणवान् सम्भाव्यते, अन्यथा किमेते साधवो नाभ्युत्तिष्ठन्ति ? । एवमेतेन कारणेन 'पुरुषेषु' साधु-श्रावकादिषुपूर्वं लघुतरप्रायश्चित्तमुक्त्वा पश्चात् स्त्रियोऽधिकृत्य गुरुतरमुक्तम्। अथ राज्ञा सार्धं समागतस्यानभ्युत्थाने किं कारणं पाराश्चिकम् ? इत्याह[भा.४६]पाएणिद्धा एंति महानेन समंतू, फार्ति दोसो गच्छइ एएसुतनू वि।
गझं वक्कं होज कहं वा परिभूतो, वेडुज्जं वा कुच्छियवेसम्मि मनूसे। -"ऋद्धा-' राजादय ऋद्धिमन्तः प्रायेण' बाहुल्येन महाजनेन' सामन्त-मन्त्रि-महत्तमादीनां महता समवायेन समं समागच्छन्ति, तत एतेषु 'तनुरपि' स्वल्पोऽप्यनभ्युत्थानमात्रलक्षणो दोषः स्फातिं गच्छति, सर्वत्र विस्तरतीति भावः । अप च-साधुभिरनभ्युत्थीयमान आचार्य परिभूतो भवति, परिभवपदमुपगच्छतीत्यर्थः । परिभूतस्य च वाक्यं वचनं कथं नाम राजादीनां 'ग्राह्यम्' उपादेयं भवेत् ? ।वैडर्यमिव रलं 'कुत्सितवेषे' कार्पटिकवेषधारिणि मनुष्ये वर्तमानम्; यथा तदीयेहस्तेस्थितंसद्अनर्थ्यमपितद्न जनस्योपादेयम्, एवंगुरूणामपिधर्मकथावाक्यं गाम्भीर्यमाधुर्यादिगुणैरनध्यमपि परिभूततया न राजादीनामुपादेयं भवति । तदनुपादेयतायां च तेषां सम्यग्दर्शनादिप्रतिपत्तिरपि न भवति । अतो राज्ञा सार्धं समायातेऽनभ्युत्थीयमाने पाराञ्चिकम् । परः प्राह-युक्तं प्रश्रवणभूम्यादेरागतस्याभ्युत्थानम्, यत्तुचक्रमणकुर्वतोऽभ्युत्थानंतद्नास्माकं युक्तिक्षम प्रतिभाति, यतः[भा.४४७] अवस्सकिरियाजोगे, वटुंतो साहु पुज्जया।
परिफग्गुंतु पासामो, चंकम्मंते वि उट्ठणं ।। वृ-विचार-विहारादिको योऽवश्यं कर्त्तव्यः क्रियायोगस्तत्र वर्तमानो यदा समागच्छति तदा 'साध्वी श्रेयसीतस्य पूज्यता । यदातुचङ्कमणंकरोति तदा निरर्थके योगेवर्तते अतश्रचकमत्यपि गुरौ यद् उत्थानं तत् 'परिफल्गु' निष्फलमेवपश्यामः । यत उक्तं भगवत्याम्-जावंचनं से जीवे सयासमियं एयइ० तावं च नं से जीवे आरंभे वट्टइ संरंभे वट्टइ० । जावं च नं से जीवे आरंभे वट्टइ० तावं च नं तसस जीवस्स अंतकिरिया न भवइ । अत्र सूरिः प्रतिविधानमाह[भा.४४४८] कामंतु एअमाणो, आरंभाईसु वट्टई जीवो।
सो उ अणट्ठा नेट्ठो, अविबाहूणं पि उक्खेवो ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org