________________
उद्देशक : ३, मूलं- ९७ [भा. ४४४०]
९
वृ- अकारणा कार्यस्य सिद्धिः 'इह' अस्मिन् जगति नास्ति, यद् यस्य कार्यस्योपादानं कारणं तत् तेन विना न सिध्यतीत्यर्थः, यथा मृत्पिण्डं विना घट इति कारणसद्भावेऽपि 'न च' नैव 'अनुपायेन' उपायाभावेन कार्यं भवतीति 'तज्ज्ञाः ' कार्यसिद्धिवेदिनो वदन्ति, यथा मृत्पिण्डसद्भावेऽपि चक्र-चीवरोदकाद्यपायमन्तरेण घटो न सिध्यति । यः पुनरुपायवान् कारणसम्प्रयुक्तः प्रयत्नवांश्च भवति स कार्याणि साधयति, यथा कुम्भकारो मुपिण्डमासाद्य चक्रचीवराद्युपायसाचिव्यजनितोपष्टम्भः स्वहस्तव्यापारणरूपं प्रयत्नं कुर्वन् घटमिति । आहयद्येवमुपायकारणयुक्तः कार्याणि साधयति ततः प्रस्तुते किमायातम् ? इत्याह
[भा. ४४४१] धम्मस्स मूलं विनयं वयंति, धम्मो य मूलं खलु सोग्गईए । सा सोग्गई जत्य अबाहया ऊ, तम्हा निसेव्वो विनयो तदट्ठा ॥
वृ- 'धर्मस्य' श्रुत चारित्ररूपस्य 'मूलं' प्रथममुत्पत्तिकारणं 'विनयम्' अभ्युत्थानादिरूपं वदन्ति तीर्थकरादय इति गम्यते । स च धर्म 'खलु' अवधारणे सुगतेः 'मूलं' कारणं मन्तव्यम्, दुर्गतौ प्रपतन्तं प्राणिनं धारयति सुगतौ च स्थापयतीति निरुक्तिसिद्धत्वात् तस्येति भावः । अथ सुगतिरिह कीशी गृह्यते ? इत्याह-सा सुगतिरभिधीयते यत्र 'अबाधता' क्षुत्पिपासारोग-शोकादीनां शारीरमानसानां बाधानामभावः, सिद्धिरित्यर्थः । यत वं तस्मात् 'तदर्थं' सुगतिनिमत्तं विनयो निषेव्यः । इदमत्र ह्रदयम्-इह कार्यं तावदव्याबाधसुखलक्षणो मोक्षः, तस्य च कारणं श्रुत चारित्ररूपः सर्वज्ञभाषितो धर्म, स च गुरोरभ्युत्थान-वन्दनादिविनयलक्षणमुपायमन्तरेण न साधयितुं शक्यते, अतः परम्परया मोक्षकारणमेवायमिति मत्वा तदर्थं विनय आसेवितव्य इति ।। आह-य युक्तं पौरुषी-लेपप्रदानादिकारिणामभ्युत्थानम्, ग्लानोत्तमार्थप्रतिपन्नयोस्तु किमर्थमभ्युत्थानम् ? उच्यते
[ मा. ४४४२ ] मंगल-सद्धाजननं, विरियायारो न हाविओ चेवं । एएहिं कारणेहिं अतरंत परिन उद्वाणं ।।
वृ- ‘अतरन्तः' ग्लानः “परिन्न' त्ति मतप्रत्ययलोपात् 'परिज्ञावान्' अनशनी, एतयोर्गुरुणामभ्युत्थाने मङ्गलं भवति, ततश्च ग्लानस्याचिरादेव प्रागुणीभवनं कृतभक्तप्रत्याख्यानस्य तु निर्विघ्नमुत्तमार्थसाधनं स्यात् । तथा ग्लाने परिज्ञावति वा गुरुमभ्युत्तिष्ठति शेषाणामप्यभ्युत्थाने श्रद्धाजननं विहितं भवति, यद्येषोऽप्येवं गुरूनभ्युत्तिष्ठति ततोऽस्माभि सुतरामभ्युत्थातव्यम् । अपि च-एवं कुर्वता ग्लानेन परिज्ञावता च वीर्याचारो न हापितो भवति । अत एतैः कारणैरेताभ्यामभ्युत्थातव्यम् । प्रकारान्तरेण प्रायश्चित्तमुपदर्शयन्नाह
[भा. ४४४३]
चकमणे पासवणे, वीयारे साहु संजई सन्नी । सनिणि वाइ अमको, संघे वा रायसहिए वा ॥
[भा. ४४४४ ] पनगं च भिन्नमासो, मासो लहुगो य होइ गुरुगो य । चत्तारि छ च लहु गुरु, छेदो मूलं तह दुगं च ॥
वृ-इह प्रथमगाथाया द्वितीयगाथायाश्च पदानां यथासङ्ख्येन योजना । तद्यथा आचार्यं चङ्क्रमणं कुर्वाणं दृष्ट्वा नाभ्युत्तिष्ठति 'पञ्चकं' पञ्चरात्रिन्दिवानि प्रायश्चित्तम् । प्रश्रवणभूम्याआगतं नाभ्युत्तिष्ठति भिन्नमासः । 'विचारः' संज्ञा तां कृत्वा समागतस्यानभ्युत्थाने मासलघु । अन्यैः साधुभिः समागतस्यानभ्युत्थाने मासगुरु । संयतीभि सार्धमागतस्यानुत्थाने षड्लघु । संज्ञिनः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org